श्रवणम्

6.17.13 समानपद
ए॒वा ता विश्वा᳚ चकृ॒वांस॒मिन्द्रं᳚ म॒हामु॒ग्रम᳚जु॒र्यं स᳚हो॒दाम् ।
सु॒वीरं᳚ त्वा स्वायु॒धं सु॒वज्र॒मा ब्रह्म॒ नव्य॒मव᳚से ववृत्यात् ॥
▶ पदपाठः (Word-by-word)
ए॒व । ता । विश्वा᳚ । च॒कृ॒॑वांस᳚म् । इन्द्र᳚म् । म॒हाम् । उ॒ग्रम् । अ॒जु॒र्यम् । स॒हः॒॑दाम् ।
सु॒॑वीर᳚म् । त्वा॒ । सु॒॑आ॒यु॒धम् । सु॒॑वज्र᳚म् । आ । ब्रह्म᳚ । नव्य᳚म् । अव᳚से । व॒वृ॒त्या॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र त्वा त्वां नव्यं नूतनमन्यैरकृतपूर्वं ब्रह्म अस्माभिःकृतंस्तोत्रं अवसेअस्माकंरक्षणाय आववृत्यात् आवर्तयतु कीदृशंत्वां एव एवमु- क्तप्रकारेण ता तानिप्रसिद्धानि विश्वा विश्वानिसर्वाणिकर्माणि चकृवांसं कृतवन्तमिन्द्रमीश्वरं महां महान्तं उग्रमोजस्विनं अजुर्यमजरं सहोदां सहसोबलस्यदातारं सुवीरं शोभ्नवीरामरुतोयस्यतं स्वायुधंशोभनायुधं सुवज्रं शोभनवज्रोपेतं ॥ १३ ॥