श्रवणम्

2.1.5 समानपद
त्वम᳚ग्ने॒ त्वष्टा᳚ विध॒ते सु॒वीर्यं॒ तव॒ ग्नावो᳚ मित्रमहः सजा॒त्य᳚म् ।
त्वमा᳚शु॒हेमा᳚ ररिषे॒ स्वश्व्यं॒ त्वं न॒रां शर्धो᳚ असि पुरू॒वसु᳚ः ॥
▶ पदपाठः (Word-by-word)
त्वम् । अ॒ग्ने॒ । त्वष्टा᳚ । वि॒ध॒ते । सु॒॑वीर्य᳚म् । तव᳚ । ग्नावः᳚ । मि॒त्र॒॑म॒हः॒ । स॒॑जा॒त्य᳚म् ।
त्वम् । आ॒शु॒॑हेमा᳚ । र॒रि॒षे॒ । सु॒॑अश्व्य᳚म् । त्वम् । न॒राम् । शर्धः᳚ । अ॒सि॒ । पु॒रु॒॑वसुः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने त्वष्टाफलस्यसाधुसंपादयितात्वं विधतेपरिचरतेजनाय सुवीर्यंशोभनवीर्यंधनं तद्धेतुर्भवसि ग्नावः याः स्तुतिवाचः सन्ति तास्तव स्वभूताः हेमित्रमहः हितकारितेजः सजात्यं अस्माकंबान्धवंभ- जसइत्यर्थः हेअग्ने आशुहेमा आशुप्रेरयितात्वं स्वश्व्यंशोभनाश्वसमूहोपेतंफलं ररिषेददासि हेअग्ने पुरु- वसुः प्रभूतधनस्त्वं नरांनराणां शर्धोबलस्थानीयोसि ॥ ५ ॥