श्रवणम्

6.49.1
स्तु॒षे जनं᳚ सुव्र॒तं नव्य᳚सीभिर्गी॒र्भिर्मि॒त्रावरु᳚णा सुम्न॒यन्ता᳚ ।
त आ ग᳚मन्तु॒ त इ॒ह श्रु᳚वन्तु सुक्ष॒त्रासो॒ वरु᳚णो मि॒त्रो अ॒ग्निः ॥
▶ पदपाठः (Word-by-word)
स्तु॒षे । जन᳚म् । सु॒॑व्र॒तम् । नव्य᳚सीभिः । गीः॒॑भिः । मि॒त्रावरु᳚णा । सु॒म्न॒॑यन्ता᳚ ।
ते । आ । ग॒म॒न्तु॒ । ते । इ॒ह । श्रु॒व॒न्तु॒ । सु॒॑क्ष॒त्रासः᳚ । वरु᳚णः । मि॒त्रः । अ॒ग्निः ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुव्रतं सुकर्माणंजनंदैव्यजनंदेवसंघंनव्यसीभिः नवतराभिर्गीर्भिःस्तुतिभिः स्तुषे अहंस्तुवे तथा मित्रावरुणामित्रः प्रमीयतेस्त्रायकः वरुणः पापानांनिवारयिता एतावपिदेवौस्तौमि कीदृशौ सुम्नयन्तासुम्नंसुखंस्तोतॄणामिच्छन्तौ सुक्षत्रासः शोभनबलास्तेवरुणादयः सर्वे- देवाः इहास्मिन्यज्ञेआगमन्तु आगच्छन्तु तेतादृशाःश्रुवन्तु अस्मदीयाःस्तुतीःश्रृण्वन्तुच अत्रमित्रादीनांपरिगणनमुपलक्षणं सूक्तस्यसर्वस्य- देवताप्रतिपादकत्वात् अतएवपूर्वंजनमितिसामान्यनिर्देशः ॥ १ ॥