आ यु᳚वानः कवयो यज्ञियासो॒ मरु᳚तो ग॒न्त गृ᳚ण॒तो व᳚र॒स्याम् ।
अ॒चि॒त्रं चि॒द्धि जिन्व᳚था वृ॒धन्त᳚ इ॒त्था नक्ष᳚न्तो नरो अङ्गिर॒स्वत् ॥
अ॒चि॒त्रं चि॒द्धि जिन्व᳚था वृ॒धन्त᳚ इ॒त्था नक्ष᳚न्तो नरो अङ्गिर॒स्वत् ॥
पदपाठः (Word-by-word)
आ । यु॒वा॒नः॒ । क॒व॒यः॒ । य॒ज्ञि॒या॒सः॒ । मरु᳚तः । ग॒न्त । गृ॒ण॒तः । व॒र॒स्याम् ।
अ॒चि॒त्रम् । चि॒त् । हि । जिन्व᳚थ । वृ॒धन्तः᳚ । इ॒त्था । नक्ष᳚न्तः । न॒रः॒ । अ॒ङ्गि॒र॒स्वत् ॥
अ॒चि॒त्रम् । चि॒त् । हि । जिन्व᳚थ । वृ॒धन्तः᳚ । इ॒त्था । नक्ष᳚न्तः । न॒रः॒ । अ॒ङ्गि॒र॒स्वत् ॥
सायणभाष्यम् (Sayana Commentary)
हेयुवानोनित्यतरुणाः कवयः प्राज्ञाः यज्ञियासोयज्ञार्हाः एवंभूताहेमरुतः गृणतःस्तुवतः वरस्यांवरणीयांस्तुतिंप्रतिआगन्त आगच्छत अपिच हेनरोनेतारोमरुतः इत्थाइत्थमनेनप्रकारेणवृधन्तोवर्धमानाः यद्वा इत्थाअमुत्रान्तरिक्षेनक्षन्तोव्याप्नुवन्तः अंगिरस्वत्अंगिरसोगम- नशीलारश्मयः तेयथाशीघ्रंनभस्थलंव्याप्नुवन्ति तद्वत् यद्वाऋषयएवांगिरसः तद्वत् शीघ्रगामिनःएवंभूतायूयं अचित्रंचित्ओषधिवनस्पति- भिर्निबिडोदेशश्चित्रंतद्विलक्षणं ओषध्यादिभिर्वियुक्तमपिदेशंजिन्वथ वृष्ट्यातर्पयथ हीतिपूरणः ॥ ११ ॥