त्वम᳚ग्ने॒ सुभृ᳚त उत्त॒मं वय॒स्तव᳚ स्पा॒र्हे वर्ण॒ आ सं॒दृशि॒ श्रियः᳚ ।
त्वं वाजः᳚ प्र॒तर᳚णो बृ॒हन्न᳚सि॒ त्वं र॒यिर्ब᳚हु॒लो वि॒श्वत᳚स्पृ॒थुः ॥
त्वं वाजः᳚ प्र॒तर᳚णो बृ॒हन्न᳚सि॒ त्वं र॒यिर्ब᳚हु॒लो वि॒श्वत᳚स्पृ॒थुः ॥
पदपाठः (Word-by-word)
त्वम् । अ॒ग्ने॒ । सु॑भृ᳚तः । उ॒त्॑त॒मम् । वयः᳚ । तव᳚ । स्पा॒र्हे । वर्णे᳚ । आ । स॒म्॑दृशि᳚ । श्रियः᳚ ।
त्वम् । वाजः᳚ । प्र॒॑तर᳚णः । बृ॒हन् । अ॒सि॒ । त्वम् । र॒यिः । ब॒हु॒लः । वि॒श्वतः᳚ । पृ॒थुः ॥
त्वम् । वाजः᳚ । प्र॒॑तर᳚णः । बृ॒हन् । अ॒सि॒ । त्वम् । र॒यिः । ब॒हु॒लः । वि॒श्वतः᳚ । पृ॒थुः ॥
सायणभाष्यम् (Sayana Commentary)
हेअग्ने त्वंसुभृतः सुष्ठुपोषितःसन् उत्तमंनिरतिशयंवयः अन्नमायुष्यंवात्वमसि तत्संपादकोसीत्यर्थः तथातवस्पार्हेस्पृहणीयेवर्णेलोहितशुक्लादिलक्षणेसन्दृशिसम्यग्दर्शनीयेश्रियः ऎश्वर्याणिकान्तयोवा- आश्रित्यवर्तन्ते उपसर्गश्रुतेर्योग्यक्रियाध्याहारः किञ्च त्वंवाजः अन्नंतत्साधकत्वात्ताच्छब्द्यं अन्नसाध- कइत्यर्थः प्रतरणः प्रतारयितापापात् अतएवबृहन् महानसि तथात्वंरयिर्धनरूपोसि बहुलःसर्वविष- यबाहुल्योपेतः विश्वतः सर्वतः पृथुः विस्तीर्णः प्रख्यातइत्यर्थः ॥ १२ ॥