श्रवणम्

6.25.4
शूरो᳚ वा॒ शूरं᳚ वनते॒ शरी᳚रैस्तनू॒रुचा॒ तरु᳚षि॒ यत्कृ॒ण्वैते᳚ ।
तो॒के वा॒ गोषु॒ तन᳚ये॒ यद॒प्सु वि क्रन्द᳚सी उ॒र्वरा᳚सु॒ ब्रवै᳚ते ॥
▶ पदपाठः (Word-by-word)
शूरः᳚ । वा॒ । शूर᳚म् । व॒न॒ते॒ । शरी᳚रैः । त॒नू॒॑रुचा᳚ । तरु᳚षि । यत् । कृ॒ण्वैते॒ इति᳚ ।
तो॒के । वा॒ । गोषु᳚ । तन᳚ये । यत् । अ॒प्॑सु । वि । क्रन्द᳚सी॒ इति᳚ । उ॒र्वरा᳚सु । ब्रवै᳚ते॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र शूरः त्वदनुगृहीतोवीरः शरीरैरंगैः शूरंवा वीरमपि वनते हन्ति वेत्ययमपीत्यस्यार्थेवर्तते यद्वा वेत्यनेनविकल्पाभिधायकेनाशू- रोवात्वदनुगृहीतःसन् शूरंवनते कदावनतइति एतदाह—तनूरुचा शरीरेण शोभमानौ परस्परविरोधिनौ तरुषे शुद्धे यद्यदा कृणवैते सं- ग्रामंकुर्वाते यद्यदाच तोकेवा पुत्रनिमित्तेवा गोषुनिमित्तभूत्दासुवा तनये पौत्रेनिमित्तभूतेवा अप्सु उदकेषुनिमित्तेषुवा उर्वरासु सर्वस- स्याढ्यासुभूमिषुनिमित्तासु क्रन्दसी क्रन्दमानावा क्रोशन्तौ विब्रवैते विवदेते हेइन्द्र पुत्रादिलोआभजयस्त्वदनुगृहीतस्यभवतीत्यर्थः ॥ ४ ॥