द॒ध॒न्वे वा॒ यदी॒मनु॒ वोच॒द्ब्रह्मा᳚णि॒ वेरु॒ तत् ।
परि॒ विश्वा᳚नि॒ काव्या᳚ ने॒मिश्च॒क्रमि᳚वाभवत् ॥
परि॒ विश्वा᳚नि॒ काव्या᳚ ने॒मिश्च॒क्रमि᳚वाभवत् ॥
पदपाठः (Word-by-word)
द॒ध॒न्वे । वा॒ । यत् । ई॒म् । अनु᳚ । वोच᳚त् । ब्रह्मा᳚णि । वेः । ऊं॒ इति᳚ । तत् ।
परि᳚ । विश्वा᳚नि । काव्या᳚ । ने॒मिः । च॒क्रम्॑इ᳚व । अ॒भ॒व॒त् ॥
परि᳚ । विश्वा᳚नि । काव्या᳚ । ने॒मिः । च॒क्रम्॑इ᳚व । अ॒भ॒व॒त् ॥
सायणभाष्यम् (Sayana Commentary)
पूर्वेमन्त्रेहोत्रादिवत् स्वयमपियज्ञंनिर्वहतीत्युक्तं अत्रतुसर्वंतत्तदात्मनास्थित्वास्वयमेवनिर्व- हतीत्याह—वाअथवाईमेनंयज्ञंअनुलक्षीकृत्य यद्धविरादिकंदधन्वेधारयत्यध्वर्थ्वादिरूपः यानिब्रह्मा- णिशस्त्रदीनिअनुवोचत् अनुवक्ति होत्रदिरूपः अत्रवाइत्येतद्योज्यं तत्सर्वंवेःउवेरेवकामयते जानाति- वास्वयमनुष्ठातुं अयमग्निर्विशानिसर्वाणिकाव्याकाव्यानिकवयोमेधाविनऋत्विजस्तत्संबन्धीनिकर्मा- णिपर्यभवत् परिभवतिस्वायत्तानिकरोति व्याप्नोतीत्यर्थः व्याप्तौदृष्टान्तः—नेमिः बहिर्वेष्टनबलयः चक्रमिवरथाङ्गयथा कार्त्स्न्येनव्याप्नोतितद्वत् ॥ ३ ॥