षष्ठं मण्डलम् - सूक्तम् 15

19 ऋचः

ऋषिः: भरद्वाजो बार्हस्पत्यो वीतहव्यो वा देवता: अग्निः छन्दः: जगती

सूक्तम् 6.15 - सम्पूर्णम्

1 / 19
ऋक्: 6.15.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (19)
6.15.1
इ॒ममू॒ षु वो॒ अति᳚थिमुष॒र्बुधं॒ विश्वा᳚सां वि॒शां पति᳚मृञ्जसे गि॒रा ।
वेतीद्दि॒वो ज॒नुषा॒ कच्चि॒दा शुचि॒र्ज्योक्चि᳚दत्ति॒ गर्भो॒ यदच्यु᳚तम् ॥
▶ पदपाठः (Word-by-word)
इ॒मम् । ऊं॒ इति᳚ । सु । वः॒ । अति᳚थिम् । उ॒षः॒॑बुध᳚म् । विश्वा᳚साम् । वि॒शाम् । पति᳚म् । ऋ॒ञ्ज॒से॒ । गि॒रा ।
वेति᳚ । इत् । दि॒वः । ज॒नुषा᳚ । कत् । चि॒त् । आ । शुचिः᳚ । ज्योक् । चि॒त् । अ॒त्ति॒ । गर्भः᳚ । यत् । अच्यु᳚तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेवीतहव्यऋषे भरद्वाजवा वः त्वं विभक्तिवचनयोर्व्यत्ययः इममु इममेवाग्निं गिरा स्तुत्या सुऋंजसे सुष्ठुप्रसाधय ऋंजतिःप्रसाधनक- र्मेतियास्कः । कीदृशमतिथिं सततंगन्तारं यद्वा अतिथिवत्पूज्यं उषर्बुधं उषसिप्रबुद्धं विश्वासां सर्वासां विशां प्रजानां पतिं पालयितारं जनुषा जन्मना स्वतएवशुचिः शुद्धोनिर्मलोवाग्निः कच्चित् कदाचित् कस्मिंश्चित् यागकाले दिवोद्युलोकात् आवेति आगच्छति तदानींप्र- साधयेत्यन्वयः एवंप्रसाधितोग्निः गर्भः अरण्योर्मध्ये गर्भवद्वर्तमानः यद्वा द्यावापृथिव्योर्गर्भभूतःसन् यद्धविः अच्युतं च्युतिरहितं नित्यं अग्निहोत्रादिसाधनभतं पयःप्रभृतिकं तत् ज्योक् चित् चिरकालं अत्ति भक्षयति ॥ १ ॥

6.15.2
मि॒त्रं न यं सुधि᳚तं॒ भृग᳚वो द॒धुर्वन॒स्पता॒वीड्य᳚मू॒र्ध्वशो᳚चिषम् ।
स त्वं सुप्री᳚तो वी॒तह᳚व्ये अद्भुत॒ प्रश᳚स्तिभिर्महयसे दि॒वेदि᳚वे ॥
▶ पदपाठः (Word-by-word)
मि॒त्रम् । न । यम् । सु॒॑धि᳚तम् । भृग᳚वः । द॒धुः । वन॒स्पतौ᳚ । ईड्य᳚म् । ऊ॒र्ध्व॑शो᳚चिषम् ।
सः । त्वम् । सु॑प्री᳚तः । वी॒त॑ह᳚व्ये । अ॒द्भु॒त॒ । प्रश᳚स्ति॑भिः । म॒ह॒य॒से॒ । दि॒वे॑दि᳚वे ॥
▶ सायणभाष्यम् (Sayana Commentary)

वनस्पतावरण्यां सुधितं सुष्ठुनिहितं ईड्यं स्तुत्यं ऊर्ध्वशोचिषं उच्छ्रिततेजस्कं यमग्निंत्वां मित्रंनमित्रमिव सखिभूतमिव भृगवोमहर्ष- यः दधुरादधुः गृहेस्थापितवन्तः हेअद्भुत महन्नग्ने सतादृशस्त्वं वीतहव्ये एतत्संज्ञेऋषौ सुप्रीतः सुष्ठुप्रीयमाणोभव यतः दिवेदिवे प्रति- दिनं प्रशस्तिभिः प्रकृष्टैःस्तोत्रैः महयसे पूज्यसे भरद्वाजऋषिश्चेत् वीतहव्येदत्तहविष्के भरद्वाजइतियोजनीयम् ॥ २ ॥

6.15.3
स त्वं दक्ष᳚स्यावृ॒को वृ॒धो भू᳚र॒र्यः पर॒स्यान्त᳚रस्य॒ तरु᳚षः ।
रा॒यः सू᳚नो सहसो॒ मर्त्ये॒ष्वा छ॒र्दिर्य᳚च्छ वी॒तह᳚व्याय स॒प्रथो᳚ भ॒रद्वा᳚जाय स॒प्रथः᳚ ॥
▶ पदपाठः (Word-by-word)
सः । त्वम् । दक्ष᳚स्य । अ॒वृ॒कः । वृ॒धः । भूः॒ । अ॒र्यः । पर᳚स्य । अन्त᳚रस्य । तरु᳚षः ।
रा॒यः । सू॒नो॒ इति᳚ । स॒ह॒सः॒ । मर्त्ये᳚षु । आ । छ॒र्दिः । य॒च्छ॒ । वी॒त॑ह᳚व्याय । स॒॑प्रथः᳚ । भ॒रत्॑वा᳚जाय । स॒॑प्रथः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने सतादृशः अवृकोबाधकरहितस्त्वं दक्षस्यानुष्ठानसमर्थस्य वृधोवर्धयिता भूः भवसि तथा परस्य विप्रकृष्टस्य अर्यः अरेः शत्रोः अन्तरस्यान्तिकतरस्यसन्निकृष्टस्यशत्रोः तरुषः तरिताभवसि अतःकारणात् हेसहसःसूनो सप्रथः सर्वतःपृथुस्त्वं मर्त्येषु मनुष्येषुमध्ये भरद्वाजायसंभृतहविर्लक्षणान्नाय वीतहव्याय वीतं गमितंहव्यंहविर्येनतादृशाय भरद्वाजायेतिवायोज्यं रायोधनानि छर्दिर्गृहमायच्छ प्रयच्छ सप्रथइतिपुनरुक्तिरादरार्था ॥ ३ ॥

6.15.4 समानपद
द्यु॒ता॒नं वो॒ अति᳚थिं॒ स्व᳚र्णरम॒ग्निं होता᳚रं॒ मनु᳚षः स्वध्व॒रम् ।
विप्रं॒ न द्यु॒क्षव᳚चसं सुवृ॒क्तिभि᳚र्हव्य॒वाह᳚मर॒तिं दे॒वमृ᳚ञ्जसे ॥
▶ पदपाठः (Word-by-word)
द्यु॒ता॒नम् । वः॒ । अति᳚थिम् । स्वः᳚॑नरम् । अ॒ग्निम् । होता᳚रम् । मनु᳚षः । सु॒॑अ॒ध्व॒रम् ।
विप्र᳚म् । न । द्यु॒क्ष॑व᳚चसम् । सु॒वृ॒क्ति॑भिः᳚ । ह॒व्य॒॑वाह᳚म् । अ॒र॒तिम् । दे॒वम् । ऋ॒ञ्ज॒से॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेवीतहव्य त्वं सुवृक्तिभिः शोभनाभिःस्तुतिभिः ह्व्यवाहं हविषांवोढारं देवमग्निं ऋंजसे प्रसाधय कीदृशं द्युतानं दीप्यमानं वोयुष्मा- कं अतिथिमतिथिवत्पूज्यं स्वर्णरं स्वर्गस्यनेतारं मनुषोमनोःप्रजापतेर्यज्ञे होतारं देवानामाह्वातारं स्वध्वरं शोभनयज्ञं विप्रंन मेधाविनं- विपश्चितमिव द्युक्षवचसं दीप्तेर्निवासभूतंद्युक्षं तादृशवाक्योपेतं अरतिमर्यंस्वामिनं ॥ ४ ॥

6.15.5
पा॒व॒कया॒ यश्चि॒तय᳚न्त्या कृ॒पा क्षाम᳚न्रुरु॒च उ॒षसो॒ न भा॒नुना᳚ ।
तूर्व॒न्न याम॒न्नेत᳚शस्य॒ नू रण॒ आ यो घृ॒णे न त᳚तृषा॒णो अ॒जरः᳚ ॥
▶ पदपाठः (Word-by-word)
पा॒व॒कया᳚ । यः । चि॒तय᳚न्त्या । कृ॒पा । क्षाम᳚न् । रु॒रु॒चे । उ॒षसः᳚ । न । भा॒नुना᳚ ।
तूर्व᳚न् । न । याम᳚न् । एत᳚शस्य । नु । रणे᳚ । आ । यः । घृ॒णे । न । त॒तृ॒षा॒णः । अ॒जरः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

योग्निः पावकया शोधयित्र्या चितयन्त्या चेतयन्त्या प्रज्ञापयन्त्या कृपा दीप्त्या क्षामन् भूम्यां रुरुचे दीप्यते उषसोनभानुना यथाउष- सः प्रकाशेनभासन्तेतद्वत् अपिच यामन् यामनि सङ्ग्रामे तुर्वन्न शत्रून् हिंसन् पुरुषइव एतशस्य एतत्संज्ञकस्यऋषेरणे सूर्येणसहसंग्रामे सहायार्थं योमिर्नुक्षिप्रंआघृणे आदीप्यते प्रैतशंसूर्येपस्पृधानमितिनिगमान्तरम् । नूनं सर्वेदेवास्तस्य साहाव्यमकार्षुः यश्च ततृषाणस्तृषितः प्रभावेनसर्वभक्षणशीलः अजरः जरारहितश्चभवति तं देवमृंजसइतिपूर्वस्यामृचिसंबन्धः ॥ ५ ॥

6.15.6
अ॒ग्निम᳚ग्निं वः स॒मिधा᳚ दुवस्यत प्रि॒यम्प्रि᳚यं वो॒ अति᳚थिं गृणी॒षणि᳚ ।
उप᳚ वो गी॒र्भिर॒मृतं᳚ विवासत दे॒वो दे॒वेषु॒ वन᳚ते॒ हि वार्यं᳚ दे॒वो दे॒वेषु॒ वन᳚ते॒ हि नो॒ दुवः᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निम्॑अ᳚ग्निम् । वः॒ । स॒म्॑इधा᳚ । दु॒व॒स्य॒त॒ । प्रि॒यम्॑प्रि᳚यम् । वः॒ । अति᳚थिम् । गृ॒णी॒षणि᳚ ।
उप᳚ । वः॒ । गीः॒॑भिः । अ॒मृत᳚म् । वि॒वा॒स॒त॒ । दे॒वः । दे॒वेषु᳚ । वन᳚ते । हि । वार्य᳚म् । दे॒वः । दे॒वेषु᳚ । वन᳚ते । हि । नः॒ । दुवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेऽस्मदीयाःस्तोतारोवोयूयं प्रियंप्रियं अत्यंतंप्रियं वोयुष्माकमतिथिं अतिथिवत्पूज्यं गृणीषणि शब्दनीयं स्तुत्यं अग्निमग्निं अग्निमेव नान्यंदेवमित्यर्थः समिधा समिन्धनेन समिद्भिर्वा दुवस्यत परिचरत यद्वा गृणीषणीतिसप्तम्यन्तं गृणीषणि स्तोत्रे विषयतयावर्तमानं अपिच वोयूयं अमृतममरणं अग्निं गीर्भिःस्तुतिभिः उपेत्य विवासत परिचरत हियस्मात् देवेषुमध्ये देवोदानादिगुणयुक्तोग्निः वार्यं वरणीयं समिदादिकं वनते संभजते हियस्माच्च देवेषुमध्ये देवोग्निः नोस्माकं दुवः परिचरणं वनते संभजते तस्माद्दवस्यतेत्यन्वयः ॥ ६ ॥ दशमेहन्याग्निमारुतेसमिद्धमितितृचोजातवेदस्यनिविद्धानार्थः सूत्रितंच—समिद्धमग्निंसमिधागिरागृणइतितृचश्चेति ।

6.15.7
समि᳚द्धम॒ग्निं स॒मिधा᳚ गि॒रा गृ᳚णे॒ शुचिं᳚ पाव॒कं पु॒रो अ᳚ध्व॒रे ध्रु॒वम् ।
विप्रं॒ होता᳚रं पुरु॒वार᳚म॒द्रुहं᳚ क॒विं सु॒म्नैरी᳚महे जा॒तवे᳚दसम् ॥
▶ पदपाठः (Word-by-word)
सम्॑इ᳚द्धम् । अ॒ग्निम् । स॒म्॑इधा᳚ । गि॒रा । गृ॒णे॒ । शुचि᳚म् । पा॒व॒कम् । पु॒रः । अ॒ध्व॒रे । ध्रु॒वम् ।
विप्र᳚म् । होता᳚रम् । पु॒रु॒॑वार᳚म् । अ॒द्रुह᳚म् । क॒विम् । सु॒म्नैः । ई॒म॒हे॒ । जा॒त॑वे᳚दसम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

समिद्धं सम्यग्दीप्तमग्निं समिधा समिंधनहेतुभूतया गिरा स्तुत्या गृणे स्तौमि यद्वा समिधा समिद्भिर्दारुभिः समिद्धं सम्यगिद्धं अपिच शुचिं स्वयंशुद्धं पावकं सर्वेषांशोधकं ध्रुवं निश्चलं तमग्निं अध्वरे यज्ञे पुरस्करोमीतिशेषः तथाविप्रं मेधाविनं होतारं देवानामाह्वातारं पुरुवारं बहुभिर्वरणीयं अद्रुहं अद्रोग्धारंसर्वेषामनुकूलं कविं क्रान्तदर्शिनं जातवेदसं जातानां वेदितारमग्निं सुम्नैः सुखकरैःस्तोत्रैः ईमहे सं- भजामहे यद्वा द्वितीयार्थेतृतीया सुम्नानि धनानि ईमहे याचामहे ॥ ७ ॥

6.15.8
त्वां दू॒तम᳚ग्ने अ॒मृतं᳚ यु॒गेयु᳚गे हव्य॒वाहं᳚ दधिरे पा॒युमीड्य᳚म् ।
दे॒वास᳚श्च॒ मर्ता᳚सश्च॒ जागृ᳚विं वि॒भुं वि॒श्पतिं॒ नम᳚सा॒ नि षे᳚दिरे ॥
▶ पदपाठः (Word-by-word)
त्वाम् । दू॒तम् । अ॒ग्ने॒ । अ॒मृत᳚म् । यु॒गे॑यु᳚गे । ह॒व्य॒॑वाह᳚म् । द॒धि॒रे॒ । पा॒युम् । ईड्य᳚म् ।
दे॒वासः᳚ । च॒ । मर्ता᳚सः । च॒ । जागृ᳚विम् । वि॒॑भुम् । वि॒श्पति᳚म् । नम᳚सा । नि । से॒दि॒रे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने त्वां देवासोदेवाश्च मर्तासोमनुष्याश्च दूतं दधिरे विदधिरेकृतवन्तः कीदृशंत्वां अमृतममरणं युगेयुगे कालेकाले तत्तद्यागानुष्ठान- समये हव्यवाहं हव्यानांहविषांवोढारं पायुं पालयितारमीड्यंस्तुत्यं अपिच ते उभयविधाः जागृविं जागरणशीलं विभुं व्याप्तं विश्पतिं विशांप्रजानांपालयितारं तमग्निं नमसानमस्कारेण हविर्लक्षणान्नेनवा निषेदिरे उपसेदिरे ॥ ८ ॥

6.15.9
वि॒भूष᳚न्नग्न उ॒भया{4}॒ अनु᳚ व्र॒ता दू॒तो दे॒वानां॒ रज᳚सी॒ समी᳚यसे ।
यत्ते᳚ धी॒तिं सु᳚म॒तिमा᳚वृणी॒महे॑ध᳚ स्मा नस्त्रि॒वरू᳚थः शि॒वो भ᳚व ॥
▶ पदपाठः (Word-by-word)
वि॒॑भूष᳚न् । अ॒ग्ने॒ । उ॒भया᳚न् । अनु᳚ । व्र॒ता । दू॒तः । दे॒वाना᳚म् । रज᳚सी॒ इति᳚ । सम् । ई॒य॒से॒ ।
यत् । ते॒ । धी॒तिम् । सु॒॑म॒तिम् । आ॒॑वृ॒णी॒महे᳚ । अध᳚ । स्म॒ । नः॒ । त्रि॒॑वरू᳚थः । शि॒वः । भ॒व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने उभयानुभयविधान् देवान् मनुष्यांश्च विभूषन् विशेषेणभूषयन् अलंकुर्वन् त्वां अनुव्रता व्रतान्यनु व्रतेषु कर्मसु यागेषु देवानां- दूतःसन् रजसी द्यावापृथिव्यौ समीयसे संचरसि देवानानेतुंद्युलोकंगच्छसि हवींषिचनेतुमिमंलोकं किंच य्द्यस्मात्तेतुभ्यं त्वदर्थं धीतिं कर्म सुमतिं शोभनांस्तुतिंच आवृणीमहे वयंसंभजामहे अध अतःकारणात् त्रिवरूथस्त्रिस्थानस्त्वं नोस्माकं शिवःसुखकरोभव स्मेत्येतत्पा- दपूरणम् ॥ ९ ॥ प्रातरनुवाकाश्विनशस्त्रयोराग्नेयेक्रतौत्रैष्टुभेछन्दसि तंसुप्रतीकमित्याद्याः षळृचः सूत्रितंच—तंसुप्रतीकमितिषळिति ।

6.15.10
तं सु॒प्रती᳚कं सु॒दृशं॒ स्वञ्च॒मवि᳚द्वांसो वि॒दुष्ट᳚रं सपेम ।
स य᳚क्ष॒द्विश्वा᳚ व॒युना᳚नि वि॒द्वान्प्र ह॒व्यम॒ग्निर॒मृते᳚षु वोचत् ॥
▶ पदपाठः (Word-by-word)
तम् । सु॒॑प्रती᳚कम् । सु॒॑दृश᳚म् । सु॒॑अञ्च᳚म् । अवि᳚द्वांसः । वि॒दुः॑त᳚रम् । स॒पे॒म॒ ।
सः । य॒क्ष॒त् । विश्वा᳚ । व॒युना᳚नि । वि॒द्वान् । प्र । ह॒व्यम् । अ॒ग्निः । अ॒मृते᳚षु । वो॒च॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अविद्वांसोवैदुष्यरहिताअल्पमतयोवयं विदुष्टरं विद्वत्तरं सर्वज्ञंतमग्निं सपेम परिचरेम कीदृशं सुप्रतीकं शोभनांगं सुदृशं शोभनद्रष्टारं स्वंचं सुष्ठुअञ्चन्तं गच्छन्तं किंच सतादृशोग्निः यक्षत् देवान् यजतु विश्वा सर्वाणि वयुनानि ज्ञाननामैतत् इहतुज्ञातव्येवर्तते ज्ञातव्यान्यर्थ- जातानि विद्वान् जानन्नग्निः अमृतेषु मरणरहितेषुदेवेषु हव्यमस्मदीयं हविः प्रवोचत् प्रब्रवीतु युष्मदर्थं हविःकल्पितं तदर्थंययमागच्छते- त्येवंक्रथयत ॥ १० ॥

6.15.11 समानपद
तम᳚ग्ने पास्यु॒त तं पि᳚पर्षि॒ यस्त॒ आन᳚ट् क॒वये᳚ शूर धी॒तिम् ।
य॒ज्ञस्य᳚ वा॒ निशि᳚तिं॒ वोदि᳚तिं वा॒ तमित्पृ᳚णक्षि॒ शव᳚सो॒त रा॒या ॥
▶ पदपाठः (Word-by-word)
तम् । अ॒ग्ने॒ । पा॒सि॒ । उ॒त । तम् । पि॒प॒र्षि॒ । यः । ते॒ । आन᳚ट् । क॒वये᳚ । शू॒र॒ । धी॒तिम् ।
य॒ज्ञस्य᳚ । वा॒ । नि॑शि᳚तिम् । वा॒ । उत्॑इ᳚तिम् । वा॒ । तम् । इत् । पृ॒ण॒क्षि॒ । शव᳚सा । उ॒त । रा॒या ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने तंपुरुषं पासि रक्षसि उतापिच तंपिपर्षि कामैःपूरयसि यःपुरुषः हेशूर शौर्यवन्नग्ने कवये क्रान्तदर्शनाय ते तुभ्यं त्वदर्थं धीतिं- कर्म स्तुतिंवा आनट् प्राप्नोति यद्वा क्रियाग्नहणंकर्तव्यमिति कर्मणःसंप्रदानत्वाच्चतुर्थी कविंत्वांधीतिंआनट् प्रापयतितंपासीत्यन्वयः अपिच यज्ञस्य यागस्य वा तत्साधनभूतस्यहविषोवा निशितिं वा निशितिःसंस्कारःतंवाउदितिं उद्गमनंवा आनट् प्रापयति तमित् तमेव शवसा बलेन पृणक्षि पूरयसि उतापिच राया धनेन पूरयसि ॥ ११ ॥

6.15.12 समानपद
त्वम᳚ग्ने वनुष्य॒तो नि पा᳚हि॒ त्वमु᳚ नः सहसावन्नव॒द्यात् ।
सं त्वा᳚ ध्वस्म॒न्वद॒भ्ये᳚तु॒ पाथ॒ः सं र॒यिः स्पृ᳚ह॒याय्य᳚ः सह॒स्री ॥
▶ पदपाठः (Word-by-word)
त्वम् । अ॒ग्ने॒ । व॒नु॒ष्य॒तः । नि । पा॒हि॒ । त्वम् । ऊं॒ इति᳚ । नः॒ । स॒ह॒सा॒॑व॒न् । अ॒व॒द्यात् ।
सम् । त्वा॒ । ध्व॒स्म॒न्॑वत् । अ॒भि । ए॒तु॒ । पाथः᳚ । सम् । र॒यिः । स्पृ॒ह॒याय्यः᳚ । स॒ह॒स्री ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने त्वं वनुष्यतोहिंसकाच्छत्रोः निपाहि नितरामस्मान्त्रक्ष हेसहसावन्बलवन्नग्ने त्वमु त्वमेव नोस्मानवद्यात् पापात् निपाहि त्वा- त्वां ध्वंसनवत् ध्वस्तदोषं पाथोहविर्लक्षणं अस्माभिर्दत्तमन्नं समभ्येतु सम्यगभिगच्छतु स्पृहयाय्यः स्पृहणीयः सहस्री सहस्रसंख्ययुक्तः रयिः त्वयादत्तंधनं सम्यगभिगच्छतु ॥ १२ ॥ व्यूह्ळेदशरात्रेपंचमेहन्याग्निमारुतेअग्निर्होतेतितृचोजातवेदसनिविद्धानीयः सूत्रितंच—अग्निर्होतागृहपतिःसराजेतितिस्रइति । पत्नि- संयाजेषुग्रहपतेराद्यानुवाक्या सूत्रितंच—अग्निर्होतागृहपतिः सराजाहव्यवाळग्निरजरःपितानइतिपत्नीसंयाजाइति । आश्विनशस्त्रस्येषैव- प्रतिपत् सूत्रितंच—अग्निर्होतागृहपतिःसराजेति । प्रतिपदेकपातिनीपच्छइति ।

6.15.13 समानपद
अ॒ग्निर्होता᳚ गृ॒हप᳚ति॒ः स राजा॒ विश्वा᳚ वेद॒ जनि᳚मा जा॒तवे᳚दाः ।
दे॒वाना᳚मु॒त यो मर्त्या᳚नां॒ यजि᳚ष्ठ॒ः स प्र य᳚जतामृ॒तावा᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निः । होता᳚ । गृ॒ह॑प᳚तिः । सः । राजा᳚ । विश्वा᳚ । वे॒द॒ । जनि᳚म । जा॒त॑वे᳚दाः ।
दे॒वाना᳚म् । उ॒त । यः । मर्त्या᳚नाम् । यजि᳚ष्ठः । सः । प्र । य॒ज॒ता॒म् । ऋ॒त॑वा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

होता देवानामाह्वाता राजा राजमानः सोग्निः गृहपतिः गृहाणांपतिरधिपतिर्भवति तथा विश्वा विश्वानिसर्वाणि जनिम जन्मानि जन्मवन्ति भूतजातानि जातवेदाः जातप्रज्ञःसन् वेद वेत्तिजानाति योग्निःदेवानामिन्द्रादीनां उतापिच मर्त्यानांमनुष्याणांचमध्ये यजिष्ठः अतिशयेनयष्टाभवति ऋतावा ऋतंसत्यंयज्ञोवातद्वान् सोग्निः प्रयजतां प्रकर्षेणदेवान्यजत् ॥ १३ ॥ अग्नेयदद्येतिदर्शपूर्णमासयोःस्विष्टकृतोयाज्या सूत्रितंच—अग्नेयदद्यविशोअध्वरस्यहोतरित्यनवानंयजतीति ।

6.15.14
अग्ने॒ यद॒द्य वि॒शो अ᳚ध्वरस्य होत॒ः पाव᳚कशोचे॒ वेष्ट्वं हि यज्वा᳚ ।
ऋ॒ता य᳚जासि महि॒ना वि यद्भूर्ह॒व्या व᳚ह यविष्ठ॒ या ते᳚ अ॒द्य ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । यत् । अ॒द्य । वि॒शः । अ॒ध्व॒र॒स्य॒ । हो॒त॒रिति᳚ । पाव᳚क॑शोचे । वेः । त्वम् । हि । यज्वा᳚ ।
ऋ॒ता । य॒जा॒सि॒ । म॒हि॒ना । वि । यत् । भूः । ह॒व्या । व॒ह॒ । य॒वि॒ष्ठ॒ । या । ते॒ । अ॒द्य ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअध्वरस्यहोतः यज्ञस्यनिष्पादक पावकशोचे शोधकदीप्ते एवंभूतहेअग्ने अद्यास्मिन्काले विशोमनुष्यस्य यजमानस्य यत् कर्तव्यं तत् वेः कामयस्व हियस्मात् त्वंयज्वा देवानांयष्ठाभवसि तस्मात् त्वंऋता ऋते यज्ञे यजासि देवान्यज अपिच महिना महिम्ना स्वमाहात्म्ये- न यद्यस्मात् विभूःविभवसि व्याप्तोभवसि अतःकारणात् हेयविष्ठ युवतमाग्ने तेतुभ्यं त्वदर्थं अद्येदानीं या यानि हव्यानि जुहुमः तानि हव्या हव्यानि हवींषि वह स्वकीयांस्विष्टकृदाख्यांतनुं प्रापय ॥ १४ ॥

6.15.15
अ॒भि प्रयां᳚सि॒ सुधि᳚तानि॒ हि ख्यो नि त्वा᳚ दधीत॒ रोद᳚सी॒ यज᳚ध्यै ।
अवा᳚ नो मघव॒न्वाज᳚साता॒वग्ने॒ विश्वा᳚नि दुरि॒ता त᳚रेम॒ ता त᳚रेम॒ तवाव᳚सा तरेम ॥
▶ पदपाठः (Word-by-word)
अ॒भि । प्रयां᳚सि । सु॑धि᳚तानि । हि । ख्यः । नि । त्वा॒ । द॒धी॒त॒ । रोद᳚सी॒ इति᳚ । यज᳚ध्यै ।
अव᳚ । नः॒ । म॒घ॒॑व॒न् । वाज᳚॑सातौ । अग्ने᳚ । विश्वा᳚नि । दुः॒॑इ॒ता । त॒रे॒म॒ । ता । त॒रे॒म॒ । तव᳚ । अव᳚सा । त॒रे॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने सुधितानि सुनिहितानि वेद्यामासादितानि प्रयांस्यन्नानि हविर्लक्षाणान्यभिख्यः अभिपश्यसि हिपूरकः तादृशंत्वां रोदसी द्यावापृथिव्यौ एतदुपलक्षितान् सर्वान् देवान् यजध्यै यष्टुंनिदधीत अयंयजमानोनिहितवान् हेमघवन्नग्ने नोस्मान्वाजसातौ संग्रामे अन्नस्यसंभजनेवा निमित्तभूते अव रक्ष वयंच विश्वानि सर्वाणि दुरिता दुरितानि दुःखानि तरेमातिक्रमेम अन्यद्गतम् ॥ १५ ॥ अग्निप्रणयनेअग्नेविश्वेभिरित्येषानुवक्तव्या सूत्रितंच—अग्नेविश्वेभिःस्वनीकदेवैरित्यर्धर्चआरमेदिति ।

6.15.16
अग्ने॒ विश्वे᳚भिः स्वनीक दे॒वैरूर्णा᳚वन्तं प्रथ॒मः सी᳚द॒ योनि᳚म् ।
कु॒ला॒यिनं᳚ घृ॒तव᳚न्तं सवि॒त्रे य॒ज्ञं न᳚य॒ यज᳚मानाय सा॒धु ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । विश्वे᳚भिः । सु॒॑अ॒नी॒क॒ । दे॒वैः । ऊर्णा᳚॑वन्तम् । प्र॒थ॒मः । सी॒द॒ । योनि᳚म् ।
कु॒ला॒यिन᳚म् । घृ॒त॑व᳚न्तम् । स॒वि॒त्रे । य॒ज्ञम् । न॒य॒ । यज᳚मानाय । सा॒धु ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेस्वनीक सुज्वालाग्ने विश्वेभिः विश्वैः सर्वैर्देवैःसह ऊर्णावन्तं ऊर्णास्तुकावन्तं योनिं उत्तरवेदिलक्षणंस्थानं प्रथमः सर्वेषुदेवेषुमुख्यस्त्वं सीद उपविश कीदृशंयोनिं कुलायिनं कुलायोनीडं तत्सदृशं गुग्गुल्वादिसंभरणोपतं तथाचश्रूयते—कुलायमिवह्येतद्यज्ञेक्रियतेयत्पैतुदार- वाः परिधयोगुग्गुलूर्णास्तुकाःसुगन्धितेजनानीति । घृतवन्तं व्याघारणाज्ययुक्तं एवमुत्तरवेद्यांनिषण्णस्त्वं सवित्रे हविषांप्रेरयित्रेयजमा- नाय षष्ठ्यर्थेचतुर्थ्येषा ईदृशस्ययजमानस्य यज्ञं साधु आर्जवेननय देवान् प्रापय ॥ १६ ॥

6.15.17
इ॒ममु॒ त्यम᳚थर्व॒वद॒ग्निं म᳚न्थन्ति वे॒धसः᳚ ।
यम᳚ङ्कू॒यन्त॒मान᳚य॒न्नमू᳚रं श्या॒व्या᳚भ्यः ॥
▶ पदपाठः (Word-by-word)
इ॒मम् । ऊं॒ इति᳚ । त्यम् । अ॒थ॒र्व॒॑वत् । अ॒ग्निम् । म॒न्थ॒न्ति॒ । वे॒धसः᳚ ।
यम् । अ॒ङ्कु॒॑यन्त᳚म् । आ । अन᳚यन् । अमू᳚रम् । श्या॒व्या᳚भ्यः ॥
▶ सायणभाष्यम् (Sayana Commentary)

वेधसःकर्मणांविधातारऋत्विजः इमंदृश्यमानं त्यं तंपूर्वोक्तगुणमग्निं अथर्ववत् यथाअथर्वाख्यऋषिःपुराअमश्रात् तथामन्थन्ति मश्नन्ति अरण्योःसकाशात्जनयन्ति अंकूयन्तं कुत्सितमंचनंगमनंअंकु तदात्मनइच्छन्तं देवेभ्योनिर्गत्य इतस्ततः पलायमानं अमूरं अमूढं यमग्निं श्याव्याभ्यः श्यावीतिरात्रिनाम तत्रभवास्तमसःसंहतयःश्याव्याः ताभ्यः सकाशादानयन् आगमयन् तंमंथन्तीत्यन्वयः ॥ १७ ॥

6.15.18
जनि᳚ष्वा दे॒ववी᳚तये स॒र्वता᳚ता स्व॒स्तये᳚ ।
आ दे॒वान्व᳚क्ष्य॒मृता{4}᳚ ऋता॒वृधो᳚ य॒ज्ञं दे॒वेषु᳚ पिस्पृशः ॥
▶ पदपाठः (Word-by-word)
जनि᳚ष्व । दे॒व॑वी᳚तये । स॒र्व॑ता᳚ता । स्व॒स्तये᳚ ।
आ । दे॒वान् । व॒क्षि॒ । अ॒मृता᳚न् । ऋ॒त॒॑वृधः᳚ । य॒ज्ञम् । दे॒वेषु᳚ । पि॒स्पृ॒शः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने सर्वताता सर्वैस्तायमानेयज्ञे मथ्यमानस्त्वं जनिष्व प्रादुर्भव किमर्थं देववीतये देवकामाययजमानाय षष्ठ्यर्थेचतुर्थ्येषा ईदृशस्य- यजमानस्य स्वस्तये अविनाशार्थं जनित्वा च अमृतान् मरणरहितान् ऋतावृधोयज्ञस्यवर्धयितॄन् देवानावक्षि आवह तदनन्तरं तेषुदेवेषु अस्मदीयंयज्ञंपिस्पृशः स्पर्शय प्रापयेत्यर्थः ॥ १८ ॥

6.15.19 समानपद
व॒यमु᳚ त्वा गृहपते जनाना॒मग्ने॒ अक᳚र्म स॒मिधा᳚ बृ॒हन्त᳚म् ।
अ॒स्थू॒रि नो॒ गार्ह᳚पत्यानि सन्तु ति॒ग्मेन᳚ न॒स्तेज᳚सा॒ सं शि᳚शाधि ॥
▶ पदपाठः (Word-by-word)
व॒यम् । ऊं॒ इति᳚ । त्वा॒ । गृ॒ह॒॑प॒ते॒ । ज॒ना॒ना॒म् । अग्ने᳚ । अक᳚र्म । स॒म्॑इधा᳚ । बृ॒हन्त᳚म् ।
अ॒स्थू॒रि । नः॒ । गार्ह᳚॑पत्यानि । स॒न्तु॒ । ति॒ग्मेन᳚ । नः॒ । तेज᳚सा । सम् । सि॒शा॒धि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेगृहपते यज्ञानांपालकाग्ने जनानां प्राणिनांमध्ये वयमु वयमेव त्वा त्वांसमिधा समिन्धनेन बृहन्तं महान्तं अकर्म कृतवन्तःस्मः अतः कारणात् नोस्माकं गार्हपत्यानिगृहपतित्वानि अस्थूरि अस्थूरिणि एकाश्वयुक्तःशकटःस्थूरिरित्युच्यते तद्विपरीतोबहुभिरश्वैरुपेतःशक- टोऽस्थूरिः तेनचसंपूर्णतालक्ष्यते अस्थूरिणि पुत्रपशुधनादिभिः संपूर्णानिभवन्तु अपिच नोस्मान् तिग्मेन तीक्ष्णेनतेजसा संशिशाधि सम्यङ्गिश्य सम्यक् तीक्ष्णीकुरु संयोजयेत्यर्थः ॥ १९ ॥

द्वितीयेनुवाके अष्टसूक्तानि तत्रत्वमग्नेयज्ञानामितिअष्टाचत्वारिंशदृचंप्रथमंसूक्तं भरद्वाद्जस्यार्षमाग्नेयं आद्याषष्ठीचवर्धमानागायत्री- षट्कसप्तकाष्टकाःसावर्धमानेत्युक्तलक्षणोपेतत्वात् सप्तविंशयनुष्टुप् आतेअग्नेअग्निंदेवासइत्येतेऋचावनुष्टुभौ तयोःपूर्वावीतीयोदेवमिति- त्रिष्टुप् शिष्टाद्वाचत्वारिंशदृचोगायत्र्यः तथाचानुक्रम्यते—त्वमग्नेष्टाचत्वारिंशद्गायत्रं वर्धमानाद्याषष्ठीचसप्तविंश्यनुष्टुप् त्रिष्टुपपूर्वेचांत्येइ- ति प्रातरनुवाकाश्विनशस्त्रयोराग्नेयेक्रतौगायत्रेछन्दसीदंसूक्तमुच्यते तत्रान्त्यास्तिस्रऋचउद्धर्तव्याः सूत्र्यतेहि—त्वमग्नेयज्ञानामितितिस्र- उत्तमामुद्धरेदिति । विश्वजितिआग्निमारुते बृहत्सामयद्यग्निष्टोमसामस्यात् तदानीं आद्याःषळृचःस्तोत्रियानुरूपार्थाः सूत्रितंहि—त्वमग्ने- यज्ञानामितिस्तोत्रियनुरूपाविति ।