त्वाम᳚ग्ने॒ दम॒ आ वि॒श्पतिं॒ विश॒स्त्वां राजा᳚नं सुवि॒दत्र᳚मृञ्जते ।
त्वं विश्वा᳚नि स्वनीक पत्यसे॒ त्वं स॒हस्रा᳚णि श॒ता दश॒ प्रति᳚ ॥
त्वं विश्वा᳚नि स्वनीक पत्यसे॒ त्वं स॒हस्रा᳚णि श॒ता दश॒ प्रति᳚ ॥
पदपाठः (Word-by-word)
त्वाम् । अ॒ग्ने॒ । दमे᳚ । आ । वि॒श्पति᳚म् । विशः᳚ । त्वाम् । राजा᳚नम् । सु॒॑वि॒दत्र᳚म् । ऋ॒ञ्ज॒ते॒ ।
त्वम् । विश्वा᳚नि । सु॒॑अ॒नी॒क॒ । प॒त्य॒से॒ । त्वम् । स॒हस्रा᳚णि । श॒ता । दश᳚ । प्रति᳚ ॥
त्वम् । विश्वा᳚नि । सु॒॑अ॒नी॒क॒ । प॒त्य॒से॒ । त्वम् । स॒हस्रा᳚णि । श॒ता । दश᳚ । प्रति᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हेअग्ने विश्पतिंयजमानानांपालकं त्वां विशः यजमानादमेस्वकीयेयज्ञगृहे आ आसादयन्ति उपस- र्गवशाद्योग्यक्रियाध्याहारः तथाकृत्वाराजानंदीप्यमानं सुविदत्रंशोभनदानं अस्मदनुकूलचेतस्कंसुध- नंवात्वांऋञ्चते प्रसाधयन्ति ऋञ्चतिःप्रसाधनकर्मेतियास्कः । यतएवं ततोहेस्वनीक शोभनज्वालारू- पसेन त्वंविश्वानिसर्वाणिहवींषीतिशेषः षष्ठ्यर्थेद्वितीया विश्वेषांहविषामाज्यसोमपुरोडाशादीनां पत्यसे ईश्वरोभवसि ईश्वरनामैतत् इरज्यतिपत्यतइतितन्नामसुपाठात् यद्वा पतिभावमाचरसि त्वंतु- सहस्राणिशताशतानिदशएतत्संख्याकानिप्रतिएतत्संख्याकानामभिमतसाधनानांप्रतिनिधिरित्यर्थः प्रतिःप्रतिनिधिप्रतिदानयोरितिकर्मप्र्वचनीयत्वं तैर्यत्फलंभवति तत् त्वयालभ्यतइत्यर्थः ॥ ८ ॥