यो रजां᳚सि विम॒मे पार्थि᳚वानि॒ त्रिश्चि॒द्विष्णु॒र्मन᳚वे बाधि॒ताय᳚ ।
तस्य᳚ ते॒ शर्म᳚न्नुपद॒द्यमा᳚ने रा॒या म᳚देम त॒न्वा॒३॒᳚ तना᳚ च ॥
तस्य᳚ ते॒ शर्म᳚न्नुपद॒द्यमा᳚ने रा॒या म᳚देम त॒न्वा॒३॒᳚ तना᳚ च ॥
पदपाठः (Word-by-word)
यः । रजां᳚सि । वि॒॑म॒मे । पार्थि᳚वानि । त्रिः । चि॒त् । विष्णुः᳚ । मन᳚वे । बा॒धि॒ताय᳚ ।
तस्य᳚ । ते॒ । शर्म᳚न् । उ॒प॒॑द॒द्यमा᳚ने । रा॒या । म॒दे॒म॒ । त॒न्वा᳚ । तना᳚ । च॒ ॥
तस्य᳚ । ते॒ । शर्म᳚न् । उ॒प॒॑द॒द्यमा᳚ने । रा॒या । म॒दे॒म॒ । त॒न्वा᳚ । तना᳚ । च॒ ॥
सायणभाष्यम् (Sayana Commentary)
योविष्णुः बाधितायअसुरौर्हिंसिताय मनवेप्रजापतये तदर्थंपार्थिवानिपृथिव्यासंबद्धानि रजांसिलोकान् त्रीन् लोकानितियावत् त्रि- श्चित् विममे चिदित्यवधारणे त्रिभिरेवविक्रमणैः परिमितवान् हेविष्णो तस्यतादृशस्यतेतव तृतीयार्थेषष्ठी ईदृशेनत्वयाउपदद्यमाने अस्मभ्यंदीयमाने शर्मन् शर्मणिगृहेसुखेवावर्तमानाः सन्तोवयं रायाधनेनतन्वारोगादिरहितेनशरीरेणच तनातनयेनपुत्रेणच मदेम मोदेम हृष्टाभवेम ॥ १३ ॥