श्रवणम्

2.1.3
त्वम᳚ग्न॒ इन्द्रो᳚ वृष॒भः स॒ताम᳚सि॒ त्वं विष्णु᳚रुरुगा॒यो न᳚म॒स्य᳚ः ।
त्वं ब्र॒ह्मा र᳚यि॒विद्ब्र᳚ह्मणस्पते॒ त्वं वि᳚धर्तः सचसे॒ पुरं᳚ध्या ॥
▶ पदपाठः (Word-by-word)
त्वम् । अ॒ग्ने॒ । इन्द्रः᳚ । वृ॒ष॒भः । स॒ताम् । अ॒सि॒ । त्वम् । विष्णुः᳚ । उ॒रु॒॑गा॒यः । न॒म॒स्यः᳚ ।
त्वम् । ब्र॒ह्मा । र॒यि॒॑वित् । ब्र॒ह्म॒णः॒ । प॒ते॒ । त्वम् । वि॒ध॒र्त॒रिति᳚ वि॑धर्तः । स॒च॒से॒ । पुर᳚म्॑ध्या ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने त्वंयतः सतांवृषभोवर्षितासि अतइन्द्रोसि यद्वा सतांसाधूनां इन्द्रोसि कामानांवर्षितासि त्वंविष्णुरसि यतउरुगायः बहुभिर्गीयमानः अतोनमस्यः नमस्कार्यश्चभवसि हेब्रह्मणस्पते परिवृढ- स्यकर्मणोमन्त्रस्यवापालयितः त्वं यतः रयिवित् गवादिधनस्यवेत्ता अतोब्रह्मासि हेविधर्तः विविध- कारक वैश्वानरूपाग्ने त्वंपुरन्ध्याबहुप्रकारयाबुद्भ्यासचसे सहवर्तसे सर्वदाबुद्भ्यास्तूयसइत्यर्थः ॥ ३ ॥