श्रवणम्

6.11.2 समानपद
त्वं होता᳚ म॒न्द्रत᳚मो नो अ॒ध्रुग॒न्तर्दे॒वो वि॒दथा॒ मर्त्ये᳚षु ।
पा॒व॒कया᳚ जु॒ह्वा॒३॒᳚ वह्नि᳚रा॒साग्ने॒ यज᳚स्व त॒न्वं१॒᳚ तव॒ स्वाम् ॥
▶ पदपाठः (Word-by-word)
त्वम् । होता᳚ । म॒न्द्र॑त᳚मः । नः॒ । अ॒ध्रुक् । अ॒न्तः । दे॒वः । वि॒दथा᳚ । मर्ते᳚षु ।
पा॒व॒कया᳚ । जु॒ह्वा᳚ । वह्निः᳚ । आ॒सा । अग्ने᳚ । यज᳚स्व । त॒न्व᳚म् । तव᳚ । स्वाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने त्वं मर्त्येषु मनुष्येषु अन्तर्मध्ये वर्तमाने विदथा विदथेयज्ञे होता देवानमाह्वाता भवसि कीदृशस्त्वं मन्द्रतमः स्तुत्यतमः नो- स्माकमध्रुक् अद्रोग्धा अस्मदर्थंद्रोहरहितोवा सर्वदामित्रभूतइत्यर्थः देवोदानादिगुणयुक्तः अपिच हेअग्ने जिह्वा हूयन्तेस्यामाहुतयइति जुहूर्ज्वाला तया पावकयाशोधयित्र्या आसा आस्येन देवानामास्यभूतया वह्निर्हविषांवोढात्वं तव स्वां स्वभूतां स्विष्टकृदाख्यां तन्वं तनूं यजस्व ॥ २ ॥