त्वम᳚ग्ने॒ राजा॒ वरु᳚णो धृ॒तव्र᳚त॒स्त्वं मि॒त्रो भ᳚वसि द॒स्म ईड्य᳚ः ।
त्वम᳚र्य॒मा सत्प᳚ति॒र्यस्य᳚ स॒म्भुजं॒ त्वमंशो᳚ वि॒दथे᳚ देव भाज॒युः ॥
त्वम᳚र्य॒मा सत्प᳚ति॒र्यस्य᳚ स॒म्भुजं॒ त्वमंशो᳚ वि॒दथे᳚ देव भाज॒युः ॥
पदपाठः (Word-by-word)
त्वम् । अ॒ग्ने॒ । राजा᳚ । वरु᳚णः । धृ॒त॑व्र᳚तः । त्वम् । मि॒त्रः । भ॒व॒सि॒ । द॒स्मः । ईड्यः᳚ ।
त्वम् । अ॒र्य॒मा । सत्॑प᳚तिः । यस्य᳚ । स॒म्॑भुज᳚म् । त्वम् । अंशः᳚ । वि॒दथे᳚ । दे॒व॒ । भा॒ज॒युः ॥
त्वम् । अ॒र्य॒मा । सत्॑प᳚तिः । यस्य᳚ । स॒म्॑भुज᳚म् । त्वम् । अंशः᳚ । वि॒दथे᳚ । दे॒व॒ । भा॒ज॒युः ॥
सायणभाष्यम् (Sayana Commentary)
हेअग्ने त्वंयतोधृतव्रतः धारितकर्मासि अतोवरुणोराजासि यतोदस्मः शत्रूणामुपक्षपयिताईड्यः स्तुत्यश्च अतोत्वंमित्रः एतन्नामकोदेवोसि यतः त्वंसत्पतिः सतामभिमतप्रदानेनपालयिता अतः अय- माभवसि दातृत्वंचार्यम्णोलिङ्गं अर्यमेतितमाहुर्योददातीतियस्यार्यम्णोदानंसंभुजंसन्ततभुजंव्याप- कंभवति यद्वा यस्यधनंसंभुजं सम्यग्भोगायसाधुग्रहीतॄणां तथात्वंअंशः सूर्यमूर्त्यन्तरभूतएतन्नामको- देवोसि तादृशहेदेव विदथेस्मदीयेयज्ञे भाजयुः फलानांभाजयिताप्रापगितासि ॥ ४ ॥