श्रवणम्

6.21.5
इ॒दा हि ते॒ वेवि᳚षतः पुरा॒जाः प्र॒त्नास᳚ आ॒सुः पु᳚रुकृ॒त्सखा᳚यः ।
ये म᳚ध्य॒मास᳚ उ॒त नूत᳚नास उ॒ताव॒मस्य᳚ पुरुहूत बोधि ॥
▶ पदपाठः (Word-by-word)
इ॒दा । हि । ते॒ । वेवि᳚षतः । पु॒रा॒॑जाः । प्र॒त्नासः᳚ । आ॒सुः । पु॒रु॒॑कृ॒त् । सखा᳚यः ।
ये । म॒ध्य॒मासः᳚ । उ॒त । नूत᳚नासः । उ॒त । अ॒व॒मस्य᳚ । पु॒रु॒॑हू॒त॒ । बो॒धि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पुराजाः पूर्वस्मिन्कालेजाताः प्रत्नासः पुराणाः अंगिरःप्रभृतयः इदाहि इदानीमिव हिशद्बउपमार्थेवर्तते वेविषतः कर्माणिप्राप्नुवन्तः हेपुरुकृत् बहूनांकर्मणांकर्तरिन्द्र ते तव सखायाः स्तोतारः आसुः बभूवुः येमध्यमासोमध्यमकालजाः उतापिच येनूतनासोद्यतनाः यत- स्तेपिसर्वे तेस्तोतारोबभूवुः अतः कारणात् उतापिच येनूतनासोद्यतनाः यतस्तेपिसर्वे तेस्तोतारोबभूवुः अतःकारणात् उतापिच अव- मस्यार्वाचीनस्य ममापिस्तोत्रं हेपुरुहूत बहुभिराहूतेन्द्र त्वंबोधि बुध्यस्व ॥ ५ ॥