श्रवणम्

6.11.3
धन्या᳚ चि॒द्धि त्वे धि॒षणा॒ वष्टि॒ प्र दे॒वाञ्जन्म᳚ गृण॒ते यज᳚ध्यै ।
वेपि᳚ष्ठो॒ अङ्गि᳚रसां॒ यद्ध॒ विप्रो॒ मधु᳚ च्छ॒न्दो भन᳚ति रे॒भ इ॒ष्टौ ॥
▶ पदपाठः (Word-by-word)
धन्या᳚ । चि॒त् । हि । त्वे इति᳚ । धि॒षणा᳚ । वष्टि᳚ । प्र । दे॒वान् । जन्म᳚ । गृ॒ण॒ते । यज᳚ध्यै ।
वेपि᳚ष्ठः । अङ्गि᳚रसाम् । यत् । ह॒ । विप्रः᳚ । मधु᳚ । छ॒न्दः । भन᳚ति । रे॒भः । इ॒ष्टौ ॥
▶ सायणभाष्यम् (Sayana Commentary)

धन्या धनमिच्छन्ती धनहेतुभूताधिषणास्तुतिः हेअग्ने तेत्वां वष्टि कामयते चिद्धीत्येतत्पादपूरणं किमर्थं देवान्यष्टव्यानिन्द्रादीन् प्रय- जध्यै प्रकर्षेणयष्टुं त्वदीयंजन्मप्रादुर्भावं गृणते स्तुवतेयजमानाय ईदृग्भूतयजमानार्थं यद्ध यदाखलु अङ्गिरसामृषीणांमध्ये वेपिष्ठः अति- शयेन स्तुतेःप्रेरयिता विप्रोमेधावी रेभः स्तोताभरद्वाजः इष्टौ यज्ञे मधु मधुवन्मदकरं छन्दः स्तोत्रं भनति उच्चारयति तदाधिषणावष्टीत्य- न्वयः ॥ ३ ॥