षष्ठं मण्डलम् - सूक्तम् 11

6 ऋचः

ऋषिः: भरद्वाजो बार्हस्पत्यः देवता: अग्निः छन्दः: त्रिष्टुप्

सूक्तम् 6.11 - सम्पूर्णम्

1 / 6
ऋक्: 6.11.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
6.11.1
यज᳚स्व होतरिषि॒तो यजी᳚या॒नग्ने॒ बाधो᳚ म॒रुतां॒ न प्रयु᳚क्ति ।
आ नो᳚ मि॒त्रावरु᳚णा॒ नास᳚त्या॒ द्यावा᳚ हो॒त्राय᳚ पृथि॒वी व᳚वृत्याः ॥
▶ पदपाठः (Word-by-word)
यज᳚स्व । हो॒तः॒ । इ॒षि॒तः । यजी᳚यान् । अग्ने᳚ । बाधः᳚ । म॒रुता᳚म् । न । प्र॑यु᳚क्ति ।
आ । नः॒ । मि॒त्रावरु᳚णा । नास᳚त्या । द्यावा᳚ । हो॒त्राय᳚ । पृ॒थि॒वी इति᳚ । व॒वृ॒त्याः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेहोतर्देवानामाह्वातरग्ने यजीयान् यष्टृतमत्स्वं इषितः प्रेषितः अस्माभिःप्रार्थितःसन् नेतिसंप्रत्यर्थे संप्रतिप्रयुक्ति प्रयुक्तौ प्रयुज्यमा- नेयज्ञे मरुतां देवानां बाधः शत्रूणांबाधकंगणं ययस्व यद्वैतद्वाक्यद्वयं हेहोतरग्ने यजस्व देवानित्येकंवाक्यं प्रयुज्यतइतिप्रयुक्ति बलं मरुतां- नप्रयुक्ति मरुतांबलमिव अस्मच्छत्रून् बाधोबाधस्वेतिद्वितीयंवाक्यं अपिच मित्रावरुणा अहरभिमानीदेवोमित्रः वरुणोरात्र्यभिमानी तौच नासत्या सत्यस्यनेतारौ सत्यस्वभावावेववा नासिकाप्रभवौवा अश्विनौ द्यावापृथिवीदिवंचपृथिवींच एतांश्चदेवान् होत्राय अस्मद्य- ज्ञाय तदर्थं आववृत्याः आवर्तय आवहेत्यर्थः ॥ १ ॥

6.11.2 समानपद
त्वं होता᳚ म॒न्द्रत᳚मो नो अ॒ध्रुग॒न्तर्दे॒वो वि॒दथा॒ मर्त्ये᳚षु ।
पा॒व॒कया᳚ जु॒ह्वा॒३॒᳚ वह्नि᳚रा॒साग्ने॒ यज᳚स्व त॒न्वं१॒᳚ तव॒ स्वाम् ॥
▶ पदपाठः (Word-by-word)
त्वम् । होता᳚ । म॒न्द्र॑त᳚मः । नः॒ । अ॒ध्रुक् । अ॒न्तः । दे॒वः । वि॒दथा᳚ । मर्ते᳚षु ।
पा॒व॒कया᳚ । जु॒ह्वा᳚ । वह्निः᳚ । आ॒सा । अग्ने᳚ । यज᳚स्व । त॒न्व᳚म् । तव᳚ । स्वाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने त्वं मर्त्येषु मनुष्येषु अन्तर्मध्ये वर्तमाने विदथा विदथेयज्ञे होता देवानमाह्वाता भवसि कीदृशस्त्वं मन्द्रतमः स्तुत्यतमः नो- स्माकमध्रुक् अद्रोग्धा अस्मदर्थंद्रोहरहितोवा सर्वदामित्रभूतइत्यर्थः देवोदानादिगुणयुक्तः अपिच हेअग्ने जिह्वा हूयन्तेस्यामाहुतयइति जुहूर्ज्वाला तया पावकयाशोधयित्र्या आसा आस्येन देवानामास्यभूतया वह्निर्हविषांवोढात्वं तव स्वां स्वभूतां स्विष्टकृदाख्यां तन्वं तनूं यजस्व ॥ २ ॥

6.11.3
धन्या᳚ चि॒द्धि त्वे धि॒षणा॒ वष्टि॒ प्र दे॒वाञ्जन्म᳚ गृण॒ते यज᳚ध्यै ।
वेपि᳚ष्ठो॒ अङ्गि᳚रसां॒ यद्ध॒ विप्रो॒ मधु᳚ च्छ॒न्दो भन᳚ति रे॒भ इ॒ष्टौ ॥
▶ पदपाठः (Word-by-word)
धन्या᳚ । चि॒त् । हि । त्वे इति᳚ । धि॒षणा᳚ । वष्टि᳚ । प्र । दे॒वान् । जन्म᳚ । गृ॒ण॒ते । यज᳚ध्यै ।
वेपि᳚ष्ठः । अङ्गि᳚रसाम् । यत् । ह॒ । विप्रः᳚ । मधु᳚ । छ॒न्दः । भन᳚ति । रे॒भः । इ॒ष्टौ ॥
▶ सायणभाष्यम् (Sayana Commentary)

धन्या धनमिच्छन्ती धनहेतुभूताधिषणास्तुतिः हेअग्ने तेत्वां वष्टि कामयते चिद्धीत्येतत्पादपूरणं किमर्थं देवान्यष्टव्यानिन्द्रादीन् प्रय- जध्यै प्रकर्षेणयष्टुं त्वदीयंजन्मप्रादुर्भावं गृणते स्तुवतेयजमानाय ईदृग्भूतयजमानार्थं यद्ध यदाखलु अङ्गिरसामृषीणांमध्ये वेपिष्ठः अति- शयेन स्तुतेःप्रेरयिता विप्रोमेधावी रेभः स्तोताभरद्वाजः इष्टौ यज्ञे मधु मधुवन्मदकरं छन्दः स्तोत्रं भनति उच्चारयति तदाधिषणावष्टीत्य- न्वयः ॥ ३ ॥

6.11.4
अदि᳚द्युत॒त्स्वपा᳚को वि॒भावाग्ने॒ यज᳚स्व॒ रोद᳚सी उरू॒ची ।
आ॒युं न यं नम᳚सा रा॒तह᳚व्या अ॒ञ्जन्ति᳚ सुप्र॒यसं॒ पञ्च॒ जना᳚ः ॥
▶ पदपाठः (Word-by-word)
अदि᳚द्युतत् । सु । अपा᳚कः । वि॒भा॑वा᳚ । अग्ने᳚ । यज᳚स्व । रोद᳚सी॒ इति᳚ । उ॒रू॒ची इति᳚ ।
आ॒युम् । न । यम् । नम᳚सा । रा॒त॑ह᳚व्याः । अ॒ञ्जन्ति᳚ । सु॒॑प्र॒यस᳚म् । पञ्च᳚ । जनाः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमग्निः सुअदिद्युतत् सुष्ठुद्योतते दीप्यते कथंभूतः अपाकः पाकःपक्तव्यप्रज्ञोमूर्खः तद्विलक्षणोऽपाकः विभावा दीप्तिमान् शेषः प्रत्यक्षकृतः हेअग्ने सत्वं उरूची उरुविस्तीर्णंअञ्चत्यौ विस्तृते रोदसी द्यावापृथिव्यौ यजस्व ह्विषापूजय आयुंन मनुष्यमतिथिमिव यं पञ्चजनाःमनुष्याः ऋत्विग्यजमानलक्षणाः रतहव्याः द्त्तहविष्काःसन्तः सुप्रयसं शोभनहविर्लक्षणं यमग्निं नमसान्नेनहविर्लक्षणेन अञ्जन्ति सिञ्चन्तितर्पयन्ति सत्वं यजस्वेत्यन्वयः ॥ ४ ॥

6.11.5
वृ॒ञ्जे ह॒ यन्नम᳚सा ब॒र्हिर॒ग्नावया᳚मि॒ स्रुग्घृ॒तव᳚ती सुवृ॒क्तिः ।
अम्य᳚क्षि॒ सद्म॒ सद᳚ने पृथि॒व्या अश्रा᳚यि य॒ज्ञः सूर्ये॒ न चक्षु᳚ः ॥
▶ पदपाठः (Word-by-word)
वृ॒ञ्जे । ह॒ । यत् । नम᳚सा । ब॒र्हिः । अ॒ग्नौ । अया᳚मि । स्रुक् । घृ॒त॑व᳚ती । सु॒॑वृ॒क्तिः ।
अम्य᳚क्षि । सद्म᳚ । सद᳚ने । पृ॒थि॒व्याः । अश्रा᳚यि । य॒ज्ञः । सूर्ये᳚ । न । चक्षुः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यद्ध यदाखलु नमसा हविषासह अग्नौ अग्निसमीपे बर्हिर्वृञ्जे वृजिश्छेदनार्थः छिद्यते आह्रियतइत्यर्थः सुवृक्तिः सुष्ठुदोषैर्वर्जिता घृतवती घृतपूर्णास्रुक् अयामि नियम्यते बर्हिष्यासाद्यते तथा पृथिव्याभूमेः सदने स्थाने सद्महविरासादनार्थावेदिः अम्यक्षि म्यक्षतिर्गतिकर्मा गम्यते परिगृह्यते तदानींयज्ञः अश्रायि यजमानेआश्रितोभवति तत्रदृष्टान्तः—सूर्येनचक्षुः यथा सूर्येसर्वस्यप्रेरकेआदित्येप्रकाशकंतेजः सम- वैतितद्वत् ॥ ५ ॥

6.11.6
द॒श॒स्या नः᳚ पुर्वणीक होतर्दे॒वेभि᳚रग्ने अ॒ग्निभि᳚रिधा॒नः ।
रा॒यः सू᳚नो सहसो वावसा॒ना अति᳚ स्रसेम वृ॒जनं॒ नांहः᳚ ॥
▶ पदपाठः (Word-by-word)
द॒श॒स्य । नः॒ । पु॒रु॒॑अ॒नी॒क॒ । हो॒तः॒ । दे॒वेभिः᳚ । अ॒ग्ने॒ । अ॒ग्नि॑भिः᳚ । इ॒धा॒नः ।
रा॒यः । सू॒नो॒ इति᳚ । स॒ह॒सः॒ । व॒व॒सा॒नाः । अति᳚ । स्र॒से॒म॒ । वृ॒जन᳚म् । न । अंहः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेपुर्वणीक बहुज्वाल होतर्देवानामाह्वातरग्ने देवेभिर्देवैर्द्योतमानैः अन्यैरग्निभिःत्वद्विभूतिभूतैःसार्धं इधानः इध्यमानोदीप्यमानःसन् नोस्मभ्यं रायोधनानि दशस्य प्रयच्छ हेसहसः सूनो बलस्यपुत्राग्ने वावसानाः हविषात्वामाच्छादयन्तोवयं वृजनंन शत्रुमिव अंहः पापं अतिस्रसेम अतिगच्छेम अतिक्रामेमेत्यर्थः ॥ ६ ॥

मध्येहोतेतिषळृचंद्वादशंसूक्तं भरद्वाजस्यार्षं त्रैष्टुभमाग्नेयं मध्यइत्यनुक्रान्तं प्रातरनुवाकाश्विनशस्त्रयोरुक्तोविनियोगः ।