त्वं तान्त्सं च॒ प्रति᳚ चासि म॒ज्मनाग्ने᳚ सुजात॒ प्र च᳚ देव रिच्यसे ।
पृ॒क्षो यदत्र᳚ महि॒ना वि ते॒ भुव॒दनु॒ द्यावा᳚पृथि॒वी रोद᳚सी उ॒भे ॥
पृ॒क्षो यदत्र᳚ महि॒ना वि ते॒ भुव॒दनु॒ द्यावा᳚पृथि॒वी रोद᳚सी उ॒भे ॥
पदपाठः (Word-by-word)
त्वम् । तान् । सम् । च॒ । प्रति᳚ । च॒ । अ॒सि॒ । म॒ज्मना᳚ । अग्ने᳚ । सु॒॑जा॒त॒ । प्र । च॒ । दे॒व॒ । रि॒च्य॒से॒ ।
पृ॒क्षः । यत् । अत्र᳚ । म॒हि॒ना । वि । ते॒ । भुव᳚त् । अनु᳚ । द्यावा᳚पृथि॒वी इति᳚ । रोद᳚सी॒ इति᳚ । उ॒भे इति᳚ ॥
पृ॒क्षः । यत् । अत्र᳚ । म॒हि॒ना । वि । ते॒ । भुव᳚त् । अनु᳚ । द्यावा᳚पृथि॒वी इति᳚ । रोद᳚सी॒ इति᳚ । उ॒भे इति᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हेअग्ने त्वंमज्मनाबलेनतान् प्रसिद्धान्देवान् संचासि सङ्गच्छसि तैःसहितोपिभवसि तथा साम- र्थ्येन प्रतिचासि प्रत्येकंतैर्विभिन्नःप्रतिनिधिर्वाभवसि प्रतिस्वीकारसमयेतैः सहितोभवसि वियुक्तश्च- भवसीत्यर्थः हेसुजात शोभनजनन मन्त्रसहितमथनेनोत्पन्नत्वादग्नेःसुजन्मत्वं तादृशाग्ने हेदेव प्ररि- च्यसेच तैर्बलेनचाधिकोभवसि आधिक्येकारणमाह यत् यस्मात्—अत्रास्मिन्यज्ञेपृक्षः सर्वमप्यन्नं व्यत्ययेनबहुवचनं तेतवैवविभुवत् समर्थंभवति महिनामाहात्म्येन यतोमहत्त्वमस्ति अतइत्यर्थः कुत्रेतितदुच्यते रोदसी सर्वनिरोदनस्वभावे उभेद्यावापृथिवीद्यावापृथिव्यावनुतेप्रतितयोर्मध्येव्याप्त- इत्यर्थः त्वयिहुतमन्नेत्वन्महत्त्वेनलोकत्रयेव्याप्तमित्यर्थः ॥ १५ ॥