अदि᳚द्युत॒त्स्वपा᳚को वि॒भावाग्ने॒ यज᳚स्व॒ रोद᳚सी उरू॒ची ।
आ॒युं न यं नम᳚सा रा॒तह᳚व्या अ॒ञ्जन्ति᳚ सुप्र॒यसं॒ पञ्च॒ जना᳚ः ॥
आ॒युं न यं नम᳚सा रा॒तह᳚व्या अ॒ञ्जन्ति᳚ सुप्र॒यसं॒ पञ्च॒ जना᳚ः ॥
पदपाठः (Word-by-word)
अदि᳚द्युतत् । सु । अपा᳚कः । वि॒भा॑वा᳚ । अग्ने᳚ । यज᳚स्व । रोद᳚सी॒ इति᳚ । उ॒रू॒ची इति᳚ ।
आ॒युम् । न । यम् । नम᳚सा । रा॒त॑ह᳚व्याः । अ॒ञ्जन्ति᳚ । सु॒॑प्र॒यस᳚म् । पञ्च᳚ । जनाः᳚ ॥
आ॒युम् । न । यम् । नम᳚सा । रा॒त॑ह᳚व्याः । अ॒ञ्जन्ति᳚ । सु॒॑प्र॒यस᳚म् । पञ्च᳚ । जनाः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
अयमग्निः सुअदिद्युतत् सुष्ठुद्योतते दीप्यते कथंभूतः अपाकः पाकःपक्तव्यप्रज्ञोमूर्खः तद्विलक्षणोऽपाकः विभावा दीप्तिमान् शेषः प्रत्यक्षकृतः हेअग्ने सत्वं उरूची उरुविस्तीर्णंअञ्चत्यौ विस्तृते रोदसी द्यावापृथिव्यौ यजस्व ह्विषापूजय आयुंन मनुष्यमतिथिमिव यं पञ्चजनाःमनुष्याः ऋत्विग्यजमानलक्षणाः रतहव्याः द्त्तहविष्काःसन्तः सुप्रयसं शोभनहविर्लक्षणं यमग्निं नमसान्नेनहविर्लक्षणेन अञ्जन्ति सिञ्चन्तितर्पयन्ति सत्वं यजस्वेत्यन्वयः ॥ ४ ॥