षष्ठं मण्डलम् - सूक्तम् 4

8 ऋचः

ऋषिः: भरद्वाजो बार्हस्पत्यः देवता: अग्निः छन्दः: त्रिष्टुप्

सूक्तम् 6.4 - सम्पूर्णम्

1 / 8
ऋक्: 6.4.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (8)
6.4.1
यथा᳚ होत॒र्मनु᳚षो दे॒वता᳚ता य॒ज्ञेभि᳚ः सूनो सहसो॒ यजा᳚सि ।
ए॒वा नो᳚ अ॒द्य स᳚म॒ना स᳚मा॒नानु॒शन्न᳚ग्न उश॒तो य᳚क्षि दे॒वान् ॥
▶ पदपाठः (Word-by-word)
यथा᳚ । हो॒तः॒ । मनु᳚षः । दे॒व॑ता᳚ता । य॒ज्ञेभिः᳚ । सू॒नो॒ इति᳚ । स॒ह॒सः॒ । यजा᳚सि ।
ए॒व । नः॒ । अ॒द्य । स॒म॒ना । स॒मा॒नान् । उ॒शन् । अ॒ग्ने॒ । उ॒श॒तः । य॒क्षि॒ । दे॒वान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेहोतः देवानामाह्वातः सहसःसूनो बलस्यपुत्राग्ने यथा येनप्रकारेण मनुषः मनोः प्रजापतेः यजमानस्य देवताता यज्ञनामैतत् देवता- तौ यज्ञे यज्ञेभिर्यजमानसाधनैर्हविर्भिः यजासि देवान्यजसि एव एवं हेअग्ने नोस्माकं अद्यास्मिन्यज्ञे समानान् त्वत्सदृशानिन्द्रादीनुशन्- कामयमानस्त्वं उशतः कामयमानान्यष्टव्यान्देवान् समना क्षिप्रं यक्षि यज यद्वा समानंमन्यन्तेस्मिन्देवानितिसमनोयज्ञस्तस्मिन्नितियो- ज्यम् ॥ १ ॥

6.4.2
स नो᳚ वि॒भावा᳚ च॒क्षणि॒र्न वस्तो᳚र॒ग्निर्व॒न्दारु॒ वेद्य॒श्चनो᳚ धात् ।
वि॒श्वायु॒र्यो अ॒मृतो॒ मर्त्ये᳚षूष॒र्भुद्भूदति᳚थिर्जा॒तवे᳚दाः ॥
▶ पदपाठः (Word-by-word)
सः । नः॒ । वि॒भा॑वा᳚ । च॒क्षणिः᳚ । न । वस्तोः᳚ । अ॒ग्निः । व॒न्दारु᳚ । वेद्यः᳚ । चनः᳚ । धा॒त् ।
वि॒श्व॑आ᳚युः । यः । अ॒मृतः᳚ । मर्त्ये᳚षु । उ॒षः॒॑भुत् । भूत् । अति᳚थिः । जा॒त॑वे᳚दाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

वस्तोरहनि चक्षणिर्न प्रकाशकःसूर्यइव विभावा विशेषेणदीप्यमानः वेद्यः सर्वैर्ज्ञातव्योलम्भनीयोवा सोग्निः नोस्मभ्यं वन्दारु वन्द- नीयं स्तुत्यं चनः अन्नं धात् दधातु प्रयच्छत्वित्यर्थः विश्वायुः सर्वान्नः सर्वेषांजीवनहेतुर्वा अमृतोमरणरहितः अतिथिर्हविर्वहनाय सतत- गामी जातवेदाः जातानांवेदिता जातधनोवा एवंभूतोयोग्निः मर्त्येषु मनुष्येषु यजमानेषुउषर्भुद्भूदुषःकालेअग्निहोमार्थंप्रबुद्धोभवति सइतिपूर्वत्रान्वयः ॥ २ ॥

6.4.3
द्यावो॒ न यस्य᳚ प॒नय॒न्त्यभ्वं॒ भासां᳚सि वस्ते॒ सूर्यो॒ न शु॒क्रः ।
वि य इ॒नोत्य॒जरः᳚ पाव॒को॑श्न᳚स्य चिच्छिश्नथत्पू॒र्व्याणि᳚ ॥
▶ पदपाठः (Word-by-word)
द्यावः᳚ । न । यस्य᳚ । प॒नय᳚न्ति । अभ्व᳚म् । भासां᳚सि । व॒स्ते॒ । सूर्यः᳚ । न । शु॒क्रः ।
वि । यः । इ॒नोति᳚ । अ॒जरः᳚ । पा॒व॒कः । अश्न᳚स्य । चि॒त् । शि॒श्न॒थ॒त् । पू॒र्व्याणि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

नेतिसंप्रत्यर्थे उक्तंच अस्त्युपमार्थस्यसंप्रत्यर्थेप्रयोगइति द्यावः स्तोतारः सम्प्रतीदानीं यस्याग्नेरभ्वंमहत्कर्म पनयन्ति स्तुवन्ति सोग्निः सूर्योन् सूर्यइव शुक्रः शुक्रवर्णःसन् भासांसि तेजांसि वस्ते आच्छादयति यश्चाजरोजरारहितः पावकः सर्वस्यशोधकोग्निः विइनोति भासा सर्वंव्याप्नोति सोयं अश्नस्यचित् व्यापनशीलस्यापिराक्षसादेः पूर्व्याणि चिरन्तनानि पुराणि शिश्नयत् हिनस्ति श्नथक्रथहिंसायांइतिधातः ॥ ३ ॥

6.4.4
व॒द्मा हि सू᳚नो॒ अस्य᳚द्म॒सद्वा᳚ च॒क्रे अ॒ग्निर्ज॒नुषाज्मान्न᳚म् ।
स त्वं न᳚ ऊर्जसन॒ ऊर्जं᳚ धा॒ राजे᳚व जेरवृ॒के क्षे᳚ष्य॒न्तः ॥
▶ पदपाठः (Word-by-word)
व॒द्मा । हि । सू॒नो॒ इति᳚ । असि᳚ । अ॒द्म॒॑सद्वा᳚ । च॒क्रे । अ॒ग्निः । ज॒नुषा᳚ । अज्म᳚ । अन्न᳚म् ।
सः । त्वम् । नः॒ । ऊ॒र्ज॒॑स॒ने॒ । ऊर्ज᳚म् । धाः॒ । राजा᳚॑इव । जेः॒ । अ॒वृ॒के । क्षे॒षि॒ । अ॒न्तरिति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेसूनो सहसस्पुत्र यद्वा षूप्रेरणे सर्वस्यप्रेरकाग्ने वद्मा वदनीयः स्तुत्योसिहि परःपादः परोक्षकृतः अद्म सद्वा अद्मस्वदनीयेषु हविष्षु- सीदन् हविःस्वीकरणायोपविशन्नग्निः जनुषा जन्मना स्वभावतएव अज्म गृहनामैतत् गृहमन्नंच यजमानानां चक्रे करोति हेऊर्जसने ऊर्ज- स्यान्नस्यदातरग्ने नोस्मभ्यं सतादृशस्त्वं ऊर्जमन्नं धाः धेहि तथा राजेवजेः अस्मच्छत्रून् जयएतत्सर्वार्थमवृकेराक्षसादिभिर्बाधकैर्वियक्ते- स्मदीयाग्न्यगारेन्तर्मध्ये क्षेषि निवससि ॥ ४ ॥

6.4.5
निति᳚क्ति॒ यो वा᳚र॒णमन्न॒मत्ति᳚ वा॒युर्न राष्ट्र्यत्ये᳚त्य॒क्तून् ।
तु॒र्याम॒ यस्त᳚ आ॒दिशा॒मरा᳚ती॒रत्यो॒ न ह्रुत॒ः पत᳚तः परि॒ह्रुत् ॥
▶ पदपाठः (Word-by-word)
नि॑ति᳚क्ति । यः । वा॒र॒णम् । अन्न᳚म् । अत्ति᳚ । वा॒युः । न । राष्ट्री᳚ । अति᳚ । ए॒ति॒ । अ॒क्तून् ।
तु॒र्याम᳚ । यः । ते॒ । आ॒॑दिशा᳚म् । अरा᳚तीः । अत्यः᳚ । न । ह्रुतः᳚ । पत᳚तः । प॒रि॒॑ह्रुत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

योग्निर्वारणं तमसांनिवारकं स्वकीयंतेजः नितिक्ति निश्यतितीक्ष्णीकरोति तिजनिशानेइतिधातुः यश्चान्नं यष्टृभिर्दीयमानं हविर्लक्षणमत्ति भक्षयति तथाचश्रूयते अन्नादोवाएषो न्नपतिःयदग्निरिति सोग्निः वायुर्न वायुरिवराष्ट्रीईश्वरनामैतत् राष्ट्रं राज्यं तद्वान्वा- युर्यथा स्वमाहात्म्येनसर्वमीष्टे तद्वत्सर्वस्येश्वरइत्यर्थः तादृशःसन् अक्तून्त्रात्रीः अत्येति अतिक्रामति तद्गतमन्धकारंतिरस्करोतीत्यर्थः वयं- च त्वत्प्रसादात् तुर्याम तं हिंस्याम योजनः ते तुभ्यं आदिशामादिश्यमानानां दीयमानानांहविषां अरातीः अरातिरदाता छान्दसोदीर्घः यद्वा अरातीर्धनस्यादातॄन् ते त्वांप्रति आदिशामादेष्टॄणामाचक्षाणानामस्माकं योजनोविरोधी तंहिंस्याम त्वंच अत्योन शीघ्रगामीजात्य- श्वइव ह्रुतोहिंसकान्पततःआभिमुख्येनगच्छतःशत्रून्परिह्रुत् परिगत्य हन्ताभव ह्वरयतेर्हिंसार्थस्यैतद्रूपम् ॥ ५ ॥

6.4.6 समानपद
आ सूर्यो॒ न भा᳚नु॒मद्भि᳚र॒र्कैरग्ने᳚ त॒तन्थ॒ रोद᳚सी॒ वि भा॒सा ।
चि॒त्रो न᳚य॒त्परि॒ तमां᳚स्य॒क्तः शो॒चिषा॒ पत्म᳚न्नौशि॒जो न दीय᳚न् ॥
▶ पदपाठः (Word-by-word)
आ । सूर्यः᳚ । न । भा॒नु॒मत्॑भिः᳚ । अ॒र्कैः । अग्ने᳚ । त॒तन्थ᳚ । रोद᳚सी॒ इति᳚ । वि । भा॒सा ।
चि॒त्रः । न॒य॒त् । परि᳚ । तमां᳚सि । अ॒क्तः । शो॒चिषा᳚ । पत्म᳚न् । औ॒शि॒जः । न । दीय᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने रोदसी द्यावापृथिव्यौ भासा दीप्त्या व्याततन्थ विशेषेणाच्छादयसि तत्रदृष्टान्तः भानुमद्भिः प्रभावद्भिरर्कैरर्चनीयैः किरणैः सूर्योन यथासूर्यः आतनोति तद्वत् परोर्द्धर्चः परोक्षकृतः पत्मन् पतत्यस्मिन्निति पत्ममार्गः तस्मिन्नौशिजोन उशिजस्तोतारःस्तुत्यतयात- त्संबन्धीऔशिजःसूर्यः सइव दीयन् गच्छन् शोचिषा तेजसा अक्तः संश्लिष्टःअतएव चित्रश्चायनीयोग्निः तमांसि नैशान्यन्धकाराणि परिण- यत् परिनयति परितोगमयति सर्वस्मादपिदिग्भागान्निवर्तयतीत्यर्थः ॥ ६ ॥

6.4.7 समानपद
त्वां हि म॒न्द्रत᳚ममर्कशो॒कैर्व᳚वृ॒महे॒ महि᳚ न॒ः श्रोष्य᳚ग्ने ।
इन्द्रं॒ न त्वा॒ शव᳚सा दे॒वता᳚ वा॒युं पृ᳚णन्ति॒ राध᳚सा॒ नृत᳚माः ॥
▶ पदपाठः (Word-by-word)
त्वाम् । हि । म॒न्द्र॑त᳚मम् । अ॒र्क॒॑शो॒कैः । व॒वृ॒महे᳚ । महि᳚ । नः॒ । श्रोषि᳚ । अ॒ग्ने॒ ।
इन्द्र᳚म् । न । त्वा॒ । शव᳚सा । दे॒वता᳚ । वा॒युम् । पृ॒ण॒न्ति॒ । राध᳚सा । नृ॑त᳚माः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने मन्द्रतमं स्तुत्यतमं त्वां अर्कशोकैरर्चनीयैः पूजनीयैः शोकैर्दीप्तिभिर्युक्तं हियस्माद्ववृमहे वृणीमहे सम्भजामहे यद्वार्कशोकैः अर्चनीयैः प्रशस्यैः दीप्तिकरणैः स्तोत्रैः साधनभूतैस्त्वां संभजामहे तस्मान्महिमहत् नोस्मदीयंस्तोत्रं श्रोषि श्रृणुहेअग्ने नृतमाः स्तुतीनांने- तृत माःऋत्विजः शवसा बलेन वायुं गन्तारं अथवा वायुमिव शवसाबलेनयुक्तमिन्द्रंन इन्द्रमिव देवतात्मानंत्वां राधसा हविर्लक्षणेनधने- न पृणन्ति देवताशब्दात् द्वितीयायाः सुपांसुलुगितिलुक् ॥ ७ ॥

6.4.8
नू नो᳚ अग्ने॑वृ॒केभि᳚ः स्व॒स्ति वेषि᳚ रा॒यः प॒थिभि॒ः पर्ष्यंहः᳚ ।
ता सू॒रिभ्यो᳚ गृण॒ते रा᳚सि सु॒म्नं मदे᳚म श॒तहि᳚माः सु॒वीरा᳚ः ॥
▶ पदपाठः (Word-by-word)
नु । नः॒ । अ॒ग्ने॒ । अ॒वृ॒केभिः᳚ । स्व॒स्ति । वेषि᳚ । रा॒यः । प॒थि॑भिः᳚ । पर्षि᳚ । अंहः᳚ ।
ता । सूरि॑भ्यः᳚ । गृ॒ण॒ते । रा॒सि॒ । सु॒म्नम् । मदे᳚म । श॒त॑हि᳚माः । सु॒॑वीराः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने नोस्मान् अवृकेभिः वृकास्तेनास्तद्रहितैः पथिभिर्मार्गैः रायोधनानि नु क्षिप्रं स्वस्ति क्षेमेण वेषि गमयप्रापय अंहः अंहसः पापात् पर्षि उक्तलक्षणैर्मार्गैः पारयचास्मान् यानि त्वया सूरिभ्यः स्तोतृभ्योदेयानि सुम्नानि ता तानि सुम्नं सुम्नानि सुखानि गृणते स्तुवते मह्यं रासि देहि वयंच शतहिमाः शतंहेमंतान् संवत्सरान् सुवीराः वीर्याज्जायन्तइतिवीराःपुत्रादयः शोभनपुत्रादिसहिताः सन्तोमदेम हृष्याम ॥ ८ ॥

हुवेवइतिसप्तर्चंपञ्चमंसूक्तं भरद्वाजस्यार्षं त्रैष्टुभमाग्नेयं तथाचानुक्रम्यते-हुवेवःसप्तेति प्रातरनुवाकाश्विनशस्त्रयोरुक्तोविनियोगः ।