अ॒यं होता᳚ प्रथ॒मः पश्य᳚ते॒ममि॒दं ज्योति᳚र॒मृतं॒ मर्त्ये᳚षु ।
अ॒यं स ज᳚ज्ञे ध्रु॒व आ निष॒त्तो॑म᳚र्त्यस्त॒न्वा॒३॒᳚ वर्ध᳚मानः ॥
अ॒यं स ज᳚ज्ञे ध्रु॒व आ निष॒त्तो॑म᳚र्त्यस्त॒न्वा॒३॒᳚ वर्ध᳚मानः ॥
पदपाठः (Word-by-word)
अ॒यम् । होता᳚ । प्र॒थ॒मः । पश्य᳚त । इ॒मम् । इ॒दम् । ज्योतिः᳚ । अ॒मृत᳚म् । मर्त्ये᳚षु ।
अ॒यम् । सः । ज॒ज्ञे॒ । ध्रु॒वः । आ । नि॑स᳚त्तः । अम᳚र्त्यः । त॒न्वा᳚ । वर्ध᳚मानः ॥
अ॒यम् । सः । ज॒ज्ञे॒ । ध्रु॒वः । आ । नि॑स᳚त्तः । अम᳚र्त्यः । त॒न्वा᳚ । वर्ध᳚मानः ॥
सायणभाष्यम् (Sayana Commentary)
अयंवैश्वानरोग्निः प्रथमआद्योहोता मानुषोहिहोताद्वितीयः हेमनुष्याः तं इमं पश्यत भजतेत्यर्थः मर्त्येषु मरणस्वभावेषुशरीरेषु अमृतं मरणरहितं इदं वैश्वानराख्यंज्योतिः जाठररूपेणवर्ततइत्यर्थः अपिच सोयमग्निः ध्रुवोनिश्चलः आसमन्तान्निषत्तोनिषण्णः सर्वव्यापी अतएवामर्त्यः मरणरहितोपि तन्वा शरीरेण संबन्धात् जज्ञे जायते वर्धमानश्चभवतीत्युपचर्यते ॥ ४ ॥