यथा᳚ वि॒द्वा{4} अरं॒ कर॒द्विश्वे᳚भ्यो यज॒तेभ्य᳚ः ।
अ॒यम᳚ग्ने॒ त्वे अपि॒ यं य॒ज्ञं च᳚कृ॒मा व॒यम् ॥
अ॒यम᳚ग्ने॒ त्वे अपि॒ यं य॒ज्ञं च᳚कृ॒मा व॒यम् ॥
पदपाठः (Word-by-word)
यथा᳚ । वि॒द्वान् । अर᳚म् । कर᳚त् । विश्वे᳚भ्यः । य॒ज॒तेभ्यः᳚ ।
अ॒यम् । अ॒ग्ने॒ । त्वे इति᳚ । अपि᳚ । यम् । य॒ज्ञम् । च॒कृ॒म । व॒यम् ॥
अ॒यम् । अ॒ग्ने॒ । त्वे इति᳚ । अपि᳚ । यम् । य॒ज्ञम् । च॒कृ॒म । व॒यम् ॥
सायणभाष्यम् (Sayana Commentary)
हेअग्ने विद्वान् त्वन्माहात्म्याभिज्ञः प्रयोगज्ञोवा यजमानोवा यथाविश्वेभ्योयजतेभ्यः सर्वेभ्योय- जनीयेभ्योदेवेभ्यः अरंपर्याप्तंकरत् कुर्यात् तथात्वमनुगृहाणेत्यर्थः वयमपियंयज्ञंयागविशेषंचकृमकु- र्महेसयागस्त्वेअपि अपिरेवार्थे तवैव त्वत्प्रीत्यर्थः त्वमेवतस्मात्त्वंसर्वदेवार्थयागं तत्तदृत्विग्रपःसन् निर्वहेत्यर्थः ॥ ८ ॥
इमांमइत्यष्टर्चंषष्ठंसूक्तं सोमाहुत्यार्षमाग्नेयंगायत्रं इमांमेगायत्रंहीत्यनुक्रान्तम् प्रातरनुवाकाश्वि- नशस्त्रयोर्गायत्रेछन्द्स्यस्यविनियोगः सूत्रितञ्च—इमांमेअग्नेसमिधमिमामितित्रयाणामुत्तमामुद्धरेदि- ति अपराह्णिक्यामुपसदीमांमेअग्नेसमिधमितितिस्रऋचस्त्रिरभ्यस्तानवसामिधेन्यः कृत्वाविनियोक्त- व्याः अथोपसदितिखण्डेसूत्रितं—इमांमेअग्नेसमिधमिमामितितुसामिधेन्यइति ।