षष्ठं मण्डलम् - सूक्तम् 33

5 ऋचः

ऋषिः: शुनहोत्रः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 6.33 - सम्पूर्णम्

1 / 5
ऋक्: 6.33.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
6.33.1
य ओजि᳚ष्ठ इन्द्र॒ तं सु नो᳚ दा॒ मदो᳚ वृषन्त्स्वभि॒ष्टिर्दास्वा᳚न् ।
सौव᳚श्व्यं॒ यो व॒नव॒त्स्वश्वो᳚ वृ॒त्रा स॒मत्सु᳚ सा॒सह᳚द॒मित्रा᳚न् ॥
▶ पदपाठः (Word-by-word)
यः । ओजि᳚ष्ठः । इ॒न्द्र॒ । तम् । सु । नः॒ । दाः॒ । मदः᳚ । वृ॒ष॒न् । सु॒॑अ॒भि॒ष्टिः । दास्वा᳚न् ।
सौव᳚श्व्यम् । यः । व॒नव᳚त् । सु॒॑अश्वः᳚ । वृ॒त्रा । स॒मत्॑सु᳚ । स॒सह᳚त् । अ॒मित्रा᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेवृषन् कामानां वर्षयितरिंद्र त्वंयःपुत्रः ओजिष्ठओजस्वितमोबलवत्तमः मदः तवमादयिता स्तुतिभिः स्तोतेत्यर्थः स्वभिष्टिः शोभना- भ्योषणः दास्वान् हविषांदानं दाः तद्वान् एवंगुणविशिष्टंतंपुत्रं नोस्मभ्यं सु सुष्ठु दाः देहि यःपुत्रः स्वश्वःसन् समत्सु संग्रामेषु सौवश्व्यं शोभनाश्वानांसमूहं वनवत् हिंस्यात् तथा वृत्रा वृत्रान् वारयितॄन् अमित्रान् शत्रूंश्च सासहत् अस्यर्थमभिभवेत् तंदाइत्यन्वयः ॥ १ ॥

6.33.2
त्वां ही॒३॒᳚न्द्राव᳚से॒ विवा᳚चो॒ हव᳚न्ते चर्ष॒णय॒ः शूर᳚सातौ ।
त्वं विप्रे᳚भि॒र्वि प॒णी{4}र᳚शाय॒स्त्वोत॒ इत्सनि᳚ता॒ वाज॒मर्वा᳚ ॥
▶ पदपाठः (Word-by-word)
त्वाम् । हि । इ॒न्द्र॒ । अव᳚से । वि॑वा᳚चः । हव᳚न्ते । च॒र्ष॒णयः᳚ । शूर᳚॑सातौ ।
त्वम् । विप्रे᳚भिः । वि । प॒णीन् । अ॒शा॒यः॒ । त्वा॑ऊ᳚तः । इत् । सनि᳚ता । वाज᳚म् । अर्वा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र त्वांहि त्वामेव विवाचः विविधाःस्तुतिरूपावाचोयेषांतादृशाश्चर्षणयोमनुष्याःशूरसातौ शूरैःसंभजनीयेसंग्रामे अवसे रक्षणा- र्थं हवन्ते आह्वयन्ति किंच त्वं विप्रेभिः विप्रैर्मेधाविभिरंगिरोभिःसार्धं पणीन् बलस्यानुचराः असुराः पणयः तान् व्यशायः विशेषेणअ- शाययः हतवानित्यर्थः अतः त्वोतइत् त्वयाऊतोरक्षिताएव सनिता संभक्ता पुरुषः वाजमन्नं अर्वा अभिगन्ता भवति ॥ २ ॥

6.33.3
त्वं ता{4} इ᳚न्द्रो॒भया{4}᳚ अ॒मित्रा॒न्दासा᳚ वृ॒त्राण्यार्या᳚ च शूर ।
वधी॒र्वने᳚व॒ सुधि᳚तेभि॒रत्कै॒रा पृ॒त्सु द᳚र्षि नृ॒णां नृ᳚तम ॥
▶ पदपाठः (Word-by-word)
त्वम् । तान् । इ॒न्द्र॒ । उ॒भया᳚न् । अ॒मित्रा᳚न् । दासा᳚ । वृ॒त्राणि᳚ । आर्या᳚ । च॒ । शू॒र॒ ।
वधीः᳚ । वना᳚॑इव । सु॑धि᳚तेभिः । अत्कैः᳚ । आ । पृ॒त्॑सु । द॒र्षि॒ । नृ॒णाम् । नृ॒॑त॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र त्वं तानुभयान् उभयविधान् अमित्रान् शत्रून् वधीः अहिंसीः केते उभयविधाः दासाउपक्षपयितॄन् कर्मविरोधिनोबलप्रभृतीन- सुरान् सुपांसुलुगितिशसआकारः आर्या आर्याणि कर्मानुष्ठातृत्वेनश्रेष्ठानि वृत्राणि आवरकाणि विश्वरूपादीनिच तानुभयविधान् हेशूर त्वं हतवानित्यर्थः नृणां नेतॄणांमध्ये नृतमः अतिशयेननेतः हेइन्द्र पृत्सु संग्रामेषु सुधितेशिः सुष्ठुनिहितैः अत्कैः आत्मीयैरायुधैः आदर्षि अन्या- नपिशत्रूनादृणासि विदारयसि तत्रदृष्टान्तः—वनेव वनानीव यथा वृक्षजातानि कुठारादिभिः छिनत्ति तद्वत् ॥ ३ ॥

6.33.4
स त्वं न᳚ इ॒न्द्राक᳚वाभिरू॒ती सखा᳚ वि॒श्वायु᳚रवि॒ता वृ॒धे भू᳚ः ।
स्व᳚र्षाता॒ यद्ध्वया᳚मसि त्वा॒ युध्य᳚न्तो ने॒मधि᳚ता पृ॒त्सु शू᳚र ॥
▶ पदपाठः (Word-by-word)
सः । त्वम् । नः॒ । इ॒न्द्र॒ । अक᳚वाभिः । ऊ॒ती । सखा᳚ । वि॒श्व॑आ᳚युः । अ॒वि॒ता । वृ॒धे । भूः॒ ।
स्वः᳚॑साता । यत् । ह्वया᳚मसि । त्वा॒ । युध्य᳚न्तः । ने॒म॑धि᳚ता । पृ॒त्॑सु । शू॒र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र सतादृशस्त्वं अकवाभिरकुत्सिताभिः ऊती ऊतिभिः रक्षाभिः नोस्माकं वृधे वर्धनाय अविता रक्षिताभूर्भव तथा विशायुः सर्व- तोगन्तात्वं अस्माकं सखाचभव नेमधिता नेमशब्दोर्धवाची उक्तंचःवोनेमइत्यर्धस्येति नेमे अर्धाः कतिपयाःपुरुषाः धीयन्तेऎष्वितिने- मधितयःसंग्रामाः तादृशेषुपृत्सुपृतनासुसंग्रामेषु युध्यन्तोयुद्धंकुर्वन्तोवयं स्वर्षाता स्वः सुष्ठु अरणीयंधनंतस्यसंभजनार्थे हेशूर त्वां यद्यदा- ह्वयामसि आह्वयामः तदानीं त्वं अवेतासखाचभवेत्यर्थः ॥ ४ ॥

6.33.5
नू॒नं न᳚ इन्द्राप॒राय᳚ च स्या॒ भवा᳚ मृळी॒क उ॒त नो᳚ अ॒भिष्टौ᳚ ।
इ॒त्था गृ॒णन्तो᳚ म॒हिन᳚स्य॒ शर्म᳚न्दि॒वि ष्या᳚म॒ पार्ये᳚ गो॒षत᳚माः ॥
▶ पदपाठः (Word-by-word)
नू॒नम् । नः॒ । इ॒न्द्र॒ । अ॒प॒राय᳚ । च॒ । स्याः॒ । भव᳚ । मृ॒ळी॒कः । उ॒त । नः॒ । अ॒भिष्टौ᳚ ।
इ॒त्था । गृ॒णन्तः᳚ । म॒हिन᳚स्य । शर्म᳚न् । दि॒वि । स्या॒म॒ । पार्ये᳚ । गो॒स॑त᳚माः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र त्वं नूनं अद्य नोस्माकं स्याः अस्मदीयोभव अपरायच अपरस्मिन्नन्यस्मिन्नपि काले अस्मदीयोभव उत अपिच त्वं नोस्माकं अभिष्टावभिगमनेसति मृळीकः सुखयिताभव इत्था इत्थमनेनप्रकारेण गृणन्तःस्तुवन्तोवयं गोषतमाः गवांसंभक्तॄतमाः सन्तः महिनस्य महतस्तवसंबन्धिनि दिवि द्योतमाने पार्येदुःखस्यपारके शर्मन् शर्मणि सुखे स्याम वर्तमानाभवेम ॥ ५ ॥

संचत्वेजग्मुरितिपंचर्चमेकादशंसूक्तं शुनहोत्रस्यार्षमैन्द्रंत्रैष्टुभं संचत्वइत्यनुक्रान्तम् । तृतीयेछान्दोमिकेहनिइदमादिकेद्वेसूक्ते सूत्रितंच— संचत्वेजग्मुरितिसूक्तेइति । महाव्रतेपिनिष्केवल्ये उक्तोविनियोगः ।