त्वाम᳚ग्न आदि॒त्यास᳚ आ॒स्यं१॒᳚ त्वां जि॒ह्वां शुच᳚यश्चक्रिरे कवे ।
त्वां रा᳚ति॒षाचो᳚ अध्व॒रेषु᳚ सश्चिरे॒ त्वे दे॒वा ह॒विर᳚द॒न्त्याहु᳚तम् ॥
त्वां रा᳚ति॒षाचो᳚ अध्व॒रेषु᳚ सश्चिरे॒ त्वे दे॒वा ह॒विर᳚द॒न्त्याहु᳚तम् ॥
पदपाठः (Word-by-word)
त्वाम् । अ॒ग्ने॒ । आ॒दि॒त्यासः᳚ । आ॒स्य᳚म् । त्वाम् । जि॒ह्वाम् । शुच᳚यः । च॒क्रि॒रे॒ । क॒वे॒ ।
त्वाम् । रा॒ति॒॑साचः᳚ । अ॒ध्व॒रेषु᳚ । स॒श्चि॒रे॒ । त्वे इति᳚ । दे॒वाः । ह॒विः । अ॒द॒न्ति॒ । आ॑हु᳚तम् ॥
त्वाम् । रा॒ति॒॑साचः᳚ । अ॒ध्व॒रेषु᳚ । स॒श्चि॒रे॒ । त्वे इति᳚ । दे॒वाः । ह॒विः । अ॒द॒न्ति॒ । आ॑हु᳚तम् ॥
सायणभाष्यम् (Sayana Commentary)
हेअग्ने त्वांआदित्यासः अदितेःपुत्राइन्द्रादयः आस्यंस्वकीयंमुखंभक्षणपानादिसाधनं चक्रिरइतिव- क्ष्यमाणेनसंबन्धः तथा हेकवे क्रान्तप्रज्ञ त्वामेवशुचयः शुद्धादीप्तावादेवाजिह्वांस्वकीयजिह्वास्था- नीयमास्वादनसाधनंचक्रिरे त्वन्मुखेनैवभक्षयन्ति त्वज्जिह्वयैवास्वादयन्तीत्यर्थः तथा त्वामेवराति- षाचः रातिर्दानंदत्तंहविरादिधनंवा तेनसमवेताः देवाः अध्वरेषुयज्ञेषुसश्चिरे सेवन्ते त्वामेवप्रतीक्षन्ते विनात्वयास्वेषांहविर्भक्षणायोगात् एवंकृत्वात्वेत्वयिदेवाः सर्वे आहुतंसर्वतोदत्तंहविरदन्तिभक्षयन्ति एवंसर्वदेवोपकारिणंमहानुभावं स्तौमीत्यर्थः ॥ १३ ॥