श्रवणम्

6.17.8
अध᳚ त्वा॒ विश्वे᳚ पु॒र इ᳚न्द्र दे॒वा एकं᳚ त॒वसं᳚ दधिरे॒ भरा᳚य ।
अदे᳚वो॒ यद॒भ्यौहि᳚ष्ट दे॒वान्त्स्व᳚र्षाता वृणत॒ इन्द्र॒मत्र᳚ ॥
▶ पदपाठः (Word-by-word)
अध᳚ । त्वा॒ । विश्वे᳚ । पु॒रः । इ॒न्द्र॒ । दे॒वाः । एक᳚म् । त॒वस᳚म् । द॒धि॒रे॒ । भरा᳚य ।
अदे᳚वः । यत् । अ॒भि । औहि᳚ष्ट । दे॒वान् । स्वः᳚॑साता । वृ॒ण॒ते॒ । इन्द्र᳚म् । अत्र᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अधाधुनास्मिन्काले विश्वेदेवाः सर्वेवह्न्यादयः हेइन्द्र एकं मुख्यं तवसं प्रवृद्धं बलवन्तं त्वा त्वां भराय संग्रामाय पुरोदधिरे पुरस्ताच्च- क्रिरे यद्यदा अदेवोवृत्रासुरः देवान् अभ्यौहिष्ट संग्रामार्थंअभिगतवान् ओहतिर्गतिकर्मा किंच अत्रास्मिन्काले स्वर्षाता स्वर्पातौ संग्रामेदे- वामरुतइतिशेषः इन्द्रं वृणते संभजन्ते स्म मरुतोहीन्द्रंदेवेषुपलायितेषुसमभजन्नित्यर्थः अधुना पुरोदधिरेइतिसंबन्धः ॥ ८ ॥