षष्ठं मण्डलम् - सूक्तम् 25

9 ऋचः

ऋषिः: भरद्वाजो बार्हस्पत्यः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 6.25 - सम्पूर्णम्

1 / 9
ऋक्: 6.25.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (9)
6.25.1
या त᳚ ऊ॒तिर᳚व॒मा या प᳚र॒मा या म᳚ध्य॒मेन्द्र᳚ शुष्मि॒न्नस्ति᳚ ।
ताभि᳚रू॒ षु वृ᳚त्र॒हत्ये᳚॑वीर्न ए॒भिश्च॒ वाजै᳚र्म॒हान्न᳚ उग्र ॥
▶ पदपाठः (Word-by-word)
या । ते॒ । ऊ॒तिः । अ॒व॒मा । या । प॒र॒मा । या । म॒ध्य॒मा । इ॒न्द्र॒ । शु॒ष्मि॒न् । अस्ति᳚ ।
ताभिः᳚ । ऊं॒ इति᳚ । सु । वृ॒त्र॒॑हत्ये᳚ । अ॒वीः॒ । नः॒ । ए॒भिः । च॒ । वाजैः᳚ । म॒हान् । नः॒ । उ॒ग्र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेशुष्मिन् बलवन्निन्द्र तेत्वदीया या ऊतिर्यारक्षा अवमा अधमास्ति यापरमा उत्कृष्टास्ति यामध्यमास्ति ताभिरूतिभिः वृत्रहत्ये युद्धेनोस्मान् अत्यन्तं अवीः पालय किंचहेउग्रउद्गूर्णेन्द्र महांस्त्वं एभिर्भोज्यसाधनैर्वाजैरन्नैश्च नोस्मान्त्संयोजयेतिशेषः ॥ १ ॥

6.25.2
आभि॒ः स्पृधो᳚ मिथ॒तीररि᳚षण्यन्न॒मित्र᳚स्य व्यथया म॒न्युमि᳚न्द्र ।
आभि॒र्विश्वा᳚ अभि॒युजो॒ विषू᳚ची॒रार्या᳚य॒ विशो॑व᳚ तारी॒र्दासी᳚ः ॥
▶ पदपाठः (Word-by-word)
आभिः᳚ । स्पृधः᳚ । मि॒थ॒तीः । अरि᳚षण्यन् । अ॒मित्र᳚स्य । व्य॒थ॒य॒ । म॒न्युम् । इ॒न्द्र॒ ।
आभिः᳚ । विश्वाः᳚ । अ॒भि॒॑युजः᳚ । विषू᳚चीः । आर्या᳚य । विशः᳚ । अव᳚ । ता॒रीः॒ । दासीः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र आभिरस्मदीयाभिः स्तुतिभिः मिथतीः शत्रुसैन्यानिहिंसतीः स्पृधोस्मदीयाः सेमाः अरिषण्यन् अहिंसन् पालयन्नित्यर्थःअमित्र- स्यशत्रोः मन्युं संग्रामादिषुविद्यमानंकोपंव्यथय नाशय अपिच आभिःस्तुतिभिरेव अभियुजोभियोक्त्रीःविषूचीः सर्वतोविद्यमानाःदासीः कर्मणामुपक्षपयित्रीः विश्वाः सर्वाः विशः प्रजाः आर्याय यज्ञादिकर्मकृतेयजमानाय अवतारीः विनाशय ॥ २ ॥

6.25.3 समानपद
इन्द्र᳚ जा॒मय᳚ उ॒त ये॑जा᳚मयो॑र्वाची॒नासो᳚ व॒नुषो᳚ युयु॒ज्रे ।
त्वमे᳚षां विथु॒रा शवां᳚सि ज॒हि वृष्ण्या᳚नि कृणु॒ही परा᳚चः ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚ । जा॒मयः᳚ । उ॒त । ये । अजा᳚मयः । अ॒र्वा॒ची॒नासः᳚ । व॒नुषः᳚ । यु॒यु॒ज्रे ।
त्वम् । ए॒षा॒म् । वि॒थु॒रा । शवां᳚सि । ज॒हि । वृष्ण्या᳚नि । कृ॒णु॒हि । परा᳚चः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र जामयःज्ञातिरूपाः संनिकृष्टायेशत्रवः उतापिच अजामयोदूरदेशेस्थिताः येशत्रवः अर्वाचीनासः अस्मदभिमुखाः वनुषोहिंसन्तः युयुज्रे उद्युक्ताभवन्ति एषामुभयविधानां शत्रूणां संबन्धीनि शवांसि बलानि विथुरा विथुराणिहीनानि त्वं कुर्वितिशेषः तथा वृष्णयानि एषांवीर्याणि जहि नाशय किंच पराचः उभयविधान् शत्रून् पराचः पराङ्मुखान् कृणुहि कुरु ॥ ३ ॥

6.25.4
शूरो᳚ वा॒ शूरं᳚ वनते॒ शरी᳚रैस्तनू॒रुचा॒ तरु᳚षि॒ यत्कृ॒ण्वैते᳚ ।
तो॒के वा॒ गोषु॒ तन᳚ये॒ यद॒प्सु वि क्रन्द᳚सी उ॒र्वरा᳚सु॒ ब्रवै᳚ते ॥
▶ पदपाठः (Word-by-word)
शूरः᳚ । वा॒ । शूर᳚म् । व॒न॒ते॒ । शरी᳚रैः । त॒नू॒॑रुचा᳚ । तरु᳚षि । यत् । कृ॒ण्वैते॒ इति᳚ ।
तो॒के । वा॒ । गोषु᳚ । तन᳚ये । यत् । अ॒प्॑सु । वि । क्रन्द᳚सी॒ इति᳚ । उ॒र्वरा᳚सु । ब्रवै᳚ते॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र शूरः त्वदनुगृहीतोवीरः शरीरैरंगैः शूरंवा वीरमपि वनते हन्ति वेत्ययमपीत्यस्यार्थेवर्तते यद्वा वेत्यनेनविकल्पाभिधायकेनाशू- रोवात्वदनुगृहीतःसन् शूरंवनते कदावनतइति एतदाह—तनूरुचा शरीरेण शोभमानौ परस्परविरोधिनौ तरुषे शुद्धे यद्यदा कृणवैते सं- ग्रामंकुर्वाते यद्यदाच तोकेवा पुत्रनिमित्तेवा गोषुनिमित्तभूत्दासुवा तनये पौत्रेनिमित्तभूतेवा अप्सु उदकेषुनिमित्तेषुवा उर्वरासु सर्वस- स्याढ्यासुभूमिषुनिमित्तासु क्रन्दसी क्रन्दमानावा क्रोशन्तौ विब्रवैते विवदेते हेइन्द्र पुत्रादिलोआभजयस्त्वदनुगृहीतस्यभवतीत्यर्थः ॥ ४ ॥

6.25.5
न॒हि त्वा॒ शूरो॒ न तु॒रो न धृ॒ष्णुर्न त्वा᳚ यो॒धो मन्य᳚मानो यु॒योध᳚ ।
इन्द्र॒ नकि᳚ष्ट्वा॒ प्रत्य᳚स्त्येषां॒ विश्वा᳚ जा॒तान्य॒भ्य᳚सि॒ तानि᳚ ॥
▶ पदपाठः (Word-by-word)
न॒हि । त्वा॒ । शूरः᳚ । न । तु॒रः । न । धृ॒ष्णुः । न । त्वा॒ । यो॒धः । मन्य᳚मानः । यु॒योध᳚ ।
इन्द्र᳚ । नकिः᳚ । त्वा॒ । प्रति᳚ । अ॒स्ति॒ । ए॒षा॒म् । विश्वा᳚ । जा॒तानि᳚ । अ॒भि । अ॒सि॒ । तानि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र त्वा त्वयासह शूरोविक्रान्तजनोनहियुयोध नयुध्यते तथातुरः अन्येषांशत्रूणांहिंसकः अतः त्वयानयुयोध धृष्णुर्धर्षकोनयुयोध मन्यमानः युद्धेक्रुध्यन् योधोभटः त्वा त्वयान युयोध हेइन्द्र एषांशूरादीनांमध्ये कश्चनत्वा तवनकिः प्रत्यस्ति प्रतिनिधिर्नास्ति विश्वा विश्वानि जातानि प्रादुर्भूतानि तानि शूरादीनि त्वं अभ्यसि अभिभवसि ॥ ५ ॥

6.25.6 समानपद
स प᳚त्यत उ॒भयो᳚र्नृ॒म्णम॒योर्यदी᳚ वे॒धसः᳚ समि॒थे हव᳚न्ते ।
वृ॒त्रे वा᳚ म॒हो नृ॒वति॒ क्षये᳚ वा॒ व्यच᳚स्वन्ता॒ यदि᳚ वितन्त॒सैते᳚ ॥
▶ पदपाठः (Word-by-word)
सः । प॒त्य॒ते॒ । उ॒भयोः᳚ । नृ॒म्णम् । अ॒योः । यदि᳚ । वे॒धसः᳚ । स॒म्॑इ॒थे । हव᳚न्ते ।
वृ॒त्रे । वा॒ । म॒हः । नृ॒॑वति᳚ । क्षये᳚ । वा॒ । व्यच᳚स्वन्ता । यदि᳚ । वि॒त॒न्त॒सैते॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयोरनयोरुभयोर्मध्ये सजनः नृम्णं धनं प्रत्यते ईष्टे क्योर्मज्ये कईष्टइति एतदुभयमाह यदि यस्यजनस्य् यदीतिनिपातोयस्यार्थेवर्तते समिथे यज्ञेवेधसः कर्मणांविधातारक्रत्विजः हवन्ते इन्द्रंस्तुवन्ति सईष्टइतिसंबन्धः महोमहतिप्रभूते वृत्रेवा निरोधेनिमित्तेवा नृवतिपरि- चारकमनुष्ययुक्तेक्षयेवा गृहनिमित्तेवा व्यचस्वन्तौ यदि यदीयौजनौ तियावित्यर्थेवर्तते तितंतंसैते वियुध्येते तयोर्मध्येइतिसंबन्धः तसेरु- पक्षयकर्मणोविपूर्वाद्धितंतसैतेइतिभवति यद्वाततंसइतिधातुः कंड्वादिषुपठ्यते तस्मादिदंरूपमिति ॥ ६ ॥

6.25.7
अध᳚ स्मा ते चर्ष॒णयो॒ यदेजा॒निन्द्र᳚ त्रा॒तोत भ᳚वा वरू॒ता ।
अ॒स्माका᳚सो॒ ये नृत᳚मासो अ॒र्य इन्द्र᳚ सू॒रयो᳚ दधि॒रे पु॒रो नः᳚ ॥
▶ पदपाठः (Word-by-word)
अध᳚ । स्म॒ । ते॒ । च॒र्ष॒णयः᳚ । यत् । एजा᳚न् । इन्द्र᳚ । त्रा॒ता । उ॒त । भ॒व॒ । व॒रू॒ता ।
अ॒स्माका᳚सः । ये । नृ॑त᳚मासः । अ॒र्यः । इन्द्र᳚ । सू॒रयः᳚ । द॒धि॒रे । पु॒रः । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अधस्मापिच हेइन्द्र तेत्वदीयाश्चर्षणयः पुरुषाः यद्यदा एजान् एजेयुर्भीत्याकंपेयुः तदा त्वं तेषां त्राता पालकोभव उतापिच वरूता संभक्ताभव अस्माकासोस्मदीयाः नृतमासोनेतृतमाः येमनुष्याः हेइन्द्र त्वां अर्योरयः प्रापयितारइत्यर्थः तेषां त्राताभव हेइन्द्रसूरयोये- स्तोतारःनोस्मान्पुरोदधिरे पुरश्चक्रिरे तेषांच त्राताभवेति ॥ ७ ॥ साकमेधेषुमाहेन्द्मामिष्टौइन्द्रस्यवृत्रघ्नोयाज्या सूत्रितंच—अनुतेदायिमहइन्द्रियायविश्वकर्मन्हविषावावृधानइति । अनुक्रीनाम्न्येका- हेनिष्केवल्येएषैवसूक्तमुखीया सूत्रितंच—अनुतेदायिमहइन्द्रियायकथोनुतेपरिचराणिविद्वानितिद्वेइति ।

6.25.8 समानपद
अनु᳚ ते दायि म॒ह इ᳚न्द्रि॒याय᳚ स॒त्रा ते॒ विश्व॒मनु᳚ वृत्र॒हत्ये᳚ ।
अनु᳚ क्ष॒त्रमनु॒ सहो᳚ यज॒त्रेन्द्र᳚ दे॒वेभि॒रनु᳚ ते नृ॒षह्ये᳚ ॥
▶ पदपाठः (Word-by-word)
अनु᳚ । ते॒ । दा॒यि॒ । म॒हे । इ॒न्द्रि॒याय᳚ । स॒त्रा । ते॒ । विश्व᳚म् । अनु᳚ । वृ॒त्र॒॑हत्ये᳚ ।
अनु᳚ । क्ष॒त्रम् । अनु᳚ । सहः᳚ । य॒ज॒त्र॒ । इन्द्र᳚ । दे॒वेभिः᳚ । अनु᳚ । ते॒ । नृ॒॑सह्ये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र महे महते ते तुभ्यमिन्द्रियाय ऎश्वर्यार्थं अनुदायि अन्वदायि अनुदीयतेस्म वृत्रहत्ये वृत्रवधेनिमित्ते ते तुभ्यं विशं समस्तं सत्रा सत्यमनुदायि कैःकिमनुदीयतइतितदुभयमाह येनविश्वंबिभर्ति तत् क्षत्रं बलमनुदायि येनशत्रूनभिभवति तद्गुण विशिष्टं सहोबलमनुदा- यि हे यजत्र यजनीयेन्द्र ते तुभ्यं नृसह्ये युद्धे देवेभिः सर्वैःदेवैः एतत्सर्वमनुदायि ॥ ८ ॥

6.25.9
ए॒वा न॒ः स्पृध॒ः सम᳚जा स॒मत्स्विन्द्र᳚ रार॒न्धि मि᳚थ॒तीरदे᳚वीः ।
वि॒द्याम॒ वस्तो॒रव᳚सा गृ॒णन्तो᳚ भ॒रद्वा᳚जा उ॒त त᳚ इन्द्र नू॒नम् ॥
▶ पदपाठः (Word-by-word)
ए॒व । नः॒ । स्पृधः᳚ । सम् । अ॒ज॒ । स॒मत्॑सु᳚ । इन्द्र᳚ । र॒र॒न्धि । मि॒थ॒तीः । अदे᳚वीः ।
वि॒द्याम᳚ । वस्तोः᳚ । अव᳚सा । गृ॒णन्तः᳚ । भ॒रत्॑वा᳚जाः । उ॒त । ते॒ । इ॒न्द्र॒ । नू॒नम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र एव एवंस्तुतस्त्वं नोस्मदीयाःस्पृधः स्पर्धमानाः शत्रुसेनाः समत्सुसंग्रामेषु समज शत्रुवधार्थंप्रेरय किंच मिथतीर्हिंसतीःअदेवी- रासुरीः सेनाररन्धि अस्मदर्थंवशीकुरु उतापिच हेइन्द्र तेगृणन्तः त्वां स्तुवन्तोभरद्वाजावयं अवसा अन्नेन सहवस्तोर्वासस्यनिवासमित्य- र्थः नूनमवश्यं विद्याम लभेमहि ॥ ९ ॥

श्रुधीनइन्द्रेत्यष्टर्चंतृतीयंसूक्तं भरद्वाजस्यार्षं त्रैष्टुभमैन्द्रं तथाचानुक्रम्यते—श्रुधीनोष्टाविति । विनियोगोलैंगिकः ।