श्रवणम्

2.5.6
यदी᳚ मा॒तुरुप॒ स्वसा᳚ घृ॒तं भर॒न्त्यस्थि᳚त ।
तासा᳚मध्व॒र्युराग᳚तौ॒ यवो᳚ वृ॒ष्टीव᳚ मोदते ॥
▶ पदपाठः (Word-by-word)
यदि᳚ । मा॒तुः । उप᳚ । स्वसा᳚ । घृ॒तम् । भर᳚न्ती । अस्थि᳚त ।
तासा᳚म् । अ॒ध्व॒र्युः । आ॑ग᳚तौ । यवः᳚ । वृ॒ष्टी॑इ᳚व । मो॒द॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

य्दियदामातुः सर्वस्यनिर्मातुर्भूम्याः वेदिलक्षणायाः स्वसा स्वसृस्थानीयाजुहूर्घृतंभरन्ती सती उ- पास्थित उपतिष्ठेदग्निं एकवचनमविवक्षितं जुहूपभृद्धृवाः घृतंभरन्त्यः तिष्ठन्तीत्यर्थः तदातासां जु- ह्वादीनामागतौ यागायप्राप्तौ सत्यां अध्वर्युः एतन्नामकऋत्विग्रूपः अध्वरं कामयमानोवायमग्निः मोदते हृष्यति यवोवृष्टीव वृष्ट्यायथामोदते तद्वत् ॥ ६ ॥