श्रवणम्

6.17.9
अध॒ द्यौश्चि᳚त्ते॒ अप॒ सा नु वज्रा᳚द्द्वि॒तान᳚मद्भि॒यसा॒ स्वस्य᳚ म॒न्योः ।
अहिं॒ यदिन्द्रो᳚ अ॒भ्योह᳚सानं॒ नि चि᳚द्वि॒श्वायु᳚ः श॒यथे᳚ ज॒घान᳚ ॥
▶ पदपाठः (Word-by-word)
अध᳚ । द्यौः । चि॒त् । ते॒ । अप᳚ । सा । नु । वज्रा᳚त् । द्वि॒ता । अ॒न॒म॒त् । भि॒यसा᳚ । स्वस्य᳚ । म॒न्योः ।
अहि᳚म् । यत् । इन्द्रः᳚ । अ॒भि । ओह᳚सानम् । नि । चि॒त् । वि॒श्व॑आ᳚युः । श॒यथे᳚ । ज॒घान᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

साप्रसिद्धा देवानामाश्रयत्वेन द्यौश्चित् द्युलोकोपि हेइन्द्र अधाधुनास्मिन् काले द्विता द्विधा द्विप्रकारात् तेत्वदीयाद्वज्रात् स्वस्यात्मी- यात् मन्योः क्रोधाच्च भियसा भयेन अपानमत् अपननाम नुइतिपूरणः विश्वयुर्बह्वन्नइन्द्रः यद्यदा अभ्योहसानमभिगच्छन्तं अहिं वृत्रं शयथे शयननिमित्ते मरणायेत्यर्थः जघान न्यवधीत् चिदितिपूरणः यदा वृत्रंजघान अस्मिन्कालेद्यौर्ननामेतिसंबन्धः ॥ ९ ॥