त्वाम᳚ग्ने पि॒तर᳚मि॒ष्टिभि॒र्नर॒स्त्वां भ्रा॒त्राय॒ शम्या᳚ तनू॒रुच᳚म् ।
त्वं पु॒त्रो भ᳚वसि॒ यस्ते॑वि᳚ध॒त्त्वं सखा᳚ सु॒शेवः᳚ पास्या॒धृषः᳚ ॥
त्वं पु॒त्रो भ᳚वसि॒ यस्ते॑वि᳚ध॒त्त्वं सखा᳚ सु॒शेवः᳚ पास्या॒धृषः᳚ ॥
पदपाठः (Word-by-word)
त्वाम् । अ॒ग्ने॒ । पि॒तर᳚म् । इ॒ष्टि॑भिः᳚ । नरः᳚ । त्वाम् । भ्रा॒त्राय᳚ । शम्या᳚ । त॒नू॒॑रुच᳚म् ।
त्वम् । पु॒त्रः । भ॒व॒सि॒ । यः । ते॒ । अवि᳚धत् । त्वम् । सखा᳚ । सु॒॑शेवः᳚ । पा॒सि॒ । आ॒॑धृषः᳚ ॥
त्वम् । पु॒त्रः । भ॒व॒सि॒ । यः । ते॒ । अवि᳚धत् । त्वम् । सखा᳚ । सु॒॑शेवः᳚ । पा॒सि॒ । आ॒॑धृषः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हेअग्ने पितरंपालकंत्वांनरोनेतारोयजमानाः इष्टिभिरेषणसाधनैर्यागैर्यजन्तइतिशेषः पितृवत् पा- लनाययजन्तइत्यर्थः तथातनूरुचंशरीराणांदीपकंशरीरेषुदीप्यमानंवैश्वानरात्मनात्वंभ्रात्रायभ्रातृत्वा- यसौभ्रात्राय शम्या कर्मनामैतत् कर्मणायजन्तइतिशेषः यद्वोभयत्रवक्ष्यमाणेनाविधदित्यनेनसंबन्धः हेअग्ने योनरस्तेत्वांअविधत् परिचरति तस्यत्वंपुत्रोभवसि पुत्रवत्पालयिताभवसि तथात्वं सखास- मानख्यानः सखिवद्धितकारीसुशेवः शेवइतिसुखनाम सुष्ठुसुखकारीसन् आधृषः आधर्षकात्मा पासि- रक्षसि पितृत्वकामायपितृत्वेनभ्रातृत्वकामायभ्रातृत्वेनपुत्रत्वकामायपुत्रत्वकामायपुत्रस्थानीयोभव- सि त्रिप्रकारेणरक्षसीत्यर्थः ॥ ९ ॥