श्रवणम्

6.33.3
त्वं ता{4} इ᳚न्द्रो॒भया{4}᳚ अ॒मित्रा॒न्दासा᳚ वृ॒त्राण्यार्या᳚ च शूर ।
वधी॒र्वने᳚व॒ सुधि᳚तेभि॒रत्कै॒रा पृ॒त्सु द᳚र्षि नृ॒णां नृ᳚तम ॥
▶ पदपाठः (Word-by-word)
त्वम् । तान् । इ॒न्द्र॒ । उ॒भया᳚न् । अ॒मित्रा᳚न् । दासा᳚ । वृ॒त्राणि᳚ । आर्या᳚ । च॒ । शू॒र॒ ।
वधीः᳚ । वना᳚॑इव । सु॑धि᳚तेभिः । अत्कैः᳚ । आ । पृ॒त्॑सु । द॒र्षि॒ । नृ॒णाम् । नृ॒॑त॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र त्वं तानुभयान् उभयविधान् अमित्रान् शत्रून् वधीः अहिंसीः केते उभयविधाः दासाउपक्षपयितॄन् कर्मविरोधिनोबलप्रभृतीन- सुरान् सुपांसुलुगितिशसआकारः आर्या आर्याणि कर्मानुष्ठातृत्वेनश्रेष्ठानि वृत्राणि आवरकाणि विश्वरूपादीनिच तानुभयविधान् हेशूर त्वं हतवानित्यर्थः नृणां नेतॄणांमध्ये नृतमः अतिशयेननेतः हेइन्द्र पृत्सु संग्रामेषु सुधितेशिः सुष्ठुनिहितैः अत्कैः आत्मीयैरायुधैः आदर्षि अन्या- नपिशत्रूनादृणासि विदारयसि तत्रदृष्टान्तः—वनेव वनानीव यथा वृक्षजातानि कुठारादिभिः छिनत्ति तद्वत् ॥ ३ ॥