श्रवणम्

2.1.14
त्वे अ᳚ग्ने॒ विश्वे᳚ अ॒मृता᳚सो अ॒द्रुह᳚ आ॒सा दे॒वा ह॒विर᳚द॒न्त्याहु᳚तम् ।
त्वया॒ मर्ता᳚सः स्वदन्त आसु॒तिं त्वं गर्भो᳚ वी॒रुधां᳚ जज्ञिषे॒ शुचि᳚ः ॥
▶ पदपाठः (Word-by-word)
त्वे इति᳚ । अ॒ग्ने॒ । विश्वे᳚ । अ॒मृता᳚सः । अ॒द्रुहः᳚ । आ॒सा । दे॒वाः । ह॒विः । अ॒द॒न्ति॒ । आ॑हु᳚तम् ।
त्वया᳚ । मर्ता᳚सः । स्व॒द॒न्ते॒ । आ॒॑सु॒तिम् । त्वम् । गर्भः᳚ । वी॒रुधा᳚म् । ज॒ज्ञि॒षे॒ । शुचिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने त्वेत्वयि विश्वेसर्वे अमृतासः अमरणधर्माणः अद्रुहः अद्रोग्धारोदेवाआसात्वदीये नास्येना- हुतंहविरदन्ति भक्षयन्ति आस्यशब्दस्यतृतीयैकवचनेपद्दन्नोमासित्यादिनाआसन्नादेशः ऊडिदंपदादी- तिविभक्तेरुदात्तत्वं तथा मर्तासोमनुष्याःअपित्वयासाधनभूतेनासुतिंरसरूपमन्नादिकं स्वदन्ते आ- स्वादयन्ति त्वमेववीरुधांलतादीनांगर्भोगर्भस्थानीयः तेषांमध्येवस्थानात् वसुः सर्वेषांनिवासभूतः शुचिः शुद्धःसन् जज्ञिषे उत्पादयसिसस्याद्यन्नम् ॥ १४ ॥