त्वम᳚ग्ने॒ अदि᳚तिर्देव दा॒शुषे॒ त्वं होत्रा॒ भार᳚ती वर्धसे गि॒रा ।
त्वमिळा᳚ श॒तहि᳚मासि॒ दक्ष᳚से॒ त्वं वृ᳚त्र॒हा व᳚सुपते॒ सर᳚स्वती ॥
त्वमिळा᳚ श॒तहि᳚मासि॒ दक्ष᳚से॒ त्वं वृ᳚त्र॒हा व᳚सुपते॒ सर᳚स्वती ॥
पदपाठः (Word-by-word)
त्वम् । अ॒ग्ने॒ । अदि᳚तिः । दे॒व॒ । दा॒शुषे᳚ । त्वम् । होत्रा᳚ । भार᳚ती । व॒र्ध॒से॒ । गि॒रा ।
त्वम् । इळा᳚ । श॒त॑हि᳚मा । अ॒सि॒ । दक्ष᳚से । त्वम् । वृ॒त्र॒॑हा । व॒सु॒॑प॒ते॒ । सर᳚स्वती ॥
त्वम् । इळा᳚ । श॒त॑हि᳚मा । अ॒सि॒ । दक्ष᳚से । त्वम् । वृ॒त्र॒॑हा । व॒सु॒॑प॒ते॒ । सर᳚स्वती ॥
सायणभाष्यम् (Sayana Commentary)
हेअग्ने देव त्वंदाशुषेहविर्दत्तवतेजमानायादितिरखण्डयिता परिपालयितासि यद्वा अदीनाभूमि- रसि किञ्च त्वंहोत्राहोमनिष्पादिकाभारतीभरतस्यादित्यस्यसंबन्धिनीरश्मिरूपासतीगिरास्तुत्याव- र्धसेप्रवृद्धोभवसि किञ्च त्वंशतहिमा हिमशब्दःकालोपलक्षकः अपरिमितकाला नित्या इळा भूमिर- सि तादृशीसतीदक्षसेदानायसमर्थाभवसि तिङउत्तरत्वादनिघातः तथाहेवसुपतेधनपालक वृत्रहापा- पादेर्हन्तात्वंसरस्वती सरणवान्वायः तत्संबन्धिनीएतन्नियामकामाध्यमिकावागसि आदित्याग्निवा- यूनांसंबन्धिन्योभारतीळासरस्वत्याख्यायास्तिस्रोदेव्यःसन्ति ताअपित्वमेवेत्यर्थः ॥ ११ ॥