अ॒ग्निरिद्धि प्रचे᳚ता अ॒ग्निर्वे॒धस्त᳚म॒ ऋषि᳚ः ।
अ॒ग्निं होता᳚रमीळते य॒ज्ञेषु॒ मनु᳚षो॒ विशः᳚ ॥
अ॒ग्निं होता᳚रमीळते य॒ज्ञेषु॒ मनु᳚षो॒ विशः᳚ ॥
पदपाठः (Word-by-word)
अ॒ग्निः । इत् । हि । प्र॑चे᳚ताः । अ॒ग्निः । वे॒धः॑त᳚मः । ऋषिः᳚ ।
अ॒ग्निम् । होता᳚रम् । ई॒ळ॒ते॒ । य॒ज्ञेषु᳚ । मनु᳚षः । विशः᳚ ॥
अ॒ग्निम् । होता᳚रम् । ई॒ळ॒ते॒ । य॒ज्ञेषु᳚ । मनु᳚षः । विशः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
अग्निरित् अग्निरिव प्रचेताः प्रकृष्टज्ञानवान् नान्यःकश्चित् हियस्मादेवंतस्मात् वेधस्तमोविधातृतमोतिश्येनहविर्वहनादीनांकर्मणांकर्ता ऋषिः सर्वस्यद्रष्टाभवति मनुषोमनुष्यस्य यजमानस्य विशः प्रजाऋत्विग्लक्षणाहोतारंदेवानामाह्वातारं तादृशमग्निं यज्ञेषु यागेषुईळते स्तवन्ति ॥ २ ॥