षष्ठं मण्डलम् - सूक्तम् 49

15 ऋचः

ऋषिः: ऋजिश्वा देवता: विश्वेदेवाः छन्दः: त्रिष्टुप्

सूक्तम् 6.49 - सम्पूर्णम्

1 / 15
ऋक्: 6.49.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (15)
6.49.1
स्तु॒षे जनं᳚ सुव्र॒तं नव्य᳚सीभिर्गी॒र्भिर्मि॒त्रावरु᳚णा सुम्न॒यन्ता᳚ ।
त आ ग᳚मन्तु॒ त इ॒ह श्रु᳚वन्तु सुक्ष॒त्रासो॒ वरु᳚णो मि॒त्रो अ॒ग्निः ॥
▶ पदपाठः (Word-by-word)
स्तु॒षे । जन᳚म् । सु॒॑व्र॒तम् । नव्य᳚सीभिः । गीः॒॑भिः । मि॒त्रावरु᳚णा । सु॒म्न॒॑यन्ता᳚ ।
ते । आ । ग॒म॒न्तु॒ । ते । इ॒ह । श्रु॒व॒न्तु॒ । सु॒॑क्ष॒त्रासः᳚ । वरु᳚णः । मि॒त्रः । अ॒ग्निः ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुव्रतं सुकर्माणंजनंदैव्यजनंदेवसंघंनव्यसीभिः नवतराभिर्गीर्भिःस्तुतिभिः स्तुषे अहंस्तुवे तथा मित्रावरुणामित्रः प्रमीयतेस्त्रायकः वरुणः पापानांनिवारयिता एतावपिदेवौस्तौमि कीदृशौ सुम्नयन्तासुम्नंसुखंस्तोतॄणामिच्छन्तौ सुक्षत्रासः शोभनबलास्तेवरुणादयः सर्वे- देवाः इहास्मिन्यज्ञेआगमन्तु आगच्छन्तु तेतादृशाःश्रुवन्तु अस्मदीयाःस्तुतीःश्रृण्वन्तुच अत्रमित्रादीनांपरिगणनमुपलक्षणं सूक्तस्यसर्वस्य- देवताप्रतिपादकत्वात् अतएवपूर्वंजनमितिसामान्यनिर्देशः ॥ १ ॥

6.49.2
वि॒शोवि᳚श॒ ईड्य᳚मध्व॒रेष्वदृ᳚प्तक्रतुमर॒तिं यु᳚व॒त्योः ।
दि॒वः शिशुं॒ सह᳚सः सू॒नुम॒ग्निं य॒ज्ञस्य᳚ के॒तुम᳚रु॒षं यज᳚ध्यै ॥
▶ पदपाठः (Word-by-word)
वि॒शः॑वि᳚शः । ईड्य᳚म् । अ॒ध्व॒रेषु᳚ । अदृ᳚प्त॑क्रतुम् । अ॒र॒तिम् । यु॒व॒त्योः ।
दि॒वः । शिशु᳚म् । सह᳚सः । सू॒नुम् । अ॒ग्निम् । य॒ज्ञस्य᳚ । के॒तुम् । अ॒रु॒षम् । यज᳚ध्यै ॥
▶ सायणभाष्यम् (Sayana Commentary)

विशोविशः सर्वस्याः प्रजायाः अध्वरेषुयज्ञेषुईड्यं ऋत्विग्भ्यःस्तुत्यं अदृप्तक्रतुंदर्परहितकर्माणंअमूढप्रज्ञंवा युवत्योर्द्यावापृथिव्योर- रतिमभिगन्तारंअर्यंस्वामिनंदिवोद्युलोकस्यशिशुंपुत्रं दिवस्परिप्रथमंजज्ञेअग्निरितिनिगमः । अथवादिवःस्तोतुःपुत्रभूतं तथापिनिगमोभ- वति त्वंपुत्रोभवसियस्तेविधदिति सहसोबलस्यसूनुंपुत्रंयज्ञस्ययागस्यकेतुंप्रज्ञापकं अरुषमारोचमानं एवंगुणकमग्निंयजध्यैयष्टुंस्तुषइत्य- नुषज्यते स्तुषेस्तुवे ॥ २ ॥

6.49.3
अ॒रु॒षस्य᳚ दुहि॒तरा॒ विरू᳚पे॒ स्तृभि᳚र॒न्या पि᳚पि॒शे सूरो᳚ अ॒न्या ।
मि॒थ॒स्तुरा᳚ वि॒चर᳚न्ती पाव॒के मन्म᳚ श्रु॒तं न᳚क्षत ऋ॒च्यमा᳚ने ॥
▶ पदपाठः (Word-by-word)
अ॒रु॒षस्य᳚ । दु॒हि॒तरा᳚ । विरू᳚पे॒ इति॒ वि॑रू᳚पे । स्तृ॑भिः᳚ । अ॒न्या । पि॒पि॒शे । सूरः᳚ । अ॒न्या ।
मि॒थः॒॑तुरा᳚ । वि॒चर᳚न्ती॒ इति᳚ वि॒॑चर᳚न्ती । पा॒व॒के इति᳚ । मन्म᳚ । श्रु॒तम् । न॒क्ष॒तः॒ । ऋ॒च्यमा᳚ने॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इयमहोरात्रयोःस्तुतिः अरुशस्यरोचमानस्यसूर्यस्यदुहितरौ सूर्येणहिअहोरात्रयोर्विभागःक्रियते अतस्तधीनात्मलाभत्वात् तस्यदुहित- रावित्युच्यते विरूपेशुक्लकृष्णतयानानारूपेतयोरन्याएकारात्रिःस्तृभिर्नक्षत्रैः पिपिशेपिश्यते संश्लिष्यते पिशअवयवइतिधातुः अन्याअह- रात्मिकादुहिता सूरःसूर्येणपिपिशेसंश्लिष्यते तेचनक्षत्रैः सूर्येणचालंकृतेभवतइत्यर्थः मिथस्तुरापरस्परंबाधयंत्यौअह्नारात्रिर्निवर्त्यते रा- त्र्याचाहरितिपरस्परंबाधः अतएवविचरन्तीविविधंपृथक् चरंत्यौपावकेस्र्वस्यशोधयित्र्यौ एवंभूतेअहश्चरात्रिश्चऋच्यमाने अस्माभिःस्तू- यमानेसत्यौ श्रुतं श्रोतव्यंमन्ममननीयं स्तोत्रमस्मत्कृतंनक्षतःव्याप्नुतां ॥ ३ ॥

6.49.4
प्र वा॒युमच्छा᳚ बृह॒ती म᳚नी॒षा बृ॒हद्र᳚यिं वि॒श्ववा᳚रं रथ॒प्राम् ।
द्यु॒तद्या᳚मा नि॒युत॒ः पत्य᳚मानः क॒विः क॒विमि᳚यक्षसि प्रयज्यो ॥
▶ पदपाठः (Word-by-word)
प्र । वा॒युम् । अच्छ᳚ । बृ॒ह॒ती । म॒नी॒षा । बृ॒हत्॑र᳚यिम् । वि॒श्व॑वा᳚रम् । र॒थ॒॑प्राम् ।
द्यु॒तत्॑या᳚मा । नि॒॑युतः᳚ । पत्य᳚मानः । क॒विः । क॒विम् । इ॒य॒क्ष॒सि॒ । प्र॒य॒ज्यो॒ इति᳚ प्र॑यज्यो ॥
▶ सायणभाष्यम् (Sayana Commentary)

बृहतीमहतीमनीषास्मदीयास्तुतिः वायुमच्छाभिमुख्येनप्रगच्छतु उपसर्गश्रुतेर्योग्यक्रियाध्याहारः कीदृशंवायुं बृहद्रयिंमहाधनं विश्व- वारं विश्वैर्वरणीयं संभजनीयंरथप्रां रथस्यात्मीयस्यप्रातारंपूरयितारं यद्वा स्तोतॄणांरथंधनैः पूरयितारं अथप्रत्यक्षस्तुतिः हेप्रयज्यो प्रक- र्षेणयष्टव्य वायो द्युतद्यामा प्रदीप्तयानः नियुतः आत्मीयरथयोज्याःवडवाःताःपत्यमानः अभिपतन् अभि गच्छान् यद्वा पत्यविरैश्वर्यकर्मा तासांवडवानामीश्वरः कविः क्रान्तदर्शी एवंभूतस्तंकविंमेधाविनं स्तोतारंहयक्षसि धनेनपृजय ॥ ४ ॥

6.49.5
स मे॒ वपु᳚श्छदयद॒श्विनो॒र्यो रथो᳚ वि॒रुक्मा॒न्मन᳚सा युजा॒नः ।
येन᳚ नरा नासत्येष॒यध्यै᳚ व॒र्तिर्या॒थस्तन᳚याय॒ त्मने᳚ च ॥
▶ पदपाठः (Word-by-word)
सः । मे॒ । वपुः᳚ । छ॒द॒य॒त् । अ॒श्विनोः᳚ । यः । रथः᳚ । वि॒रुक्मा᳚न् । मन᳚सा । यु॒जा॒नः ।
येन᳚ । न॒रा॒ । ना॒स॒त्या॒ । इ॒ष॒यध्यै᳚ । व॒र्तिः । या॒थः । तन᳚याय । त्मने᳚ । च॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अश्विनोः स्वभूतः सरथः मेमदीयंवपुः शरीरंछदयत् छादयतु तेजसाआछादयतु योरथोविरुक्मान् विरोचनवान् विशेषेणदीप्यमानः मनसामनोव्यापारमात्रेणयुजानःअश्वैः संयुज्यमानोभवति हेनरानेतारौ हेनासत्यासत्यस्वभावौ सत्यनेतारौ नासिकाप्रभवौवा अश्विनौ येनरथेन वर्तिः स्तोतृगृहं तनयायपुत्रायत्मनेआत्मनेतत्पित्रेस्तोत्रेचइपयध्यै कामान् प्रापयितुंयाथः गच्छथः सरथइतिपूर्वत्रान्वयः ॥ ५ ॥

6.49.6
पर्ज᳚न्यवाता वृषभा पृथि॒व्याः पुरी᳚षाणि जिन्वत॒मप्या᳚नि ।
सत्य᳚श्रुतः कवयो॒ यस्य᳚ गी॒र्भिर्जग᳚तः स्थात॒र्जग॒दा कृ᳚णुध्वम् ॥
▶ पदपाठः (Word-by-word)
पर्ज᳚न्यवाता । वृ॒ष॒भा॒ । पृ॒थि॒व्याः । पुरी᳚षाणि । जि॒न्व॒त॒म् । अप्या᳚नि ।
सत्य᳚॑श्रुतः । क॒व॒यः॒ । यस्य᳚ । गीः॒॑भिः । जग᳚तः । स्था॒तः॒ । जग᳚त् । आ । कृ॒णु॒ध्व॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेपर्जन्यवाता पर्जन्यवायू वृषभाबृष्टेः कर्तारौपृथिव्याः अन्तरिक्षनामैतत् अन्तरिक्षात् आप्यनि आप्तव्यानिपुरीषाणिपूरकाण्युदकानि जिन्वतंप्रेरयतं उत्तरोर्धर्चोमारुतः हेसत्यश्रुतः सत्यस्यस्तोत्रस्यश्रोतारः कवयोमेधाविनोमरुतः यस्यास्तोतुःगीर्भिःस्तुतिभिःयूयंस्तुताभव- थ तस्य्स्तोतुःजगत्स्थावरजंगमात्मकंसर्वंप्राणिजातंआकृणुध्वं आभिमुख्येनकुरुत हेजगतः स्थातः गणाभिप्रायमेकवचनं स्थावरजंगमात्म- कस्यजगतोवस्थापकहेमरुद्गणेतियोज्यं ॥ ६ ॥ अन्वारंभणीयायांसारस्वतस्यहविषोयाज्यापावीरवीत्येषा सूत्रितंच—पावीरवीकन्याचित्रायुःपीपिवांसंसरस्वतइति । एकादशिने- सारस्वतेपशौएषैवपुरोडाशस्ययाज्या सूत्रितंच—पावीरवीक्याचित्रायुर्यस्तेस्तनः शशयोमयोभूरिति । आग्निमारुतेशस्त्रेप्येषा सूत्रितंच- राकामहमितिद्वेपावीरवीकन्याचित्रायुरिति ।

6.49.7
पावी᳚रवी क॒न्या᳚ चि॒त्रायु॒ः सर᳚स्वती वी॒रप᳚त्नी॒ धियं᳚ धात् ।
ग्नाभि॒रच्छि᳚द्रं शर॒णं स॒जोषा᳚ दुरा॒धर्षं᳚ गृण॒ते शर्म᳚ यंसत् ॥
▶ पदपाठः (Word-by-word)
पावी᳚रवी । क॒न्या᳚ । चि॒त्र॑आ᳚युः । सर᳚स्वती । वी॒र॑प᳚त्नी । धिय᳚म् । धा॒त् ।
ग्नाभिः᳚ । अच्छि᳚द्रम् । श॒र॒णम् । स॒॑जोषाः᳚ । दुः॒॑आ॒धर्ष᳚म् । गृ॒ण॒ते । शर्म᳚ । यं॒स॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

पावीरवीशोधयित्री कन्याकमनीया चित्रायुश्चित्रगमनाचित्रान्नावा वीरपत्नीवीरः प्रजापतिः पतिर्यस्यास्तादृशी यद्वा वीराणांपाल- यित्री एवंभूतासरस्वतीधियं अस्मदीयंकर्मयज्ञाख्यं धात् दधातु धारयतु ददातु वाशब्देनप्रतिपादितोह्यर्थोनुष्ठीयते अपिचग्नाभिर्देवपत्नी- भिः सजोषाः सहप्रीयमाणाः यद्वाग्नाः गायत्र्यादीनिच्छंदांसि छन्दांसिवैग्नाइतिश्रुतेः । तैः सहप्रीयमाणाः गृणते स्तुवते मह्यंअच्छिद्रंछि- द्ररहितंदुराधर्षं शत्रुभिः शीतवातादिभिश्चधर्षितुमशक्यं शरणंगृहं शर्मसुखंचयंसत् प्रयच्छतु ॥ ७ ॥ एकादशिनेपौष्णेपशौपथस्प्थइतिहविषोयाज्या सूत्रितंच—पथस्पथःपरिपतिंवचस्याबृहस्पतेयापरमापरावादतिद्वेइति ।

6.49.8
प॒थस्प᳚थ॒ः परि᳚पतिं वच॒स्या कामे᳚न कृ॒तो अ॒भ्या᳚नळ॒र्कम् ।
स नो᳚ रासच्छु॒रुध᳚श्च॒न्द्राग्रा॒ धियं᳚धियं सीषधाति॒ प्र पू॒षा ॥
▶ पदपाठः (Word-by-word)
प॒थः॑प᳚थः । परि᳚॑पतिम् । व॒च॒स्या । कामे᳚न । कृ॒तः । अ॒भि । आ॒न॒ट् । अ॒र्कम् ।
सः । नः॒ । रा॒स॒त् । शु॒रुधः᳚ । च॒न्द्र॑अ᳚ग्राः । धिय᳚म्॑धियम् । सी॒स॒धा॒ति॒ । प्र । पू॒षा ॥
▶ सायणभाष्यम् (Sayana Commentary)

पथस्पथः सर्वस्यमार्गस्यपरिपतिमधिपतिंअर्कमर्चनीयं पूषणं कामेनकाम्यमानेनफलेन कृतोवशीकृतः स्तोता वचस्यास्तुत्याअभ्यानट् अभ्यश्नुतां प्राप्नोतु सचपूषा नोस्मभ्यंशुरुधः शुचोरोधयित्रीर्गाः चन्द्राग्राः चन्द्रमितिहिरण्यनाम हिरण्यप्रमुखाः यद्वास्वर्णश्रृंगाः शसद्द- दातु रादानेअस्माल्लेटिरूपं तथाधियंधियंसर्वमस्मदीयंकर्म सपूषाप्रसीषधातिप्रसाधयतु ॥ ८ ॥ वाष्ट्रेपशौप्रथमभाजमितिहविषोयाज्या सूत्रितंच—प्रथमभाजंयशसंवयोधांसोमापूषणाजननारयीणामितिसूक्तमिति ।

6.49.9
प्र॒थ॒म॒भाजं᳚ य॒शसं᳚ वयो॒धां सु᳚पा॒णिं दे॒वं सु॒गभ᳚स्ति॒मृभ्व᳚म् ।
होता᳚ यक्षद्यज॒तं प॒स्त्या᳚नाम॒ग्निस्त्वष्टा᳚रं सु॒हवं᳚ वि॒भावा᳚ ॥
▶ पदपाठः (Word-by-word)
प्र॒थ॒म॒॑भाज᳚म् । य॒शस᳚म् । व॒यः॒॑धाम् । सु॒॑पा॒णिम् । दे॒वम् । सु॒॑गभ᳚स्तिम् । ऋभ्व᳚म् ।
होता᳚ । य॒क्ष॒त् । य॒ज॒तम् । प॒स्त्या᳚नाम् । अ॒ग्निः । त्वष्टा᳚रम् । सु॒॑हव᳚म् । वि॒भा॑वा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रथमभाजं प्रथमेउत्पत्तिकालएवविभक्तारंजंतूनां यावच्छोवैरेतसः सिक्तस्यत्वष्टारूपाणिविकरोतितावच्छोवैतत्प्रजायतइतिश्रुतेः । यशसंयशस्विनं वयोधांवयसोन्नस्यहविर्लक्षणस्यधातारं धारयितारं यद्वा स्तोतृभ्योन्नप्रदं सुपाणिंहस्तस्यमणिबंधादुर्ध्वप्रदेशः पाणिः शोभनपाणिकंदेवंदानादिगुणयुक्तंसुगभस्तिं गभस्तिरितिबाहुनाम शोभनदोर्दंडं ऋभ्वंउरुभासमानं महान्तंवापस्त्यानां पस्त्यमिति- गृहनाम तत्स्थानांयजतंयष्टव्यं गृहस्थैर्यजनीयमित्यर्थः सुहवंसुखेनह्वातुंशक्यं एवंभूतंत्वष्टारंहोतादेवानामाह्वाता विभावा दीप्यमा- नोग्निः यक्षत् यजत् अनेनहविषायजतु ॥ ९ ॥

6.49.10
भुव᳚नस्य पि॒तरं᳚ गी॒र्भिरा॒भी रु॒द्रं दिवा᳚ व॒र्धया᳚ रु॒द्रम॒क्तौ ।
बृ॒हन्त᳚मृ॒ष्वम॒जरं᳚ सुषु॒म्नमृध᳚ग्घुवेम क॒विने᳚षि॒तासः᳚ ॥
▶ पदपाठः (Word-by-word)
भुव᳚नस्य । पि॒तर᳚म् । गीः॒॑भिः । आ॒भिः । रु॒द्रम् । दिवा᳚ । व॒र्धय᳚ । रु॒द्रम् । अ॒क्तौ ।
बृ॒हन्त᳚म् । ऋ॒ष्वम् । अ॒जर᳚म् । सु॒॑सु॒म्नम् । ऋध᳚क् । हु॒वे॒म॒ । क॒विना᳚ । इ॒षि॒तासः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

भुवनस्यभूतजातस्यपितरंपालयितारंरुद्रं रुद्दुःखंतद्द्रावयितारमीश्वरं आभिर्गीर्भिःस्तुतिभिः दिवाअहनिहेस्तोतर्वर्धय अक्तौरात्र्यां- चतमेवरुद्रंस्तुतिभिर्वर्धय वयंचकविनाप्राज्ञेनरुद्रेणइषितासःप्रेषिताःप्रेरिताःसन्तः बृहन्तंमहान्तंऋष्वंदर्शनीयमजरंजरारहितं सुषुम्नंशो- भनसुखं एवंगुणविशिष्टंरुद्रंऋधक् ऋद्धंसमृद्धंयथाभवतितथाहुवेम स्तवाम ॥ १० ॥

6.49.11
आ यु᳚वानः कवयो यज्ञियासो॒ मरु᳚तो ग॒न्त गृ᳚ण॒तो व᳚र॒स्याम् ।
अ॒चि॒त्रं चि॒द्धि जिन्व᳚था वृ॒धन्त᳚ इ॒त्था नक्ष᳚न्तो नरो अङ्गिर॒स्वत् ॥
▶ पदपाठः (Word-by-word)
आ । यु॒वा॒नः॒ । क॒व॒यः॒ । य॒ज्ञि॒या॒सः॒ । मरु᳚तः । ग॒न्त । गृ॒ण॒तः । व॒र॒स्याम् ।
अ॒चि॒त्रम् । चि॒त् । हि । जिन्व᳚थ । वृ॒धन्तः᳚ । इ॒त्था । नक्ष᳚न्तः । न॒रः॒ । अ॒ङ्गि॒र॒स्वत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेयुवानोनित्यतरुणाः कवयः प्राज्ञाः यज्ञियासोयज्ञार्हाः एवंभूताहेमरुतः गृणतःस्तुवतः वरस्यांवरणीयांस्तुतिंप्रतिआगन्त आगच्छत अपिच हेनरोनेतारोमरुतः इत्थाइत्थमनेनप्रकारेणवृधन्तोवर्धमानाः यद्वा इत्थाअमुत्रान्तरिक्षेनक्षन्तोव्याप्नुवन्तः अंगिरस्वत्अंगिरसोगम- नशीलारश्मयः तेयथाशीघ्रंनभस्थलंव्याप्नुवन्ति तद्वत् यद्वाऋषयएवांगिरसः तद्वत् शीघ्रगामिनःएवंभूतायूयं अचित्रंचित्ओषधिवनस्पति- भिर्निबिडोदेशश्चित्रंतद्विलक्षणं ओषध्यादिभिर्वियुक्तमपिदेशंजिन्वथ वृष्ट्यातर्पयथ हीतिपूरणः ॥ ११ ॥

6.49.12 समानपद
प्र वी॒राय॒ प्र त॒वसे᳚ तु॒रायाजा᳚ यू॒थेव᳚ पशु॒रक्षि॒रस्त᳚म् ।
स पि᳚स्पृशति त॒न्वि᳚ श्रु॒तस्य॒ स्तृभि॒र्न नाकं᳚ वच॒नस्य॒ विपः᳚ ॥
▶ पदपाठः (Word-by-word)
प्र । वी॒राय᳚ । प्र । त॒वसे᳚ । तु॒राय᳚ । अज᳚ । यू॒था॑इ᳚व । प॒शु॒॑रक्षिः᳚ । अस्त᳚म् ।
सः । पि॒स्पृ॒श॒ति॒ । त॒न्वि᳚ । श्रु॒तस्य᳚ । स्तृ॑भिः᳚ । न । नाक᳚म् । व॒च॒नस्य᳚ । विपः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वीरायविक्रान्तायविविधंशत्रूणामीरकायवा मरुद्गणाय प्राज हेस्तोतः स्तुतिंप्रगमय तथा तवसेबलिनेतुरायक्षिप्रगमनायचतस्मैगणा- यप्राज तत्रदृष्टान्तः—पशुरक्षिःपशुपालकः यूथेव सयथागोयूथानिसायंकालेअस्तंगृहंशीघ्रंगमयति तद्वत् शीघ्रंस्तुतिंप्रेरयेत्यर्थःसचमरुद्गणः वचनस्यवक्तुःविपः विप्रस्यमेधाविनः स्तोतुः श्रुतस्य क्रियाग्रहणमपिकर्तव्यमितिकर्मणः संप्रदानत्वाच्चतुर्थ्यर्थेषष्ठी श्रुतंश्रोतव्यंस्तोत्रं तन्वि आत्मीयेशरीरेपिस्पृशतिस्पर्शयतु संश्लेषयतु तत्स्तोत्रं हृद्गतंभवत्वित्यर्थःस्पर्शनेदृष्टान्तः—स्तृभिर्ननाकं यथानक्षत्रैर्नाकमन्तरिक्षंस्पर्शयति- संश्लेषयति तद्वत् ॥ १२ ॥

6.49.13 समानपद
यो रजां᳚सि विम॒मे पार्थि᳚वानि॒ त्रिश्चि॒द्विष्णु॒र्मन᳚वे बाधि॒ताय᳚ ।
तस्य᳚ ते॒ शर्म᳚न्नुपद॒द्यमा᳚ने रा॒या म᳚देम त॒न्वा॒३॒᳚ तना᳚ च ॥
▶ पदपाठः (Word-by-word)
यः । रजां᳚सि । वि॒॑म॒मे । पार्थि᳚वानि । त्रिः । चि॒त् । विष्णुः᳚ । मन᳚वे । बा॒धि॒ताय᳚ ।
तस्य᳚ । ते॒ । शर्म᳚न् । उ॒प॒॑द॒द्यमा᳚ने । रा॒या । म॒दे॒म॒ । त॒न्वा᳚ । तना᳚ । च॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

योविष्णुः बाधितायअसुरौर्हिंसिताय मनवेप्रजापतये तदर्थंपार्थिवानिपृथिव्यासंबद्धानि रजांसिलोकान् त्रीन् लोकानितियावत् त्रि- श्चित् विममे चिदित्यवधारणे त्रिभिरेवविक्रमणैः परिमितवान् हेविष्णो तस्यतादृशस्यतेतव तृतीयार्थेषष्ठी ईदृशेनत्वयाउपदद्यमाने अस्मभ्यंदीयमाने शर्मन् शर्मणिगृहेसुखेवावर्तमानाः सन्तोवयं रायाधनेनतन्वारोगादिरहितेनशरीरेणच तनातनयेनपुत्रेणच मदेम मोदेम हृष्टाभवेम ॥ १३ ॥

6.49.14
तन्नो॑हि᳚र्बु॒ध्न्यो᳚ अ॒द्भिर॒र्कैस्तत्पर्व᳚त॒स्तत्स᳚वि॒ता चनो᳚ धात् ।
तदोष᳚धीभिर॒भि रा᳚ति॒षाचो॒ भग॒ः पुरं᳚धिर्जिन्वतु॒ प्र रा॒ये ॥
▶ पदपाठः (Word-by-word)
तत् । नः॒ । अहिः᳚ । बु॒ध्न्यः᳚ । अ॒त्॑भिः । अ॒र्कैः । तत् । पर्व᳚तः । तत् । स॒वि॒ता । चनः᳚ । धा॒त् ।
तत् । ओष᳚धीभिः । अ॒भि । रा॒ति॒॑साचः᳚ । भगः᳚ । पुर᳚म्॑धिः । जि॒न्व॒तु॒ । प्र । रा॒ये ॥
▶ सायणभाष्यम् (Sayana Commentary)

बुध्न्यःबुध्नमंतरिक्षंतत्रभवः अहिः एत्यन्तरिक्षइत्यहिः उक्तंच—अहिरयनादेत्यंतरिक्षइति । एतत्पदद्वयाभिधेयोदेवःअर्कैःअर्चनसाधनै- र्मंत्रैः स्तूयमानः सननोस्मभ्यंतत् लोकेप्रसिद्धंचनोन्नं अद्भिः उदकैः सार्धंधात् दधातु विदधातु प्रयच्छतु पर्वतःपूरयिता पर्वपूरणेइतिधातुः यद्वा पर्ववत् वज्रंपर्वतः तद्वान् पर्वतस्यगिरेः शत्रुरितिवापर्वतः सचतच्चनोदधातु तथासविताप्रेरकोदेवश्चतच्चनोदधातु अपिचरातिपाचः रानिंदानंसचन्तेसेवन्तइतिरातिषाचोविश्वेदेवाः तेचओषधीभिः ओषःपाकःआसुधीयतइतिओषधयस्तिलमाषाद्याः ताभिःसार्धंतदन्नम- भिप्रयच्छन्तु तथापुरन्धिर्बहुधीः बहुप्रज्ञोवाबहुकर्मावाभगोभजनीयएतत्संज्ञोदेवश्चरायेधनार्थं प्रजिन्वतु अस्मान्प्रेरयतु ॥ १४ ॥

6.49.15
नु नो᳚ र॒यिं र॒थ्यं᳚ चर्षणि॒प्रां पु᳚रु॒वीरं᳚ म॒ह ऋ॒तस्य᳚ गो॒पाम् ।
क्षयं᳚ दाता॒जरं॒ येन॒ जना॒न्त्स्पृधो॒ अदे᳚वीर॒भि च॒ क्रमा᳚म॒ विश॒ आदे᳚वीर॒भ्य१॒᳚श्नवा᳚म ॥
▶ पदपाठः (Word-by-word)
नु । नः॒ । र॒यिम् । र॒थ्य᳚म् । च॒र्ष॒णि॒॑प्राम् । पु॒रु॒॑वीर᳚म् । म॒हः । ऋ॒तस्य᳚ । गो॒पाम् ।
क्षय᳚म् । दा॒त॒ । अ॒जर᳚म् । येन᳚ । जना᳚न् । स्पृधः᳚ । अदे᳚वीः । अ॒भि । च॒ । क्रमा᳚म । विशः᳚ । आ॑दे᳚वीः । अ॒भि । अ॒श्नवा᳚म ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेसर्वेदेवाः नोस्मभ्यंनुक्षिप्रंरयिंधनंक्षयंगृहंच दात प्रयच्छत कीदृशंरयिं रथ्यंरथसंबन्धिनंरथयुक्तमित्यर्थः चर्षणिप्रां चर्षणयोमनुष्या- स्तोषांपूरयितारं पुरुवीरं वीर्याज्जायन्तइतिवीराः पुत्रादयः बहुभिः वीरैरुपेतं महोमहतः ऋतस्ययज्ञस्यगोपांरक्षकंदक्षिणारूपेणधनेनहि- यज्ञोरक्ष्यते मृतोयज्ञस्त्वदक्षिणइतिवचनात् कीदृशंक्षयं अजरंजरारहितं येनरयिणाक्षयेणचजनान् शत्रून् स्पृधः स्पर्धमानाः अदेवीः अदेव- संबन्धिनीरासुरीःसेनाश्च अभिक्रमाम अभिभवेम तथाआदेवीःआगतादेवायासुहविः स्वीकारार्थं ताआदेव्यः तादृशीश्चविशःप्रजाःयज्ञानु- ष्ठायिनीः येनधनेनगृहेण चअभ्यश्नवाम अभिप्राप्नवाम तादृशंधनंगृहंचदातेत्यन्वयः ॥ १५ ॥

पंचमेनुवाकेद्वादशसूक्तानि तत्रहुवेवइतिपंचदशर्चंप्रथमंसूक्तं ऋजिश्वनआर्षं बहुदेवताकं त्रैष्टुभं हुवेवइत्यनुक्रान्तं गतः सूक्तविनियोगः ।