श्रवणम्

6.17.7
प॒प्राथ॒ क्षां महि॒ दंसो॒ व्यु१॒᳚र्वीमुप॒ द्यामृ॒ष्वो बृ॒हदि᳚न्द्र स्तभायः ।
अधा᳚रयो॒ रोद᳚सी दे॒वपु᳚त्रे प्र॒त्ने मा॒तरा᳚ य॒ह्वी ऋ॒तस्य᳚ ॥
▶ पदपाठः (Word-by-word)
प॒प्राथ᳚ । क्षाम् । महि᳚ । दंसः᳚ । वि । उ॒र्वीम् । उप᳚ । द्याम् । ऋ॒ष्वः । बृ॒हत् । इ॒न्द्र॒ । स्त॒भा॒यः॒ ।
अधा᳚रयः । रोद᳚सी॒ इति᳚ । दे॒वपु᳚त्रे॒ इति᳚ दे॒व॑पु᳚त्रे । प्र॒त्ने इति᳚ । मा॒तरा᳚ । य॒ह्वी इति᳚ । ऋ॒तस्य᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र त्वं महि महता दंसः दंससा कर्मणा उर्वीं विस्तीर्णां क्षां भूमिं विपप्राथविशेषेण पूरितवानसि प्रापूरणेइतिधातुः हेइन्द्र ऋष्वो- महांस्त्वं बृहत् बृहतीं द्यां दिवं उपस्तभायः उपस्तभ्नासि निरालंबं वितिष्ठन्तीद्यौः यथानपतति इन्द्रस्तथाकारोतीत्यर्थः अपिच त्वं रोदसी द्यावापृथिव्यौ अधारयः षोषणैर्धारयसि कीदृश्यौ देवपुत्रे देवाःपुत्राययोस्ते प्रत्ने पुराणे मातरा मातरौनिर्मात्र्यौ ऋतस्योदकस्य यज्ञस्यवा यह्वी यह्व्यौमहत्यौ यद्वा विश्वस्यमातरौ ऋतस्य ब्रह्मणः यह्वी पुत्र्यौ यहुरित्यपत्यनामैतत् ॥ ७ ॥