वै॒श्वा॒न॒रो जाय᳚मानो॒ न राजावा᳚तिर॒ज्ज्योति᳚षा॒ग्निस्तमां᳚सि ॥
पदपाठः (Word-by-word)
वै॒श्वा॒न॒रः । जाय᳚मानः । न । राजा᳚ । अव᳚ । अ॒ति॒र॒त् । ज्योति᳚षा । अ॒ग्निः । तमां᳚सि ॥
सायणभाष्यम् (Sayana Commentary)
आहरतिपुरुषोस्मिन्कर्माणीत्यहः कृष्णं कृष्णवर्णं एतत्सामानाधिकरण्यादहः शब्दोरात्रिवचनः तमसाकृष्णवर्णारात्रिश्च अर्जुनंच सौ- रेणतेजसा शुक्लवर्णमहोदिवसश्चरजसी स्वस्वभासा सर्वंजगद्रंजयन्तौ वेद्याभिः वेदितव्याभिः अनुकूलतयाज्ञातव्याभिः स्वप्रवृत्तिभिः विवर्तेते विविधंपर्यावर्तेते यद्वा रजसी द्यावापृथिव्यौ उपलक्षणमेतत् लोकत्रयं प्रत्यावर्तेते एतच्चवैश्वानराग्नेराज्ञयेतिशेषः सहिदेवतात्वे- नात्रप्रतिपाद्यः सचवैश्वानरोग्निः जायमानोनराजा प्रादुर्भवन् प्रवर्धमानोराजेव ज्योतिषा तेजसा तमांसि अवातिरत् अवतिरतिर्वधकर्मा अवतिरति विनाशयति ॥ १ ॥