त्वम᳚ग्ने द्रविणो॒दा अ᳚रं॒कृते॒ त्वं दे॒वः स᳚वि॒ता र᳚त्न॒धा अ᳚सि ।
त्वं भगो᳚ नृपते॒ वस्व᳚ ईशिषे॒ त्वं पा॒युर्दमे॒ यस्ते॑वि᳚धत् ॥
त्वं भगो᳚ नृपते॒ वस्व᳚ ईशिषे॒ त्वं पा॒युर्दमे॒ यस्ते॑वि᳚धत् ॥
पदपाठः (Word-by-word)
त्वम् । अ॒ग्ने॒ । द्र॒वि॒णः॒॑दाः । अ॒र॒म्॑कृते᳚ । त्वम् । दे॒वः । स॒वि॒ता । र॒त्न॒॑धाः । अ॒सि॒ ।
त्वम् । भगः᳚ । नृ॒॑प॒ते॒ । वस्वः᳚ । ई॒शि॒षे॒ । त्वम् । पा॒युः । दमे᳚ । यः । ते॒ । अवि᳚धत् ॥
त्वम् । भगः᳚ । नृ॒॑प॒ते॒ । वस्वः᳚ । ई॒शि॒षे॒ । त्वम् । पा॒युः । दमे᳚ । यः । ते॒ । अवि᳚धत् ॥
सायणभाष्यम् (Sayana Commentary)
हेअग्ने त्वं अरंकृतेत्वामलंकुर्वतेयजमानायद्रविणोदाः हिरण्य्स्यदातासि देवोद्योतमानः सविता- सर्वस्यसत्कर्मसुप्रेरकस्त्वंरत्नधारमणीयानांधनानांमणिमुक्तादीनांधारयितासि तथा हेनृपते नृणां- पालकाग्ने त्वंभगोभजनीयःसन् व्स्वोवसुनोधनस्य ईशिषे समर्थोभवसिदातुं योयजमानोदमेयज्ञगृ- हेतेत्वांअविधत् परिचरति तस्यपायुः पालकस्त्वमसि ॥ ७ ॥