षष्ठं मण्डलम् - सूक्तम् 21

12 ऋचः

ऋषिः: भरद्वाजो बार्हस्पत्यः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 6.21 - सम्पूर्णम्

1 / 12
ऋक्: 6.21.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (12)
6.21.1
इ॒मा उ᳚ त्वा पुरु॒तम᳚स्य का॒रोर्हव्यं᳚ वीर॒ हव्या᳚ हवन्ते ।
धियो᳚ रथे॒ष्ठाम॒जरं॒ नवी᳚यो र॒यिर्विभू᳚तिरीयते वच॒स्या ॥
▶ पदपाठः (Word-by-word)
इ॒माः । ऊं॒ इति᳚ । त्वा॒ । पु॒रु॒॑तम᳚स्य । का॒रोः । हव्य᳚म् । वी॒र॒ । हव्याः᳚ । ह॒व॒न्ते॒ ।
धियः᳚ । र॒थे॒॑स्थाम् । अ॒जर᳚म् । नवी᳚यः । र॒यिः । वि॑भू᳚तिः । ई॒य॒ते॒ । व॒च॒स्या ॥
▶ सायणभाष्यम् (Sayana Commentary)

पुरुतमस्य बहुलंकामंकांक्षतः तमुअभिकांक्षायामितिधातुः कारोः स्तोतुर्भरद्वाजस्यसंबन्धिन्यः हव्याः स्तुत्याः प्रशस्याः इमाधियः स्तुतयः हेवीर शूरेन्द्र हव्यं त्वा त्वां हवंते ह्वयन्ति कीदृशं रथेस्थां रथेस्थितं अजरं जरारहितं नवीयोनवीयांसं नवतरं उइतिपूरणःअपि- च वचस्या स्तुत्या श्रेष्ठाविभूतिः जगतोविभव्हेतुः रयिर्हविर्लक्षणंधनं ईयते त्वामभिगच्छति ॥ १ ॥

6.21.2
तमु᳚ स्तुष॒ इन्द्रं॒ यो विदा᳚नो॒ गिर्वा᳚हसं गी॒र्भिर्य॒ज्ञवृ᳚द्धम् ।
यस्य॒ दिव॒मति᳚ म॒ह्ना पृ᳚थि॒व्याः पु᳚रुमा॒यस्य᳚ रिरि॒चे म᳚हि॒त्वम् ॥
▶ पदपाठः (Word-by-word)
तम् । ऊं॒ इति᳚ । स्तु॒षे॒ । इन्द्र᳚म् । यः । विदा᳚नः । गिर्वा᳚हसम् । गीः॒॑भिः । य॒ज्ञ॑वृ᳚द्धम् ।
यस्य᳚ । दिव᳚म् । अति᳚ । म॒ह्ना । पृ॒थि॒व्याः । पु॒रु॒॑मा॒यस्य᳚ । रि॒रि॒चे । म॒हि॒॑त्वम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यइन्द्रः विदानः सर्वंविद्वान् सर्वैर्ज्ञायमानोवा गिर्वाहसं गीर्भिर्वहनीयं यज्ञवृद्धं यज्ञैः प्रवृद्धं तमु तमेवेन्द्रं स्तुषे स्तुवे पुरुमायस्य बहुप्र- ज्ञस्य बहुवचनस्यवा यस्येन्द्रस्य महित्वं माहात्म्यं दिवं दिवोद्युलोकात् पंचम्यर्थेद्वितीया पृथिव्याः भूलोकात् मह्ना महिम्ना अतिरिरिचे अतिरिच्यते तंस्तुवइतिसंबन्धः ॥ २ ॥

6.21.3
स इत्तमो᳚॑वयु॒नं त᳚त॒न्वत्सूर्ये᳚ण व॒युन᳚वच्चकार ।
क॒दा ते॒ मर्ता᳚ अ॒मृत᳚स्य॒ धामेय᳚क्षन्तो॒ न मि᳚नन्ति स्वधावः ॥
▶ पदपाठः (Word-by-word)
सः । इत् । तमः᳚ । अ॒व॒यु॒नम् । त॒त॒न्वत् । सूर्ये᳚ण । व॒युन᳚॑वत् । च॒का॒र॒ ।
क॒दा । ते॒ । मर्ताः᳚ । अ॒मृत᳚स्य । धाम᳚ । इय᳚क्षन्तः । न । मि॒न॒न्ति॒ । स्व॒धा॒॑वः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सइत् सएवेन्द्रः अवयुनं अपज्ञानं प्रज्ञाननाशनमित्यर्थः ततन्वत् वृत्रेणविस्तीर्यमाणंतमोन्धकारं दिविसूर्येण दिव्यारोपितेमदेवेन वयुनवत् प्रकाशवत् चकार कृतवान् परोर्धर्चःप्रत्यक्षकृतः हेस्वधावः बलवन्निन्द्र मर्ताः मनुष्याः अमृतस्य नित्यस्य तेत्वदीयं धामस्वर्गा- ख्यंस्थानं तत्रस्थान् देवानित्यर्थः इयक्षंतः यष्टुमिच्छन्तः कदा कदाचित् सर्वदेत्यर्थः नमिनन्ति किमपिप्राणिजातंनहिंसन्ति ॥ ३ ॥

6.21.4
यस्ता च॒कार॒ स कुह᳚ स्वि॒दिन्द्र॒ः कमा जनं᳚ चरति॒ कासु᳚ वि॒क्षु ।
कस्ते᳚ य॒ज्ञो मन᳚से॒ शं वरा᳚य॒ को अ॒र्क इ᳚न्द्र कत॒मः स होता᳚ ॥
▶ पदपाठः (Word-by-word)
यः । ता । च॒कार᳚ । सः । कुह᳚ । स्वि॒त् । इन्द्रः᳚ । कम् । आ । जन᳚म् । च॒र॒ति॒ । कासु᳚ । वि॒क्षु ।
कः । ते॒ । य॒ज्ञः । मन᳚से । शम् । वरा᳚य । कः । अ॒र्कः । इ॒न्द्र॒ । क॒त॒मः । सः । होता᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यइन्द्रः ता तान्युक्तप्रसिद्धानि वृत्रवधादीनिकर्माणि चकार अकरोत् सइन्द्रोद्यकुहस्वित् क्वस्विद्वर्तते कंजनं कमपिदेशमाचरति कासु विक्षु प्रजासु वर्तते इतीन्द्रस्य विभूतिमहत्त्वान्ननिश्चेतुंशक्यं अथप्रत्यक्षस्तुतिः हेइन्द्र कः कीदृशोयज्ञः ते तव मनसे चेतसे शं सुखकरोभव- ति वराय तववरणाय कः कीदृशोर्कोमंत्रः समर्थोभवति होता आह्वाता तववरणाय यःसमर्थोभवति सहोता कतमश्च भवति ॥ ४ ॥

6.21.5
इ॒दा हि ते॒ वेवि᳚षतः पुरा॒जाः प्र॒त्नास᳚ आ॒सुः पु᳚रुकृ॒त्सखा᳚यः ।
ये म᳚ध्य॒मास᳚ उ॒त नूत᳚नास उ॒ताव॒मस्य᳚ पुरुहूत बोधि ॥
▶ पदपाठः (Word-by-word)
इ॒दा । हि । ते॒ । वेवि᳚षतः । पु॒रा॒॑जाः । प्र॒त्नासः᳚ । आ॒सुः । पु॒रु॒॑कृ॒त् । सखा᳚यः ।
ये । म॒ध्य॒मासः᳚ । उ॒त । नूत᳚नासः । उ॒त । अ॒व॒मस्य᳚ । पु॒रु॒॑हू॒त॒ । बो॒धि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पुराजाः पूर्वस्मिन्कालेजाताः प्रत्नासः पुराणाः अंगिरःप्रभृतयः इदाहि इदानीमिव हिशद्बउपमार्थेवर्तते वेविषतः कर्माणिप्राप्नुवन्तः हेपुरुकृत् बहूनांकर्मणांकर्तरिन्द्र ते तव सखायाः स्तोतारः आसुः बभूवुः येमध्यमासोमध्यमकालजाः उतापिच येनूतनासोद्यतनाः यत- स्तेपिसर्वे तेस्तोतारोबभूवुः अतः कारणात् उतापिच येनूतनासोद्यतनाः यतस्तेपिसर्वे तेस्तोतारोबभूवुः अतःकारणात् उतापिच अव- मस्यार्वाचीनस्य ममापिस्तोत्रं हेपुरुहूत बहुभिराहूतेन्द्र त्वंबोधि बुध्यस्व ॥ ५ ॥

6.21.6
तं पृ॒च्छन्तो॑व᳚रास॒ः परा᳚णि प्र॒त्ना त᳚ इन्द्र॒ श्रुत्यानु᳚ येमुः ।
अर्चा᳚मसि वीर ब्रह्मवाहो॒ यादे॒व वि॒द्म तात्त्वा᳚ म॒हान्त᳚म् ॥
▶ पदपाठः (Word-by-word)
तम् । पृ॒च्छन्तः᳚ । अव᳚रासः । परा᳚णि । प्र॒त्ना । ते॒ । इ॒न्द्र॒ । श्रुत्या᳚ । अनु᳚ । ये॒मुः॒ ।
अर्चा᳚मसि । वी॒र॒ । ब्र॒ह्म॒॑वा॒हः॒ । यात् । ए॒व । वि॒द्म । तात् । त्वा॒ । म॒हान्त᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेवीर शूर ब्रह्मवाहः ब्रह्मभिर्मंत्रैर्वहनीयेन्द्र अवरासोर्वाचीनामनुष्याः तंउक्तगुणोपेतं त्वां पृच्छंतोर्चन्तः पृच्छतिरर्चतिकर्मा पराणि प्रकृष्टानि प्रत्ना प्रत्नानि पुराणानि श्रुत्या श्रुत्यानिश्रोतव्यानि ते त्वदीयानिकर्माणि अनुयेमुः अनुयमनंनिबन्धनंस्तुतिरूपाभिर्वाग्भिर्नि- बबन्धुः तथा वयमपि महान्तं प्रभूतं त्वा त्वां अर्चामसि अर्चमःस्तुमः यादेव यान्येवकर्माणि विद्मजानीमः तत् तैःकर्मभिः स्तमइतिसं- बन्धः ॥ ६ ॥

6.21.7
अ॒भि त्वा॒ पाजो᳚ र॒क्षसो॒ वि त᳚स्थे॒ महि᳚ जज्ञा॒नम॒भि तत्सु ति᳚ष्ठ ।
तव᳚ प्र॒त्नेन॒ युज्ये᳚न॒ सख्या॒ वज्रे᳚ण धृष्णो॒ अप॒ ता नु᳚दस्व ॥
▶ पदपाठः (Word-by-word)
अ॒भि । त्वा॒ । पाजः᳚ । र॒क्षसः᳚ । वि । त॒स्थे॒ । महि᳚ । ज॒ज्ञा॒नम् । अ॒भि । तत् । सु । ति॒ष्ठ॒ ।
तव᳚ । प्र॒त्नेन᳚ । युज्ये᳚न । सख्या᳚ । वज्रे᳚ण । धृ॒ष्णो॒ इति᳚ । अप᳚ । ता । नु॒द॒स्व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

रक्षसोरक्षसांसंबन्धिपाजः सेनालक्षणंबलं हेइन्द्र त्वाअभि त्वांअभिमुखं वितस्थे प्रतिष्ठते तथात्वमपि महि महत् जज्ञानं प्रादुर्भवत् तद्बलं अभि अभिमुखःसन् सु सुष्ठु तिष्ठ स्थिरोभव स्थित्वाच हेधृष्णो शत्रूणांधर्षकेन्द्र तव त्वदीयेनवज्रेण ता तद्बलं अपनुदस्व अपगतं प्रेरय छिन्धीत्यर्थः कीदृशेनप्रत्नेन पुराणेन युज्येन योज्येन सख्या नित्यसहायेन ॥ ७ ॥

6.21.8
स तु श्रु᳚धीन्द्र॒ नूत᳚नस्य ब्रह्मण्य॒तो वी᳚र कारुधायः ।
त्वं ह्या॒३॒᳚पिः प्र॒दिवि᳚ पितॄ॒णां शश्व᳚द्ब॒भूथ᳚ सु॒हव॒ एष्टौ᳚ ॥
▶ पदपाठः (Word-by-word)
सः । तु । श्रु॒धि॒ । इ॒न्द्र॒ । नूत᳚नस्य । ब्र॒ह्म॒ण्य॒तः । वी॒र॒ । का॒रु॒॑धा॒यः॒ ।
त्वम् । हि । आ॒पिः । प्र॒॑दिवि᳚ । पि॒तॄ॒णाम् । शश्व᳚त् । ब॒भूथ᳚ । सु॒॑हवः᳚ । आ॑इ᳚ष्टौ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेकारुधायः कारूणांस्तोतॄणांधारकः हेवीरेन्द्र सः प्रसिद्धस्त्वं नूतनस्येदानींतनस्य ब्रह्मण्यतः ब्रह्मस्तोत्रंकर्तुमिच्छतोमम स्तोत्रं नु क्षिप्रं श्रुधिश्रृणु हियस्मात् कारणात् हेइन्द्र त्वं आइष्टौ आयजने अभिकामनेवासति सुहवः शोभनह्वानःसन् प्रदिवि पूर्वस्मिन् काले पितॄणां अंगिरसां आपिर्बन्धुः शश्वच्चिरकालं बभूथाभूः तस्मात्कारणात् मदीयंस्तोत्रं श्रुधीतिसंबन्धः ॥ ८ ॥

6.21.9
प्रोतये॒ वरु᳚णं मि॒त्रमिन्द्रं᳚ म॒रुतः᳚ कृ॒ष्वाव᳚से नो अ॒द्य ।
प्र पू॒षणं॒ विष्णु᳚म॒ग्निं पुरं᳚धिं सवि॒तार॒मोष᳚धी॒ः पर्व᳚ता{4}श्च ॥
▶ पदपाठः (Word-by-word)
प्र । ऊ॒तये᳚ । वरु᳚णम् । मि॒त्रम् । इन्द्र᳚म् । म॒रुतः᳚ । कृ॒ष्व॒ । अव᳚से । नः॒ । अ॒द्य ।
प्र । पू॒षण᳚म् । विष्णु᳚म् । अ॒ग्निम् । पुर᳚म्॑धि᳚म् । स॒वि॒तार᳚म् । ओष᳚धीः । पर्व᳚तान् । च॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्यामृचिविश्वेदेवाःस्तूयन्ते हेभरद्वाज अद्येदानीं वरुणं रात्र्यभिमानिनंच मित्रमहरभिमानिनंच इन्द्रंच प्रसिद्धं मरुतोमरुद्गणांश्च नोस्माकं ऊतये तर्पणाय अवसे रक्षणायच प्रकृष्वाभिमुखीकुरुष्व किंच षूषणं एतत्संज्ञकंचविष्णुं सर्वव्यापिनंदेवंच पुरंधिं पुरुधियं पुरु- कर्माणं अग्निंच सवितारं सर्वस्यप्रेरकं देवं ओषधीः ओषध्यभिमानिनोदेवान् पर्वतांश्चाद्रीन् इत्येतान् देवान् अस्माकंतर्पणाय रक्षणायच प्रकृष्व स्तुत्याभिमुखीकुरु ॥ ९ ॥

6.21.10
इ॒म उ᳚ त्वा पुरुशाक प्रयज्यो जरि॒तारो᳚ अ॒भ्य᳚र्चन्त्य॒र्कैः ।
श्रु॒धी हव॒मा हु᳚व॒तो हु᳚वा॒नो न त्वावा{4}᳚ अ॒न्यो अ᳚मृत॒ त्वद᳚स्ति ॥
▶ पदपाठः (Word-by-word)
इ॒मे । ऊं॒ इति᳚ । त्वा॒ । पु॒रु॒॑शा॒क॒ । प्र॒य॒ज्यो॒ इति᳚ प्र॑यज्यो । ज॒रि॒तारः᳚ । अ॒भि । अ॒र्च॒न्ति॒ । अ॒र्कैः ।
श्रु॒धि । हव᳚म् । आ । हु॒व॒तः । हु॒वा॒नः । न । त्वा॑वा᳚न् । अ॒न्यः । अ॒मृ॒त॒ । त्वत् । अ॒स्ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेपुरुशाक बहुशक्ते हेप्रयज्यो प्रकृष्टेनयजनीयेन्द्र त्वा त्वां इमे जरितारः स्तोतारः अर्कैरर्चनीयैःस्तोत्रैः अभ्यर्चन्ति अभिष्टुवन्ति तथा हेअमृत अमरणशीलेन्द्र हुवानः स्तूयमानस्त्वं आहुवतोभिष्टुवतोमम हवं स्तोत्रं श्रुधि श्रृणु किंच त्वावान् त्वत्सदृशोदेवः त्वदन्योनास्ति ॥ १० ॥

6.21.11
नू म॒ आ वाच॒मुप᳚ याहि वि॒द्वान्विश्वे᳚भिः सूनो सहसो॒ यज᳚त्रैः ।
ये अ᳚ग्निजि॒ह्वा ऋ᳚त॒साप᳚ आ॒सुर्ये मनुं᳚ च॒क्रुरुप᳚रं॒ दसा᳚य ॥
▶ पदपाठः (Word-by-word)
नु । मे॒ । आ । वाच᳚म् । उप᳚ । या॒हि॒ । वि॒द्वान् । विश्वे᳚भिः । सू॒नो॒ इति᳚ । स॒ह॒सः॒ । यज᳚त्रैः ।
ये । अ॒ग्नि॒॑जि॒ह्वाः । ऋ॒त॒॑सापः᳚ । आ॒सुः । ये । मनु᳚म् । च॒क्रुः । उप᳚रम् । दसा᳚य ॥
▶ सायणभाष्यम् (Sayana Commentary)

इयंचवैश्वदेवीत्युक्तं हेसहसःसूनो बलस्यपुत्रेन्द्र विद्वान् सर्वज्ञस्त्वं यजत्रैर्यजनीयैर्विश्वेभिःसर्वैःदेवैःसह नु क्षिप्रं मे मदीयाः वाचः स्तुति- रूपाणिवचांसि उप अभिआयाहि आगच्छ एवंभूतमिन्द्रंपार्थयते ऎन्द्रत्वात्सूक्तस्य येदेवाः अग्निजिह्वाः अग्निर्जिह्वास्थानीयोयेषां ते ऋतसापः ऋतंयज्ञंस्पृशन्तःआसुर्भवन्ति येच देवाः दसायशत्रूणामुपक्षेपणाय मनु राजर्षिं उपरं दस्यूनामुपरिभवं चक्रुः कृतवन्तः तैः सहागच्छेतिपूर्वेणसंबन्धः ॥ ११ ॥

6.21.12
स नो᳚ बोधि पुरए॒ता सु॒गेषू॒त दु॒र्गेषु᳚ पथि॒कृद्विदा᳚नः ।
ये अश्र᳚मास उ॒रवो॒ वहि᳚ष्ठा॒स्तेभि᳚र्न इन्द्रा॒भि व᳚क्षि॒ वाज᳚म् ॥
▶ पदपाठः (Word-by-word)
सः । नः॒ । बो॒धि॒ । पु॒रः॒॑ए॒ता । सु॒॑गेषु᳚ । उ॒त । दुः॒॑गेषु᳚ । प॒थि॒॑कृत् । विदा᳚नः ।
ये । अश्र᳚मासः । उ॒रवः᳚ । वहि᳚ष्ठाः । तेभिः᳚ । नः॒ । इ॒न्द्र॒ । अ॒भि । व॒क्षि॒ । वाज᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र पथिकृद्वर्त्मनांकर्ता विदानः सर्वंविद्वान् सत्वं सुगेषु सुखेनगन्तव्येषु उतापिच दुर्गेषु दुःखेनगन्तव्येषुचमागेषु नोस्माकं पुरएता पुरोगन्ता बोधि भव बोधीतिभवतेर्लोण्मध्यमपुरुषैकवचनस्यछान्दसंरूपं अश्रमासः श्रमरहिताः उरवो महान्तः वहिष्टाः वोढृतमाः तव येअश्वाः सन्ति हेइन्द्र तेभिः तैरश्वैः नोस्मभ्यं वाजमन्नंअभिवक्षि अभिवह ॥ १२ ॥

यएकदित्येकादशर्चंसप्तमंसूक्तं भरद्वाजस्यार्षं त्रैष्टुभमैन्द्रं तथाचानुक्रान्तं—यएकइदेकादशेति आभिप्लविकेप्रथमेहनिदशरात्रस्यप्रथमे- हनिच माध्यंदिनसवने ब्राह्मणाच्छंसिशस्त्रे अहीनसूक्तस्यस्थाने त्रीणिसंपातसूक्तानि तेष्विदंद्वितीयंसूक्तं सूत्रितंच—यएकइद्यस्तिग्मश्रृंग- इति उपहव्यनाम्न्येकाहेपीदं निष्केवल्यनिविद्धानं सूत्रितंच—यएकइदिति मध्यंदिनइति ।