श्रवणम्

6.39.3
अ॒यं द्यो᳚तयद॒द्युतो॒ व्य१॒᳚क्तून्दो॒षा वस्तो᳚ः श॒रद॒ इन्दु᳚रिन्द्र ।
इ॒मं के॒तुम᳚दधु॒र्नू चि॒दह्नां॒ शुचि᳚जन्मन उ॒षस᳚श्चकार ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । द्यो॒त॒य॒त् । अ॒द्युतः᳚ । वि । अ॒क्तून् । दो॒षा । वस्तोः᳚ । श॒रदः᳚ । इन्दुः᳚ । इ॒न्द्र॒ ।
इ॒मम् । के॒तुम् । अ॒द॒धुः॒ । नु । चि॒त् । अह्ना᳚म् । शुचि᳚॑जन्मनः । उ॒षसः᳚ । च॒का॒र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र त्वयानियम्यमानः पीयमानोवा अयमिन्दुः सोमः अद्युतः अद्योतमानान् अक्तून् अक्तुरितिरात्रिनाम अत्रचतत्संबन्धात् पक्षमा- सादीन् तथादोषारात्रिं वस्तोः दिवसंशरदः संवत्सरांश्च विद्योतयत् व्यदीपयत् कुतइत्यतआह नूचित् पुरादेवा इमंसोमं चन्द्रात्मना नभ- सिवर्तमानं अह्नां दिवसानां केतुं प्रज्ञापकं यस्माददधुर्व्यदधुः अकुर्वन् तस्मादनेन पक्षमासादयः सर्वेप्रकाश्यन्ते चन्द्रगत्यधीनत्वात् ति- थिविभागानां अपिचायंसोमः उषसः उषःकालान् शुचिजन्मनः आत्मीयेनतेजसा शुद्धोदयान् चकार करोति ॥ ३ ॥