षष्ठं मण्डलम् - सूक्तम् 17

15 ऋचः

ऋषिः: भरद्वाजो बार्हस्पत्यः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 6.17 - सम्पूर्णम्

1 / 15
ऋक्: 6.17.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (15)
6.17.1
पिबा॒ सोम᳚म॒भि यमु᳚ग्र॒ तर्द᳚ ऊ॒र्वं गव्यं॒ महि᳚ गृणा॒न इ᳚न्द्र ।
वि यो धृ᳚ष्णो॒ वधि᳚षो वज्रहस्त॒ विश्वा᳚ वृ॒त्रम᳚मि॒त्रिया॒ शवो᳚भिः ॥
▶ पदपाठः (Word-by-word)
पिब᳚ । सोम᳚म् । अ॒भि । यम् । उ॒ग्र॒ । तर्दः᳚ । ऊ॒र्वम् । गव्य᳚म् । महि᳚ । गृ॒णा॒नः । इ॒न्द्र॒ ।
वि । यः । धृ॒ष्णो॒ इति᳚ । वधि᳚षः । व॒ज्र॒॑ह॒स्त॒ । विश्वा᳚ । वृ॒त्रम् । अ॒मि॒त्रिया᳚ । शवः᳚॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्यनिःश्वसितंवेदायोवेदेभ्योखिलंजगत् । निर्ममेतमहंवन्देविद्यातीर्थमहेश्वरम् ॥ १ ॥

चतुर्थाष्टकेषष्ठोध्यायआरभ्यते षष्ठेमंडलेद्वितीयेनुवाकेप्रथमंसूक्तंव्याख्यातं तत्रपिबासोम मितिपंचदशर्चंद्वितीयंसूक्तं भरद्वाजस्यार्षं त्रै- ष्टुभमैन्द्रमंत्याद्विपदात्रिष्टुप् तथाचानुक्रान्तं—पिबपंचोनैन्द्रं त्रैष्टुभंद्विपदान्तमिति । अभिजितिमरुत्वतीयशस्त्रे एतन्निविद्धनं सूत्रि- तंच—पिबासोमंतमुष्टुहीतिमध्यंदिनइति । समूह्ळेदशरात्रेष्टमेहनिमरुत्वतीयशस्त्रेएतत्सूक्तं सूत्रितंच—पिबासोममभितमस्यद्यावा- पृथिवीइति । सूर्यस्तुन्नाम्न्येकाहेमरुत्वतीयीतत्सूक्तंनिविद्धानं सूत्र्यतेहि—सूर्यस्तुतायशस्कामः पिबासोममभीति । महाव्रतेपिमरुत्व- तीयीतत्सूक्तं तथैवपंचमारण्यकेसूत्रितंच—पिबासोममभियमुग्रतर्दः कयाशुभासवयसः सनीळाइति माध्यन्दिनसवनेआद्यास्तिस्रोहोतृ- मैत्रावरुणब्राह्मणाच्छंसिनांप्रस्थितयाज्याः सूत्रितंच—पिबासोममभियमुग्रतर्दइति । तिस्रोर्वाङेहिसोमकामंत्वाहुरिति ।

हेउग्र उद्रूर्णबलेन्द्र गृणानः अंगिरोभिःस्तूयमानस्त्वं यंसोममभिउद्दिश्य पातुमित्यर्थः महि महत् गव्यं गोसंबन्धि ऊर्वं पणिभिराहृतं- समूहं तर्दः प्रकाशितवानसितृदिर्हिंसाकर्मा अत्रप्रकाशनार्थः तंसोमंपिब पानंकुरु हेधृष्णोशत्रूणांधर्षक वज्रहस्त वज्रपाणे हेइन्द्र यस्त्वंश- षोभिर्बलैःसहितः सन् विश्वा विश्वं वृत्रं आवरकं अमित्रिया अमित्रियंशत्रुं अमित्रशब्दात् द्वितीयैकवचनस्येयादेशः विवधिषः व्यवधीः सत्वं सोमंपिबेतिसंबन्धः ॥ १ ॥

6.17.2 समानपद
स ईं᳚ पाहि॒ य ऋ᳚जी॒षी तरु᳚त्रो॒ यः शिप्र᳚वान्वृष॒भो यो म᳚ती॒नाम् ।
यो गो᳚त्र॒भिद्व᳚ज्र॒भृद्यो ह᳚रि॒ष्ठाः स इ᳚न्द्र चि॒त्रा{4} अ॒भि तृ᳚न्धि॒ वाजा᳚न् ॥
▶ पदपाठः (Word-by-word)
सः । ई॒म् । पा॒हि॒ । यः । ऋ॒जी॒षी । तरु᳚त्रः । यः । शिप्र᳚॑वान् । वृ॒ष॒भः । यः । म॒ती॒नाम् ।
यः । गो॒त्र॒॑भित् । व॒ज्र॒॑भृत् । यः । ह॒रि॒॑स्थाः । सः । इ॒न्द्र॒ । चि॒त्रान् । अ॒भि । तृ॒न्धि॒ । वाजा᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र ऋजीषी ऋजीषशब्देनगतरसःसोमोभिधीयते तद्वान् यस्त्वं तरुत्रः शत्रूणांतारकोसि यस्त्वं शिप्रवान् शोभनहनुरसि यस्त्वं मतीनां स्तोतॄणां मन्यतेःस्तुतिकर्मणःकर्तरिक्तिच् वृषभः कामानांवर्षितासि सत्वं ईं एनं सोमं पाहि पिब हेइन्द्र यस्त्वं वज्रभृत् वज्रधरो- यस्त्वंगोत्रभित् गोत्राणांपर्वतानांमेघानांवाभेत्तासि यस्त्वं हरिष्ठाः हर्योःस्थातासि हेइन्द्र सत्वं चित्रान् विचित्रान् वाजानन्नानि अभितृ- न्धि अस्मभ्यंप्रकाशय ॥ २ ॥

6.17.3
ए॒वा पा᳚हि प्र॒त्नथा॒ मन्द᳚तु त्वा श्रु॒धि ब्रह्म᳚ वावृ॒धस्वो॒त गी॒र्भिः ।
आ॒विः सूर्यं᳚ कृणु॒हि पी᳚पि॒हीषो᳚ ज॒हि शत्रू{4}᳚र॒भि गा इ᳚न्द्र तृन्धि ॥
▶ पदपाठः (Word-by-word)
ए॒व । पा॒हि॒ । प्र॒त्न॑था᳚ । मन्द᳚तु । त्वा॒ । श्रु॒धि । ब्रह्म᳚ । व॒वृ॒धस्व᳚ । उ॒त । गीः॒॑भिः ।
आ॒विः । सूर्य᳚म् । कृ॒णु॒हि । पी॒पि॒हि । इषः᳚ । ज॒हि । शत्रू᳚न् । अ॒भि । गाः । इ॒न्द्र॒ । तृ॒न्धि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्रत्वं प्रत्नथा प्रत्नान्पुराणान्सोमान् यथाअपिबः तथा एवएवमिममस्मदीयंसोमं पाहि पिब सच सोमस्त्वयापीतःसन् त्वा त्वां म- न्दतु मदयतु ब्रह्म अस्माभिःकृतं स्तोत्रं श्रुधि श्रृणु उतापिच गीर्भिः स्तुतिरूपाभिर्वाग्भिर्ववृधस्व त्वंवर्धस्व अपिच सूर्यं सर्वस्यप्रेरकं देवं आविष्कृणुहि आविष्कुरु वयंसूर्यंयथापश्येम तथाकुर्वित्यर्थः इषः अन्नानिच पीपिहि अस्मभ्यंप्यायय शत्रूनस्मपत्नान् जहि नाशय हेइन्द्र त्वंपणिभिरपहृतागाः अभितृन्धि प्रकाशय ॥ ३ ॥

6.17.4
ते त्वा॒ मदा᳚ बृ॒हदि᳚न्द्र स्वधाव इ॒मे पी॒ता उ᳚क्षयन्त द्यु॒मन्त᳚म् ।
म॒हामनू᳚नं त॒वसं॒ विभू᳚तिं मत्स॒रासो᳚ जर्हृषन्त प्र॒साह᳚म् ॥
▶ पदपाठः (Word-by-word)
ते । त्वा॒ । मदाः᳚ । बृ॒हत् । इ॒न्द्र॒ । स्व॒धा॒॑वः॒ । इ॒मे । पी॒ताः । उ॒क्ष॒य॒न्त॒ । द्यु॒॑मन्त᳚म् ।
म॒हाम् । अनू᳚नम् । त॒वस᳚म् । वि॑भू᳚तिम् । म॒त्स॒रासः᳚ । ज॒र्हृ॒ष॒न्त॒ । प्र॒॑सह᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेस्वधावः अन्नवन्निन्द्र मदाः मदकराः तइमेपीताःसोमाः द्युमन्तं दीप्तिमन्तं त्वा त्वां बृहदत्यन्तं उक्षयन्त सिंचयन्तु अपिच हेइन्द्र त्वां मत्सरासोमदकराः सोमाः जर्हृषन्त भृशंहर्षयन्तु कीदृशं महां महान्तं प्रभूतं अनूनं सर्वगुणैर्न्युनतारहितं संपूर्णमित्यर्थः तवसं प्रवृद्धं विभूतिं विभवन्तं प्रसाहं शत्रूणामभिभवितारं ॥ ४ ॥

6.17.5
येभि॒ः सूर्य᳚मु॒षसं᳚ मन्दसा॒नो॑वा᳚स॒यो॑प᳚ दृ॒ळ्हानि॒ दर्द्र᳚त् ।
म॒हामद्रिं॒ परि॒ गा इ᳚न्द्र॒ सन्तं᳚ नु॒त्था अच्यु᳚तं॒ सद᳚स॒स्परि॒ स्वात् ॥
▶ पदपाठः (Word-by-word)
येभिः᳚ । सूर्य᳚म् । उ॒षस᳚म् । म॒न्द॒सा॒नः । अवा᳚सयः । अप᳚ । दृ॒ळ्हानि᳚ । दर्द्र᳚त् ।
म॒हाम् । अद्रि᳚म् । परि᳚ । गाः । इ॒न्द्र॒ । सन्त᳚म् । नु॒त्थाः । अच्यु᳚तम् । सद᳚सः । परि᳚ । स्वात् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र येभिः यैः सोमैः मन्दसानोमोदमानस्त्वं सूर्यं सर्वस्वगोरकं देवं उषसमुषोदेवतांच अवासयः स्वस्थानेन्यवासयः अथवा सूर्योष- सौ यथा तमांसिविवासयतस्तथाकार्षीः किंकुर्वन् दृह्ळानि दृढानि तमांसि अपदर्द्रदपदारयन् किंच हेइन्द्र त्वं पणिभिरपहृतागाः परि- संतं परितोविद्यमानं महां महान्तं अद्रिं पर्वतं नुत्थाः अनुदः कीदृशं स्वात् स्वकीयात् सदसः स्थानात् परि परितः अच्युतं अविचालितं विनाशरहितं स्थिरमित्यर्थः ॥ ५ ॥

6.17.6 समानपद
तव॒ क्रत्वा॒ तव॒ तद्दं॒सना᳚भिरा॒मासु᳚ प॒क्वं शच्या॒ नि दी᳚धः ।
और्णो॒र्दुर᳚ उ॒स्रिया᳚भ्यो॒ वि दृ॒ळ्होदू॒र्वाद्गा अ᳚सृजो॒ अङ्गि᳚रस्वान् ॥
▶ पदपाठः (Word-by-word)
तव᳚ । क्रत्वा᳚ । तव᳚ । तत् । दं॒सना᳚भिः । आ॒मासु᳚ । प॒क्वम् । शच्या᳚ । नि । दी॒ध॒रिति᳚ दीधः ।
और्णोः᳚ । दुरः᳚ । उ॒स्रिया᳚भ्यः । वि । दृ॒ळ्हा । उत् । ऊ॒र्वात् । गाः । अ॒सृ॒जः॒ । अङ्गि᳚रस्वान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र तवक्रत्वा त्वदीययाप्रज्ञया तवदंसनाभिः त्वदीयैःकर्मभिः शच्या सामर्थ्येन आमासु अपक्वासुगोषु पक्वं परिणतं तत्प्रसिद्धंपयः निदीधः नितरांधारयसिअपिच हेइन्द्र त्वं उस्त्रियाभ्योगोभ्यः गानिर्गमयितुमित्यर्थः दृह्ळा दृढानि बलेनपाषाणादिभिर्दृढीकृतानीत्यर्थः दुरोद्वाराणि व्यौर्णोः उद्घाटितवानसि अंगिरस्वान् अंगिरोभिर्युक्तरस्त्वं ऊर्वात् समूहात् गोष्ठादित्यर्थः गाः उदसृजः उदगमयः ॥ ६ ॥

6.17.7
प॒प्राथ॒ क्षां महि॒ दंसो॒ व्यु१॒᳚र्वीमुप॒ द्यामृ॒ष्वो बृ॒हदि᳚न्द्र स्तभायः ।
अधा᳚रयो॒ रोद᳚सी दे॒वपु᳚त्रे प्र॒त्ने मा॒तरा᳚ य॒ह्वी ऋ॒तस्य᳚ ॥
▶ पदपाठः (Word-by-word)
प॒प्राथ᳚ । क्षाम् । महि᳚ । दंसः᳚ । वि । उ॒र्वीम् । उप᳚ । द्याम् । ऋ॒ष्वः । बृ॒हत् । इ॒न्द्र॒ । स्त॒भा॒यः॒ ।
अधा᳚रयः । रोद᳚सी॒ इति᳚ । दे॒वपु᳚त्रे॒ इति᳚ दे॒व॑पु᳚त्रे । प्र॒त्ने इति᳚ । मा॒तरा᳚ । य॒ह्वी इति᳚ । ऋ॒तस्य᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र त्वं महि महता दंसः दंससा कर्मणा उर्वीं विस्तीर्णां क्षां भूमिं विपप्राथविशेषेण पूरितवानसि प्रापूरणेइतिधातुः हेइन्द्र ऋष्वो- महांस्त्वं बृहत् बृहतीं द्यां दिवं उपस्तभायः उपस्तभ्नासि निरालंबं वितिष्ठन्तीद्यौः यथानपतति इन्द्रस्तथाकारोतीत्यर्थः अपिच त्वं रोदसी द्यावापृथिव्यौ अधारयः षोषणैर्धारयसि कीदृश्यौ देवपुत्रे देवाःपुत्राययोस्ते प्रत्ने पुराणे मातरा मातरौनिर्मात्र्यौ ऋतस्योदकस्य यज्ञस्यवा यह्वी यह्व्यौमहत्यौ यद्वा विश्वस्यमातरौ ऋतस्य ब्रह्मणः यह्वी पुत्र्यौ यहुरित्यपत्यनामैतत् ॥ ७ ॥

6.17.8
अध᳚ त्वा॒ विश्वे᳚ पु॒र इ᳚न्द्र दे॒वा एकं᳚ त॒वसं᳚ दधिरे॒ भरा᳚य ।
अदे᳚वो॒ यद॒भ्यौहि᳚ष्ट दे॒वान्त्स्व᳚र्षाता वृणत॒ इन्द्र॒मत्र᳚ ॥
▶ पदपाठः (Word-by-word)
अध᳚ । त्वा॒ । विश्वे᳚ । पु॒रः । इ॒न्द्र॒ । दे॒वाः । एक᳚म् । त॒वस᳚म् । द॒धि॒रे॒ । भरा᳚य ।
अदे᳚वः । यत् । अ॒भि । औहि᳚ष्ट । दे॒वान् । स्वः᳚॑साता । वृ॒ण॒ते॒ । इन्द्र᳚म् । अत्र᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अधाधुनास्मिन्काले विश्वेदेवाः सर्वेवह्न्यादयः हेइन्द्र एकं मुख्यं तवसं प्रवृद्धं बलवन्तं त्वा त्वां भराय संग्रामाय पुरोदधिरे पुरस्ताच्च- क्रिरे यद्यदा अदेवोवृत्रासुरः देवान् अभ्यौहिष्ट संग्रामार्थंअभिगतवान् ओहतिर्गतिकर्मा किंच अत्रास्मिन्काले स्वर्षाता स्वर्पातौ संग्रामेदे- वामरुतइतिशेषः इन्द्रं वृणते संभजन्ते स्म मरुतोहीन्द्रंदेवेषुपलायितेषुसमभजन्नित्यर्थः अधुना पुरोदधिरेइतिसंबन्धः ॥ ८ ॥

6.17.9
अध॒ द्यौश्चि᳚त्ते॒ अप॒ सा नु वज्रा᳚द्द्वि॒तान᳚मद्भि॒यसा॒ स्वस्य᳚ म॒न्योः ।
अहिं॒ यदिन्द्रो᳚ अ॒भ्योह᳚सानं॒ नि चि᳚द्वि॒श्वायु᳚ः श॒यथे᳚ ज॒घान᳚ ॥
▶ पदपाठः (Word-by-word)
अध᳚ । द्यौः । चि॒त् । ते॒ । अप᳚ । सा । नु । वज्रा᳚त् । द्वि॒ता । अ॒न॒म॒त् । भि॒यसा᳚ । स्वस्य᳚ । म॒न्योः ।
अहि᳚म् । यत् । इन्द्रः᳚ । अ॒भि । ओह᳚सानम् । नि । चि॒त् । वि॒श्व॑आ᳚युः । श॒यथे᳚ । ज॒घान᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

साप्रसिद्धा देवानामाश्रयत्वेन द्यौश्चित् द्युलोकोपि हेइन्द्र अधाधुनास्मिन् काले द्विता द्विधा द्विप्रकारात् तेत्वदीयाद्वज्रात् स्वस्यात्मी- यात् मन्योः क्रोधाच्च भियसा भयेन अपानमत् अपननाम नुइतिपूरणः विश्वयुर्बह्वन्नइन्द्रः यद्यदा अभ्योहसानमभिगच्छन्तं अहिं वृत्रं शयथे शयननिमित्ते मरणायेत्यर्थः जघान न्यवधीत् चिदितिपूरणः यदा वृत्रंजघान अस्मिन्कालेद्यौर्ननामेतिसंबन्धः ॥ ९ ॥

6.17.10
अध॒ त्वष्टा᳚ ते म॒ह उ᳚ग्र॒ वज्रं᳚ स॒हस्र᳚भृष्टिं ववृतच्छ॒ताश्रि᳚म् ।
निका᳚मम॒रम᳚णसं॒ येन॒ नव᳚न्त॒महिं॒ सं पि᳚णगृजीषिन् ॥
▶ पदपाठः (Word-by-word)
अध᳚ । त्वष्टा᳚ । ते॒ । म॒हः । उ॒ग्र॒ । वज्र᳚म् । स॒हस्र᳚॑भृष्टिम् । व॒वृ॒त॒त् । श॒त॑अ᳚श्रिम् ।
नि॑का᳚मम् । अ॒र॑म᳚नसम् । येन᳚ । नव᳚न्तम् । अहि᳚म् । सम् । पि॒ण॒क् । ऋ॒जी॒षि॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अधाधुना हेउग्र उद्गूर्णबलेन्द्र महोमहतस्तव त्वष्टा देवशिल्पी वज्रं ववृतत् न्यवर्तयत् निष्पन्नंकृतवान् कीदृशं सहस्रभृष्टिं सहस्रधारं शताश्रिं शतपर्वाणं हेऋजीषिन् गतरससोमवन्निन्द्र येनवज्रेण निकामं नियतःकामोयस्यतं अरमनसं शत्रूणामरमभिगन्तृमनोयस्यतं नवन्तं शब्दायमानं अहिं वृत्रमसुरं संपिणक् संपिष्टवानसि तंवज्रंकृतवानित्यर्थः ॥ १० ॥

6.17.11
वर्धा॒न्यं विश्वे᳚ म॒रुतः᳚ स॒जोषा॒ः पच᳚च्छ॒तं म᳚हि॒षा{4} इ᳚न्द्र॒ तुभ्य᳚म् ।
पू॒षा विष्णु॒स्त्रीणि॒ सरां᳚सि धावन्वृत्र॒हणं᳚ मदि॒रमं॒शुम᳚स्मै ॥
▶ पदपाठः (Word-by-word)
वर्धा᳚न् । यम् । विश्वे᳚ । म॒रुतः᳚ । स॒॑जोषाः᳚ । पच᳚त् । श॒तम् । म॒हि॒षान् । इ॒न्द्र॒ । तुभ्य᳚म् ।
पू॒षा । विष्णुः᳚ । त्रीणि᳚ । सरां᳚सि । धा॒व॒न् । वृ॒त्र॒॑हन᳚म् । म॒दि॒रम् । अं॒शुम् । अ॒स्मै॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सजोषाः सहप्रीयमाणाः विश्वे मरुतः सर्वेदेवाः हेइन्द्र यंत्वां वर्धान् स्तोत्रैर्वर्धयन्ति हेइन्द्र तस्मैतुभ्यं पूषा एतन्नामकोदेवः विष्णुरेत- न्नामकश्च शतं शतसंख्याकान् महिषान् पुंपशून् पचत् पचेत् अपिच अस्मै तुभ्यं सरांसि द्रोणकलशपूतभृदाहवनीयानित्रीणिपात्राणिपू- रयितुं अंशुं सोमं धावन् गच्छन् भवति पूषाविष्णुश्च सोमैः पात्राणि पूर्यंतइत्यर्थः कीदृशं सोमं मदिरं मदकरं बृत्रहणं वृत्राणांशत्रूणांह- न्तारं अत्र वृत्रहन् शब्देन सोमोभिधीयते पीतेहिसतिसोमे वृत्राणिहन्तुमिन्द्रः समर्थोभवतीतियावत् ॥ ११ ॥

6.17.12
आ क्षोदो॒ महि᳚ वृ॒तं न॒दीनां॒ परि᳚ष्ठितमसृज ऊ॒र्मिम॒पाम् ।
तासा॒मनु᳚ प्र॒वत᳚ इन्द्र॒ पन्थां॒ प्रार्द᳚यो॒ नीची᳚र॒पसः᳚ समु॒द्रम् ॥
▶ पदपाठः (Word-by-word)
आ । क्षोदः᳚ । महि᳚ । वृ॒तम् । न॒दीना᳚म् । परि᳚॑स्थितम् । अ॒सृ॒जः॒ । ऊ॒र्मिम् । अ॒पाम् ।
तासा᳚म् । अनु᳚ । प्र॒॑वतः᳚ । इ॒न्द्र॒ । पन्था᳚म् । प्र । आ॒र्द॒यः॒ । नीचीः᳚ । अ॒पसः᳚ । स॒मु॒द्रम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र त्वं महि महत् वृतं वृत्रेण परिवृतमाच्छादितं परिष्ठितं परितःस्थितं नदीनां सिन्धूनां संबन्धि क्षोदः उदकं आअसृजः आसम- न्तात्सृष्टवानसि येननद्यःपूर्णाःप्रवहेयुःतदित्यर्थः अपामुदकानामूर्मिं समूहं सृष्टवानसि पुनर्वचनमादरार्थं हेइन्द्र तासांनदीनां संबन्धिनः पंथां पथोमार्गान्प्रवतःप्रवणानन्वकार्षीरितिशेषः अन्वित्युपसर्गयोग्यक्रियाध्याहारः किंच नीचीः प्रवणाभिमुखीर्वेगयुक्ताइत्यर्थः अपसो- पउदकानिअपसइत्यपएवार्थेवर्तते समुद्रमुदधिं प्रार्दयः प्रागमयः अत्रार्दयतिर्नयनकर्मा ॥ १२ ॥

6.17.13 समानपद
ए॒वा ता विश्वा᳚ चकृ॒वांस॒मिन्द्रं᳚ म॒हामु॒ग्रम᳚जु॒र्यं स᳚हो॒दाम् ।
सु॒वीरं᳚ त्वा स्वायु॒धं सु॒वज्र॒मा ब्रह्म॒ नव्य॒मव᳚से ववृत्यात् ॥
▶ पदपाठः (Word-by-word)
ए॒व । ता । विश्वा᳚ । च॒कृ॒॑वांस᳚म् । इन्द्र᳚म् । म॒हाम् । उ॒ग्रम् । अ॒जु॒र्यम् । स॒हः॒॑दाम् ।
सु॒॑वीर᳚म् । त्वा॒ । सु॒॑आ॒यु॒धम् । सु॒॑वज्र᳚म् । आ । ब्रह्म᳚ । नव्य᳚म् । अव᳚से । व॒वृ॒त्या॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र त्वा त्वां नव्यं नूतनमन्यैरकृतपूर्वं ब्रह्म अस्माभिःकृतंस्तोत्रं अवसेअस्माकंरक्षणाय आववृत्यात् आवर्तयतु कीदृशंत्वां एव एवमु- क्तप्रकारेण ता तानिप्रसिद्धानि विश्वा विश्वानिसर्वाणिकर्माणि चकृवांसं कृतवन्तमिन्द्रमीश्वरं महां महान्तं उग्रमोजस्विनं अजुर्यमजरं सहोदां सहसोबलस्यदातारं सुवीरं शोभ्नवीरामरुतोयस्यतं स्वायुधंशोभनायुधं सुवज्रं शोभनवज्रोपेतं ॥ १३ ॥

6.17.14 समानपद
स नो॒ वाजा᳚य॒ श्रव᳚स इ॒षे च᳚ रा॒ये धे᳚हि द्यु॒मत᳚ इन्द्र॒ विप्रा᳚न् ।
भ॒रद्वा᳚जे नृ॒वत᳚ इन्द्र सू॒रीन्दि॒वि च᳚ स्मैधि॒ पार्ये᳚ न इन्द्र ॥
▶ पदपाठः (Word-by-word)
सः । नः॒ । वाजा᳚य । श्रव᳚से । इ॒षे । च॒ । रा॒ये । धे॒हि॒ । द्यु॒॑मतः᳚ । इ॒न्द्र॒ । विप्रा᳚न् ।
भ॒रत्॑वा᳚जे । नृ॒॑वतः᳚ । इ॒न्द्र॒ । सू॒रीन् । दि॒वि । च॒ । स्म॒ । ए॒धि॒ । पार्ये᳚ । नः॒ । इ॒न्द्र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र सत्वं द्युमतोदीप्तिमतः विप्रान्मेधाविनोस्मान् वाजाय बलाय श्रवसे यशसे इषेचान्नायच राये धनाय धेहिधारय अपिच हेइन्द्र भरद्वाजेमयि नृवतोमनुष्यवतः परिचारकयुक्तानित्यर्थः सूरीन् तवस्तोतॄन् पुत्रपौत्रान्कुर्वितिशेषः हेइन्द्र त्वं पार्ये पारणीये आगामिनिच दिविदिवसे एधिस्म नोस्माकंरक्षिताखलुभवेत्यर्थः ॥ १४ ॥ षष्ठोनितृतीयसवनेब्राह्मणाच्छंसिशस्त्रे अनुरूपतृचस्य अयावाजमितितृतीया सूत्रितंच—अयावाजंदेवहितंसनेमेतिस्तोत्रियानरूपा- विति ।

6.17.15
अ॒या वाजं᳚ दे॒वहि᳚तं सनेम॒ मदे᳚म श॒तहि᳚माः सु॒वीरा᳚ः ॥
▶ पदपाठः (Word-by-word)
अ॒या । वाज᳚म् । दे॒व॑हि᳚तम् । स॒ने॒म॒ । मदे᳚म । श॒त॑हि᳚माः । सु॒॑वीराः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अया अनयास्तुत्या देवहितं देवेनद्योतमानेनेन्द्रेणदत्तं वाजमन्नं सनेम वयंसंभजेम अपिच सुवीराःशोभनपुत्रोपेतावयं शतहिमाः शत- संवत्सरान् मदेम हृष्याम ॥ १५ ॥

तमुष्टुहीति पंचदशर्चंतृतीयंसूक्तं भरद्वाजस्यार्षं त्रैष्टुभमैन्द्रं तथाचानुक्रम्यते—तमुष्टुहीति । अभिजितिनिष्केवल्येएतन्निविद्धानं सूत्रितं- च—तमुष्टुहीतिमध्यन्दिनइति । इन्द्राग्न्योःकुलायनाम्र्येकाहेपि निष्केवल्येएतन्निविद्धानं सूत्रितंच—तिष्ठाहरीतमुष्टुहीतिमध्यंदिनइति । महाव्रतेपि निष्केवल्ये तथैवपंचमारण्यकेसूत्रितं--तमुष्टुहियोअभिभूत्योजाःसुतइत्वंनिमिश्लइन्द्रसोमइतित्रीणीति ।