अपा᳚ न॒स्तस्य᳚ सच॒नस्य᳚ दे॒वेषो᳚ युवस्व गृण॒ते गोअ᳚ग्राः ॥
पदपाठः (Word-by-word)
अपाः᳚ । नः॒ । तस्य᳚ । स॒च॒नस्य᳚ । दे॒व॒ । इषः᳚ । यु॒व॒स्व॒ । गृ॒ण॒ते । गो॑अ᳚ग्राः ॥
सायणभाष्यम् (Sayana Commentary)
मन्द्रस्य मोदनस्य मदकरस्यवा कवेः विक्रान्तस्य दिव्यस्य दिविभवस्य वह्नेर्वोढुः विप्रमन्मनः विप्रामेधाविनोमन्मः स्तोतारोयस्य- सःतथोक्तःतस्य वचनस्य वचनीयस्य स्तुत्यस्य तस्यसर्वत्रप्रसिद्धस्य सचनस्य सेव्यस्य एवंभूतस्य मध्वोमधुनः सोमस्य क्रियाग्रहणंकर्त- व्यमितिकर्मणःसंप्रदानत्वाच्चतुर्थ्यर्थेषष्ठी एवंभूतं नोस्मदीयंसोमं हेइन्द्र त्वं अपाःपिब अपिच हेदेव द्योतमानेन्द्र गृणते स्तुवते तृतीयार्थे- चतुर्थी स्तुवतमयागोअग्राः गावः अग्रेप्रमुखेयासांतादृशाइषोन्नानि युवस्व संयोजय ॥ १ ॥