नाना॒ ह्य१॒᳚ग्ने॑व᳚से॒ स्पर्ध᳚न्ते॒ रायो᳚ अ॒र्यः ।
तूर्व᳚न्तो॒ दस्यु᳚मा॒यवो᳚ व्र॒तैः सीक्ष᳚न्तो अव्र॒तम् ॥
तूर्व᳚न्तो॒ दस्यु᳚मा॒यवो᳚ व्र॒तैः सीक्ष᳚न्तो अव्र॒तम् ॥
पदपाठः (Word-by-word)
नाना᳚ । हि । अ॒ग्ने॒ । अव᳚से । स्पर्ध᳚न्ते । रायः᳚ । अ॒र्यः ।
तूर्व᳚न्तः । दस्यु᳚म् । आ॒यवः᳚ । व्र॒तैः । सीक्ष᳚न्तः । अ॒व्र॒तम् ॥
तूर्व᳚न्तः । दस्यु᳚म् । आ॒यवः᳚ । व्र॒तैः । सीक्ष᳚न्तः । अ॒व्र॒तम् ॥
सायणभाष्यम् (Sayana Commentary)
हेअग्ने अर्यः अरेःशत्रोः रायोधनानि अवसे त्वत् स्तोतॄणांरक्षणार्थं नाना शत्रुसकाशात् पृथक् भूताः स्पर्धन्ते अहमेवपालयान्यहमेव- पालयानीतिस्पर्धांकुर्वन्ति आयवोमनुष्यास्ते चस्तोतारः दस्युमुपक्षपयितारंशत्रुं तूर्वन्तोहिंसन्तः व्रतैस्त्वद्देवत्यैर्यागैः अव्रतंव्रतविरोधिनं- चपुरुषं सीक्षन्तः सोढुमभिभवितुमिच्छन्तोभवन्ति ॥ ३ ॥