श्रवणम्

2.1.10
त्वम᳚ग्न ऋ॒भुरा॒के न᳚म॒स्य१॒᳚स्त्वं वाज᳚स्य क्षु॒मतो᳚ रा॒य ई᳚शिषे ।
त्वं वि भा॒स्यनु᳚ दक्षि दा॒वने॒ त्वं वि॒शिक्षु᳚रसि य॒ज्ञमा॒तनि᳚ः ॥
▶ पदपाठः (Word-by-word)
त्वम् । अ॒ग्ने॒ । ऋ॒भुः । आ॒के । न॒म॒स्यः᳚ । त्वम् । वाज᳚स्य । क्षु॒॑मतः᳚ । रा॒यः । ई॒शि॒षे॒ ।
त्वम् । वि । भा॒सि॒ । अनु᳚ । ध॒क्षि॒ । दा॒वने᳚ । त्वम् । वि॒॑शिक्षुः᳚ । अ॒सि॒ । य॒ज्ञम् । आ॒॑तनिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने त्वंऋभुः उरुभासमानोमेधावीवा त्वमाके अन्तिकेसन्निधावेव नमस्योनमस्कार्यः स्तुत्य- इत्यर्थः इतरदेवतावन्मन्त्रप्रतिपाद्याकारेणस्तुत्योनभवसि किन्तुप्रत्यक्षइत्यर्थः तथात्वंक्षुमतः शब्द- वतः सर्वत्रश्रूयमाणस्यवाजस्यान्नस्यरायोधनस्य ईशिषेस्वामीभवसि अतस्तद्देहीत्यर्थः हेअग्नेत्वंवि- भासिविशेषेणदीप्यसे तदर्थमनुअनुक्रमेणैव धक्षिदहसिकाष्ठादीन् दहेर्लटिसिपिरूपं संहितायांभष्- भावाभावश्छान्दसः किमर्थमेवं दावनेछेदनायान्धकारस्य यद्वा हविषोदानवतेयजमानाय वा किञ्च त्वंयज्ञंविशिक्षुः विशेषेणशिक्षयितासाधयितासि नलोकाव्ययेतिषष्ठ्यानिषेधः तथा आतनिः फल- स्यसर्वतोविस्तारयिता ॥ १० ॥