भस॒न्नु ष प्र पू॒र्व्य इषं᳚ वुरी॒ताव᳚से ॥
पदपाठः (Word-by-word)
भस᳚त् । नु । सः । प्र । पू॒र्व्यः । इष᳚म् । वु॒री॒त॒ । अव᳚से ॥
सायणभाष्यम् (Sayana Commentary)
योमर्त्योमनुष्यः अग्ना अग्नौ अग्निविषयं दुवः परिचरणं धियंकर्मच यज्ञादिलक्षणं धीतिभिः स्तुतिभिःसार्धं जुजोष सेवतेआचरति समर्त्यः पूर्व्यः पूर्वेषांमुख्यःसन् नु क्षिप्रं प्रभसत् प्रभासेत प्रकृष्टप्रकाशवान् भवेत् अवसे पुत्रादीनांरक्षणार्थं इषमन्नंच वुरीत वृणीत संभजेत शत्रुसकाशाल्लभेतेत्यर्थः ॥ १ ॥