श्रवणम्

6.49.15
नु नो᳚ र॒यिं र॒थ्यं᳚ चर्षणि॒प्रां पु᳚रु॒वीरं᳚ म॒ह ऋ॒तस्य᳚ गो॒पाम् ।
क्षयं᳚ दाता॒जरं॒ येन॒ जना॒न्त्स्पृधो॒ अदे᳚वीर॒भि च॒ क्रमा᳚म॒ विश॒ आदे᳚वीर॒भ्य१॒᳚श्नवा᳚म ॥
▶ पदपाठः (Word-by-word)
नु । नः॒ । र॒यिम् । र॒थ्य᳚म् । च॒र्ष॒णि॒॑प्राम् । पु॒रु॒॑वीर᳚म् । म॒हः । ऋ॒तस्य᳚ । गो॒पाम् ।
क्षय᳚म् । दा॒त॒ । अ॒जर᳚म् । येन᳚ । जना᳚न् । स्पृधः᳚ । अदे᳚वीः । अ॒भि । च॒ । क्रमा᳚म । विशः᳚ । आ॑दे᳚वीः । अ॒भि । अ॒श्नवा᳚म ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेसर्वेदेवाः नोस्मभ्यंनुक्षिप्रंरयिंधनंक्षयंगृहंच दात प्रयच्छत कीदृशंरयिं रथ्यंरथसंबन्धिनंरथयुक्तमित्यर्थः चर्षणिप्रां चर्षणयोमनुष्या- स्तोषांपूरयितारं पुरुवीरं वीर्याज्जायन्तइतिवीराः पुत्रादयः बहुभिः वीरैरुपेतं महोमहतः ऋतस्ययज्ञस्यगोपांरक्षकंदक्षिणारूपेणधनेनहि- यज्ञोरक्ष्यते मृतोयज्ञस्त्वदक्षिणइतिवचनात् कीदृशंक्षयं अजरंजरारहितं येनरयिणाक्षयेणचजनान् शत्रून् स्पृधः स्पर्धमानाः अदेवीः अदेव- संबन्धिनीरासुरीःसेनाश्च अभिक्रमाम अभिभवेम तथाआदेवीःआगतादेवायासुहविः स्वीकारार्थं ताआदेव्यः तादृशीश्चविशःप्रजाःयज्ञानु- ष्ठायिनीः येनधनेनगृहेण चअभ्यश्नवाम अभिप्राप्नवाम तादृशंधनंगृहंचदातेत्यन्वयः ॥ १५ ॥

पंचमेनुवाकेद्वादशसूक्तानि तत्रहुवेवइतिपंचदशर्चंप्रथमंसूक्तं ऋजिश्वनआर्षं बहुदेवताकं त्रैष्टुभं हुवेवइत्यनुक्रान्तं गतः सूक्तविनियोगः ।