श्रवणम्

2.5.4 समानपद
सा॒कं हि शुचि᳚ना॒ शुचि᳚ः प्रशा॒स्ता क्रतु॒नाज᳚नि ।
वि॒द्वा{4} अ᳚स्य व्र॒ता ध्रु॒वा व॒या इ॒वानु᳚ रोहते ॥
▶ पदपाठः (Word-by-word)
सा॒कम् । हि । शुचि᳚ना । शुचिः᳚ । प्र॒॑शा॒स्ता । क्रतु᳚ना । अज᳚नि ।
वि॒द्वान् । अ॒स्य॒ । व्र॒ता । ध्रु॒वा । व॒याः॑इ᳚व । अनु᳚ । रो॒ह॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

शुचिःस्वयंशोधकः प्रशास्तादेवानां एतन्नामकऋत्विक्प्रशासितावायज्ञविघ्नानां शुचिना क्रतुना- शोधकेनाग्निहोत्रादिकर्मणा साकंहिसहैवाजनिउत्पन्नः जातमात्रएवशुद्धः सर्वस्यप्रशास्ता चसन्नग्नि- होत्रादिनिर्वोढाभवदित्यर्थः अस्याग्नेर्ध्रुवा ध्रुवाणि फलपर्यवसायीनि व्रताव्रतानि कर्माणि विद्वान् जानन् यजमानोवयाइवविस्तृताः शाखाइवानुरोहते क्रमेणानुतिष्ठति ॥ ४ ॥