षष्ठं मण्डलम् - सूक्तम् 29

6 ऋचः

ऋषिः: भरद्वाजो बार्हस्पत्यः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 6.29 - सम्पूर्णम्

1 / 6
ऋक्: 6.29.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
6.29.1
इन्द्रं᳚ वो॒ नरः᳚ स॒ख्याय᳚ सेपुर्म॒हो यन्त᳚ः सुम॒तये᳚ चका॒नाः ।
म॒हो हि दा॒ता वज्र᳚हस्तो॒ अस्ति᳚ म॒हामु᳚ र॒ण्वमव᳚से यजध्वम् ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚म् । वः॒ । नरः᳚ । स॒ख्याय᳚ । से॒पुः॒ । म॒हः । यन्तः᳚ । सु॒॑म॒तये᳚ । च॒का॒नाः ।
म॒हः । हि । दा॒ता । वज्र᳚॑हस्तः । अस्ति᳚ । म॒हाम् । ऊं॒ इति᳚ । र॒ण्वम् । अव᳚से । य॒ज॒ध्व॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्यनिःश्वसितंवेदायोवेदेभ्योखिलंजगत् । निर्ममेतमहंवन्देविद्यातीर्थमहेश्वरं ॥ १ ॥

अथसप्तमोध्यायआरभ्यते षष्ठस्यमंडलस्यतृतीयेनुवाकेपंचसूक्तानिव्याकृतानि इन्द्रंवइतिषळृचं षष्ठंसूक्तं भरद्वाजस्यार्षं त्रैष्टुभमैन्द्रं अनुक्रम्यतेच-इन्द्रंषळिति । गतोविनियोगः ।

हेयजमानाः वोयुष्माकंबन्धिनः नरोनेतारऋत्विजः सख्याय सखिभावार्थं इन्द्रं सेपुः परिचरन्ति स्पृशन्तिवा कथंभूताः महोमहान्ति- स्तोत्राणि यन्तः उपयन्तः प्राप्नुवन्तः कुर्वन्तइत्यर्थः तथा सुमतये सुमतिः शोभनाअनुग्रहात्मिकातदीयाबुद्धिः तांचकानाः कामयमानाः क्रियाग्रहणंकर्तव्यमितिकर्मणःसंप्रदानसंज्ञा चकानाइतिकामयतेश्छान्दसंरूपं यद्वा महोमहत्कर्मयन्तः अनुतिष्ठन्तः सुमतये सुमतिं शोभ- नांस्तुतिं चकानाः शब्दयन्तः कैगैशब्देइत्यस्माल्लिटः कानचिरूपं हियस्मात् वज्रहस्तोवज्रपाणिरिन्द्रः महोमहतोधनस्य दातास्तिभवति तस्मात् रण्वं रमणीयं महामु महान्तमेव अवसे रक्षणाय यजध्वं हविर्भिःपूजयत ॥ १ ॥

6.29.2 समानपद
आ यस्मि॒न्हस्ते॒ नर्या᳚ मिमि॒क्षुरा रथे᳚ हिर॒ण्यये᳚ रथे॒ष्ठाः ।
आ र॒श्मयो॒ गभ᳚स्त्योः स्थू॒रयो॒राध्व॒न्नश्वा᳚सो॒ वृष᳚णो युजा॒नाः ॥
▶ पदपाठः (Word-by-word)
आ । यस्मि᳚न् । हस्ते᳚ । नर्याः᳚ । मि॒मि॒क्षुः । आ । रथे᳚ । हि॒र॒ण्यये᳚ । र॒थे॒॑स्थाः ।
आ । र॒श्मयः᳚ । गभ᳚स्त्योः । स्थू॒रयोः᳚ । आ । अध्व᳚न् । अश्वा᳚सः । वृष᳚णः । यु॒जा॒नाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्मिन्निन्द्रे नर्या नृभ्योहिता रायः आमिमिक्षुः आसिच्यन्ते आपूर्यन्ते व्यत्ययेनकर्मणिकर्तृप्रत्ययः इन्द्रे कुत्रेतिचेत् हस्ते तदीयेबाहौ यद्वैतत् समानाधिकरणमिन्द्रस्यविशेषणं हस्तेहन्तरियस्मिन्निन्द्रेइत्यर्थः उक्तंयास्केन—हस्तोहन्तेःप्राशुर्हननइति । यद्वा ईदृशेयस्मिन्निन्द्रे वर्तमानारायः आमिमिक्षुः आसिंचन्ति आपूरयन्तिस्तोतॄन् यश्चेन्द्रः रथेष्ठाः रथस्थाता तत्स्वभावःसन् हिरण्यये सुवर्णमये रथे आतिष्ठति यद्वा रथेष्ठाः रथेवस्थितारायोधनानि हिरण्मये रथेतिष्ठन् यइन्द्रआसिंचत्यभिवर्षति यस्यच स्थूरयोः स्थूलयोर्विस्तृतयोर्गभस्त्योःबाहुना- मैतत् बाह्वोःरश्मयोभीशवः आसिच्यन्ते आयम्यन्ते यस्यचाश्वासोअश्वाः वृषणः सेक्तारोयुवानः युजानाः रथेयुज्यमानाः अध्वन् अध्व- निमार्गे आमिमिक्षुः आसिंचन्ति आपूरयन्ति आगच्छन्तीत्यर्थः तमिन्द्रंस्तुमइतिशेषः ॥ २ ॥

6.29.3 समानपद
श्रि॒ये ते॒ पादा॒ दुव॒ आ मि᳚मिक्षुर्धृ॒ष्णुर्व॒ज्री शव᳚सा॒ दक्षि᳚णावान् ।
वसा᳚नो॒ अत्कं᳚ सुर॒भिं दृ॒शे कं स्व१॒᳚र्ण नृ᳚तविषि॒रो ब᳚भूथ ॥
▶ पदपाठः (Word-by-word)
श्रि॒ये । ते॒ । पादा᳚ । दुवः᳚ । आ । मि॒मि॒क्षुः॒ । धृ॒ष्णुः । व॒ज्री । शव᳚सा । दक्षि᳚ण॑वान् ।
वसा᳚नः । अत्क᳚म् । सु॒र॒भिम् । दृ॒शे । कम् । स्वः᳚ । न । नृ॒तो॒ इति᳚ । इ॒षि॒रः । ब॒भू॒थ॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र श्रिये ऎश्वर्यार्थं ते त्वदीययोः पादा पादयोः दुवः परिचरणं आमिमिक्षुः आसिंचन्ति समर्पयन्ति भरद्वाजःसमर्पयति व्यत्ययेन- बहुवचनं यद्वा ते तव पादौ श्रिये श्रयितुं सेवितुं दुवः परिचरणमासिंचम्तिअनुतिष्ठन्ति यस्त्वं शवसा बलेन धृष्णुः शत्रूणांधर्षकः वज्री वज्रवान् दक्षिणावान् दक्षिणास्तोतृभ्योदातव्यंधनं तद्वान् हेनृतोनेतरिन्द्र सत्वं सुरभिं प्रशस्तं अत्कं सततगमनशालमात्मीयंरूपं दृशे सर्वेषांदर्शनार्थं वसानः आच्छावयन् स्वर्णं सूर्यइव इषिरोगन्ता एषणीयोवा बभूथ भवसि कमितिपूरकः ॥ ३ ॥

6.29.4
स सोम॒ आमि᳚श्लतमः सु॒तो भू॒द्यस्मि᳚न्प॒क्तिः प॒च्यते॒ सन्ति᳚ धा॒नाः ।
इन्द्रं॒ नरः᳚ स्तु॒वन्तो᳚ ब्रह्मका॒रा उ॒क्था शंस᳚न्तो दे॒ववा᳚ततमाः ॥
▶ पदपाठः (Word-by-word)
सः । सोमः᳚ । आमि᳚श्ल॑तमः । सु॒तः । भू॒त् । यस्मि᳚न् । प॒क्तिः । प॒च्यते᳚ । सन्ति᳚ । धा॒नाः ।
इन्द्र᳚म् । नरः᳚ । स्तु॒वन्तः᳚ । ब्र॒ह्म॒॑का॒राः । उ॒क्था । शंस᳚न्तः । दे॒ववा᳚त॑तमाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

यःसोमोवक्ष्यते ससोमः सुतोभिषुतः सन् आमिश्लतमः आभिमुख्येनमिश्रतमोभूत् इन्द्रेणात्यर्थंसंगच्छ्ते यस्मिन् सोमेभिषुते अति- पक्तिः पक्तव्यः पुरोडाशादिःपच्यते भृष्टयवाधानास्ताश्चसन्तिहविरर्थंसंस्कृताभवन्ति यस्मिँश्च सोमेभिषुते नरोनेतारः ब्रह्मकाराः ब्रह्म- णोन्नस्यहविर्लक्षणस्यकर्तारऋत्विजः इन्द्रं स्तोत्रैः स्तुवन्तः उक्था उक्थानिशस्त्राणिच शंसन्तः उच्चारयन्तः देववात तमाः देवानतिशये- नोपगताभवन्ति ससोमइन्द्रेणसंमिश्रितोभूदित्यन्वयः ॥ ४ ॥

6.29.5
न ते॒ अन्त॒ः शव᳚सो धाय्य॒स्य वि तु बा᳚बधे॒ रोद᳚सी महि॒त्वा ।
आ ता सू॒रिः पृ᳚णति॒ तूतु᳚जानो यू॒थेवा॒प्सु स॒मीज᳚मान ऊ॒ती ॥
▶ पदपाठः (Word-by-word)
न । ते॒ । अन्तः᳚ । शव᳚सः । धा॒यि॒ । अ॒स्य । वि । तु । बा॒ब॒धे॒ । रोद᳚सी॒ इति᳚ । म॒हि॒॑त्वा ।
आ । ता । सू॒रिः । पृ॒ण॒ति॒ । तूतु᳚जानः । यू॒था॑इ᳚व । अ॒प्॑सु । स॒म्॑ईज᳚मानः । ऊ॒ती ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र ते तव अस्योक्तगुणस्य शवसोबलस्य अन्तः अवसानं नधायि अत्रकेवलोपि दधातिरवाट् पूर्वार्थोद्रष्टव्यः नावाधायि अस्माभि- र्नाज्ञायीत्यर्थः यद्बलं रोदसीद्यावापृथिव्यौ महित्वा महत्त्वेन तु क्षिप्रं विबाबधे यस्माद्बलात् द्यावापृथिव्यौबिभीतइत्यर्थः ता तद्बलं सूरिः स्तोता तूतुजानस्त्वरितःसन् ऊती ऊत्यातर्पकेणहविषा समीजमानः सम्यग्यजन् आपृणत्यापूरयति तत्रदृष्ठान्तः—यूथेवाप्सुउदकेषुगवां- यूथानीव यथा गोपालःअपःपाययन् अद्भिस्तर्पयति तद्वत् ॥ ५ ॥

6.29.6 समानपद
ए॒वेदिन्द्र᳚ः सु॒हव᳚ ऋ॒ष्वो अ᳚स्तू॒ती अनू᳚ती हिरिशि॒प्रः सत्वा᳚ ।
ए॒वा हि जा॒तो अस᳚मात्योजाः पु॒रू च᳚ वृ॒त्रा ह᳚नति॒ नि दस्यू᳚न् ॥
▶ पदपाठः (Word-by-word)
ए॒व । इत् । इन्द्रः᳚ । सु॒॑हवः᳚ । ऋ॒ष्वः । अ॒स्तु॒ । ऊ॒ती । अनू᳚ती । हि॒रि॒॑शि॒प्रः । सत्वा᳚ ।
ए॒व । हि । जा॒तः । अस᳚माति॑ओजाः । पु॒रु । च॒ । वृ॒त्रा । ह॒न॒ति॒ । नि । दस्यू᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

एव एवंउक्तेनप्रकारेण ऋष्वोमहानिन्द्रः सुहवोस्तु सुखेनाह्वातव्योभवतु इदितिपूरणः हिरिशिप्रः शिप्रेहनूनासिकेवा हरितवर्णेशि- प्रेयस्यतादृशइन्द्रः ऊती ऊत्याआगमनेन अनूती अनूत्याअनागमनेनवा सत्वा गमयिताभवतिधनानां स्वयमागतोनागतोपिस्तोतृभ्योधनं- प्रयच्छतीत्यर्थः एवाहि एवंहि जातः प्रादुर्भूतोयमिन्द्रः असमात्योजाः अप्तमातिअसमानमनुपमंउत्कृष्टतरमोजोबलंयस्यतादृशःसन् पुरु पुरूणिबहूनिच वृत्रा वृत्राण्यावरकाणिरक्षःप्रभृतीनि हनति हिनस्तु तथा दस्यून् उपक्षपयितॄन् शत्रूँश्चनिहन्तु ॥ ६ ॥

भूयइदितिपंचर्चंसप्तमंसूक्तं भरद्वाजस्यार्षं त्रैष्टुभमैन्द्रं भूयःपंचेत्यनुक्रान्तं अग्निष्टोमेमाध्यंदिनसवनेच्छावाकशस्त्रेएतत्सूक्तंशंसनीयं सूत्रितंच—उदिन्न्वस्यरिच्यतेभूयइति । महाव्रतेपिनिष्केवल्येएतत्सूक्तं तथैवपोपंचमारण्यकेसूत्रितं—भूयइद्वावृधेवीर्यायनृणामुत्वेति ।