अ॒यं रो᳚चयद॒रुचो᳚ रुचा॒नो॒३॒᳚॑यं वा᳚सय॒द्व्यृ१॒᳚तेन᳚ पू॒र्वीः ।
अ॒यमी᳚यत ऋत॒युग्भि॒रश्वै᳚ः स्व॒र्विदा॒ नाभि᳚ना चर्षणि॒प्राः ॥
अ॒यमी᳚यत ऋत॒युग्भि॒रश्वै᳚ः स्व॒र्विदा॒ नाभि᳚ना चर्षणि॒प्राः ॥
पदपाठः (Word-by-word)
अ॒यम् । रो॒च॒य॒त् । अ॒रुचः᳚ । रु॒चा॒नः । अ॒यम् । वा॒स॒य॒त् । वि । ऋ॒तेन᳚ । पू॒र्वीः ।
अ॒यम् । ई॒य॒ते॒ । ऋ॒त॒युक्॑भिः᳚ । अश्वैः᳚ । स्वः॒॑विदा᳚ । नाभि᳚ना । च॒र्ष॒णि॒॑प्राः ॥
अ॒यम् । ई॒य॒ते॒ । ऋ॒त॒युक्॑भिः᳚ । अश्वैः᳚ । स्वः॒॑विदा᳚ । नाभि᳚ना । च॒र्ष॒णि॒॑प्राः ॥
सायणभाष्यम् (Sayana Commentary)
अयमिन्द्रः रुचानोरोचमानः सूर्यात्मनादीप्यमानः अरुचः प्रकाशरहितान् तमसामलीमसान्सर्वान्लोकान् रोचयत् प्रकाशयति तथा पूर्वीर्बह्वीरुषसश्च अयमिन्द्रः ऋतेन सत्यभूतेन सर्वत्रगमनशीलेनवा तेजसा विवासयत् व्यापयति तत्रत्यानितमांसिनिवर्तयतीत्यर्थः त- था ऋतयुग्मिः ऋतेनस्तोत्रेणयुज्यमानैरश्वैः नाभिना संनद्धेन स्वर्विदासुष्ठु अरणीयस्य धनस्य लंभकेनरथेन चर्षणिप्राः चर्षणीनांमनुष्या- णांकामैः पूरयितासन् अयमेवेन्द्रः ईयते गच्छति ॥ ४ ॥