षष्ठं मण्डलम् - सूक्तम् 47

31 ऋचः

ऋषिः: गर्गः देवता: सोमः छन्दः: त्रिष्टुप्

सूक्तम् 6.47 - सम्पूर्णम्

1 / 31
ऋक्: 6.47.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (31)
6.47.1
स्वा॒दुष्किला॒यं मधु᳚मा{4} उ॒तायं ती॒व्रः किला॒यं रस᳚वा{4} उ॒तायम् ।
उ॒तो न्व१॒᳚स्य प᳚पि॒वांस॒मिन्द्रं॒ न कश्च॒न स᳚हत आह॒वेषु᳚ ॥
▶ पदपाठः (Word-by-word)
स्वा॒दुः । किल᳚ । अ॒यम् । मधु᳚॑मान् । उ॒त । अ॒यम् । ती॒व्रः । किल᳚ । अ॒यम् । रस᳚॑वान् । उ॒त । अ॒यम् ।
उ॒तो इति᳚ । नु । अ॒स्य । प॒पि॒॑वांस᳚म् । इन्द्र᳚म् । न । कः । च॒न । स॒ह॒ते॒ । आ॒॑ह॒वेषु᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयंअभिषुतः सोमः स्वादुरास्वादनीयःकिलभवति उतापिच मधुमान् माधुर्यवांश्चायंसोमोभवति तथायंसोमः तीव्रः किल् मदोत्पा- दनेतीक्षणःखलुभवति उतापिच अयंसोमोरसवान् सारवांश्चभवति अनेनवाक्यचतुष्टयेनसोमस्यमाधुर्यातिशयत्वंचप्रतिपादितं उतोअपि- च अस्यसोमस्य द्वितीयार्थेषष्ठी इमंसोमंपपिवांसंपीतवन्तमिन्द्रं आहवेषुसंग्रामेषुनकश्चननकोपिसहते अभिभवति नुइतिपूरकः ॥ १ ॥

6.47.2
अ॒यं स्वा॒दुरि॒ह मदि᳚ष्ठ आस॒ यस्येन्द्रो᳚ वृत्र॒हत्ये᳚ म॒माद᳚ ।
पु॒रूणि॒ यश्च्यौ॒त्ना शम्ब᳚रस्य॒ वि न᳚व॒तिं नव᳚ च दे॒ह्यो॒३॒᳚ हन् ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । स्वा॒दुः । इ॒ह । मदि᳚ष्ठः । आ॒स॒ । यस्य᳚ । इन्द्रः᳚ । वृ॒त्र॒॑हत्ये᳚ । म॒माद᳚ ।
पु॒रूणि᳚ । यः । च्यौ॒त्ना । शम्ब᳚रस्य । वि । न॒व॒तिम् । नव᳚ । च॒ । दे॒ह्यः᳚ । हन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इहास्मिन् यज्ञेअयंसोमः स्वादुरास्वादितःपीतःसन् मदिष्ठः अतिशयेनमदयिता आसबभूव यस्यसोमस्यपानेनइन्द्रोवृत्रहत्ये वृत्रहनन- काले ममाद मत्तोबभूव यःसोमः शंबरस्यासुरस्य पुरूणिबहूनिच्यौत्नाच्यौत्नानिबलानिजघान तथादेह्यः दिग्धाःउपचिताःआसुरीःपुरीः तदीयान् देहान्वानवतिंनवचनवोत्तरनवतिसंख्याकाः यः सोमोविहन् व्यहन् अयंसोमइतिप्रथमपादेनसंबन्धः ॥ २ ॥

6.47.3
अ॒यं मे᳚ पी॒त उदि᳚यर्ति॒ वाच᳚म॒यं म᳚नी॒षामु᳚श॒तीम᳚जीगः ।
अ॒यं षळु॒र्वीर᳚मिमीत॒ धीरो॒ न याभ्यो॒ भुव᳚नं॒ कच्च॒नारे ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । मे॒ । पी॒तः । उत् । इ॒य॒र्ति॒ । वाच᳚म् । अ॒यम् । म॒नी॒षाम् । उ॒श॒तीम् । अ॒जी॒ग॒रिति᳚ ।
अ॒यम् । षट् । उ॒र्वीः । अ॒मि॒मी॒त॒ । धीरः᳚ । न । याभ्यः᳚ । भुव᳚नम् । कत् । च॒न । आ॒रे ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयंसोमःपीतःसन् मेममवाचंउदियर्ति उद्गयति अयमेवसोमउशतींकान्तांमनीषांबुद्धिं उदजीगः उद्गारयति प्रकाशयति गॄनिगरणे- इत्यस्माण्ण्यन्ताल्लुङिचङिरूपं अपिचायंधीरोधीमान् सोमः षळुर्वीः षण्मोर्वींरहसस्पान्तु द्यौश्चपृथिवीचाहश्चरात्रिश्चापश्चौषधयश्चेति- प्रतिपादिताद्युपृथिव्याद्याः षट् अमिमीत निर्मितवान् याभ्यउर्वीभ्यआरेदूरे विप्रकृष्टेदेशे कच्चन किंचन भुवनंभूतजातं नभवति अपितु- आस्वेवसर्वंभूतजातंवर्ततेतादृशीरुर्वीर्निर्मितवान् ॥ ३ ॥

6.47.4
अ॒यं स यो व᳚रि॒माणं᳚ पृथि॒व्या व॒र्ष्माणं᳚ दि॒वो अकृ᳚णोद॒यं सः ।
अ॒यं पी॒यूषं᳚ ति॒सृषु᳚ प्र॒वत्सु॒ सोमो᳚ दाधारो॒र्व१॒᳚न्तरि᳚क्षम् ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । सः । यः । व॒रि॒माण᳚म् । पृ॒थि॒व्याः । व॒र्ष्माण᳚म् । दि॒वः । अकृ᳚णोत् । अ॒यम् । सः ।
अ॒यम् । पी॒यूष᳚म् । ति॒सृषु᳚ । प्र॒वत्॑सु᳚ । सोमः᳚ । दा॒धा॒र॒ । उ॒रु । अ॒न्तरि᳚क्षम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सखल्वयंसोमः यःपृथिव्यावरिमाणं उरुत्वंविस्तृतत्वंअकृणोत् अकरोत् तथायंसोमोदिवोद्युलोकस्यवर्ष्माणं संहतत्वंदृढत्वंअकृणोदक- रोत्अयंसोमः सहिभवति अपिचायंसोमः तिसृष्वोषधीषुअप्सुगोषुचप्रवत्सुप्रकृष्टास्वेतासुपीयूषंरसंदाधार धारयति तथाउरुविस्तीर्णम- न्तरिक्षं चधारयति तथाचमंत्रान्तरं—त्वमिमाओषधीः सोमविश्वास्त्वमपोअजनयस्त्वंगाः । त्वमाततंथोर्वं १ तरिक्षमिति ॥ ४ ॥

6.47.5
अ॒यं वि᳚दच्चित्र॒दृशी᳚क॒मर्ण᳚ः शु॒क्रस᳚द्मनामु॒षसा॒मनी᳚के ।
अ॒यं म॒हान्म᳚ह॒ता स्कम्भ᳚ने॒नोद्द्याम᳚स्तभ्नाद्वृष॒भो म॒रुत्वा᳚न् ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । वि॒द॒त् । चि॒त्र॒॑दृशी᳚कम् । अर्णः᳚ । शु॒क्र॑स᳚द्मनाम् । उ॒षसा᳚म् । अनी᳚के ।
अ॒यम् । म॒हान् । म॒ह॒ता । स्कम्भ᳚नेन । उत् । द्याम् । अ॒स्त॒भ्ना॒त् । वृ॒ष॒भः । म॒रुत्वा᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अमंसोमः चित्रदृशीकंविचित्रदर्शनं यद्वा आश्चर्यत्वेनदर्शनीयं अर्णःसर्वस्यप्रेरकं सौरं ज्योतिःविदत् लंभयति कस्मिन्काले शुक्रसद्मनां- शुक्रंनिर्मलमन्तरिक्षंसद्मसदनंयासांतासामुषसां अनीकेप्रमुखेउषःकालइत्यर्थः अपिच महान्प्रवृद्धोयंसोमः महतास्थविष्ठेनस्कंभनेन स्तंभ- नसाधनेनमध्यवर्तिनान्तरिक्षेणद्यांद्युलोकंउदस्तभ्नात् ऊर्ध्वमस्थापयत् यथाअधोनपततितथाअन्तरिक्षंतस्याधारत्वेनकृतवानित्यर्थः कीदृशःसोमः वृषभोवृष्टेर्जनयिता सोमाहुत्याहिवृष्टिर्जन्यतेम रुत्वान्मरुद्भिर्युक्तः ॥ ५ ॥

6.47.6
धृ॒षत्पि᳚ब क॒लशे॒ सोम᳚मिन्द्र वृत्र॒हा शू᳚र सम॒रे वसू᳚नाम् ।
माध्यं᳚दिने॒ सव᳚न॒ आ वृ᳚षस्व रयि॒स्थानो᳚ र॒यिम॒स्मासु᳚ धेहि ॥
▶ पदपाठः (Word-by-word)
धृ॒षत् । पि॒ब॒ । क॒लशे᳚ । सोम᳚म् । इ॒न्द्र॒ । वृ॒त्र॒॑हा । शू॒र॒ । स॒म्॑अ॒रे । वसू᳚नाम् ।
माध्य᳚न्दिने । सव᳚ने । आ । वृ॒ष॒स्व॒ । र॒यि॒॑स्थानः᳚ । र॒यिम् । अ॒स्मासु᳚ । धे॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेशूर शौर्यवन्निन्द्र वृत्रहा वृत्राणामावरकाणांशत्रूणांहन्तात्वं वसूनांधनानांसमरेसंग्रामे निमित्तभूतेसति कलशेद्रोणकलशेवस्थितंसो- मंधृषत् धृष्टंयथाभवतितथापिब अपिच माध्यंदिने सवने आवृषस्व आसिंचस्व जठरंसोमेनपूरय सर्वैन्द्रंहिमाध्यंद्रिनंसवनं किंचरयिस्थानः रयीणांधनानांस्थानभूतस्त्वंरयिंधनमस्मासुधेहिधारय ॥ ६ ॥

6.47.7
इन्द्र॒ प्र णः᳚ पुरए॒तेव᳚ पश्य॒ प्र नो᳚ नय प्रत॒रं वस्यो॒ अच्छ᳚ ।
भवा᳚ सुपा॒रो अ᳚तिपार॒यो नो॒ भवा॒ सुनी᳚तिरु॒त वा॒मनी᳚तिः ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚ । प्र । नः॒ । पु॒र॒ए॒ता॑इ᳚व । पश्य᳚ । प्र । नः॒ । न॒य॒ । प्र॒॑त॒रम् । वस्यः᳚ । अच्छ᳚ ।
भव᳚ । सु॒॑पा॒रः । अ॒ति॒॑पा॒र॒यः । नः॒ । भव᳚ । सु॑नी᳚तिः । उ॒त । वा॒म॑नी᳚तिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र त्वंपुरएतेव पुरतोगंतेव नोस्मान् प्रपश्य प्रकर्षेणईक्षस्व यथामार्गरक्षकः स्वयंपुरतोगच्छन् अनुगच्छतोरक्षणीयान् पथिकान् प- श्यति तथापश्येत्यर्थः तथावस्योवसीयः श्रेष्ठंधनंअच्छाभिमुख्येनप्रतरं प्रकृष्टतरंअतिशयेनप्रणयअस्मान् प्रापय तथासुपारः सुष्ठुपारयिता दुःखेभ्यस्तारयिताभव तथानोस्मान् स्तोतॄन् अतिपारयः शत्रूनतिक्रामय सुनीतिःशोभननयनश्चास्माकंभव उतापिच वामनीतिः वामा- नांवननीयानांधनानांनेताभव यद्वास्मदर्थंश्रेष्ठप्रापणोभव ॥ ७ ॥ ऎन्द्रेपशौउरुंनइत्येषावपायायाज्या सूत्रितंच—उरुंनोलोकमनुनेषिविद्वान् प्रससाहिषेपुरुहूतशत्रूनिति । होत्रकैः सदः प्रसर्पणसमये- प्येषाजप्या सूत्रितंच—उरुंनोलोकमनुनेषिविद्वानितिजपंतइति । चातुर्विंशिकेहन्यहर्गणेषुचद्वितीयादिष्वहःसुमाध्यंदिनसवनेच्छावाक- स्यैषाचारंभणीया सूत्रितंच—उरुंनोलोकमनुनेषिविद्वानितिकद्वद्भ्यआरंभणीयाइति ।

6.47.8
उ॒रुं नो᳚ लो॒कमनु᳚ नेषि वि॒द्वान्त्स्व᳚र्व॒ज्ज्योति॒रभ᳚यं स्व॒स्ति ।
ऋ॒ष्वा त᳚ इन्द्र॒ स्थवि᳚रस्य बा॒हू उप᳚ स्थेयाम शर॒णा बृ॒हन्ता᳚ ॥
▶ पदपाठः (Word-by-word)
उ॒रुम् । नः॒ । लो॒कम् । अनु᳚ । ने॒षि॒ । वि॒द्वान् । स्व᳚र्॑वत् । ज्योतिः᳚ । अभ᳚यम् । स्व॒स्ति ।
ऋ॒ष्वा । ते॒ । इ॒न्द्र॒ । स्थवि᳚रस्य । बा॒हू इति᳚ । उप᳚ । स्थे॒या॒म॒ । श॒र॒णा । बृ॒हन्ता᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र विद्वान् जानंस्त्वंउरुं विस्तीर्णंलोकंस्थानंस्वर्गाख्यंनोस्मान् अनुनेषि अनुगमय तथास्वर्वत् सुखवत् अभयंभयर हितंज्योतिश्च- स्वस्तिक्षेमेणअनुनेषि अस्माननुगमय हेइन्द्र स्थाविरस्यस्थूलस्यवृद्धस्यतेतवसंबंधिनौऋष्वादर्शनीयौ बृहन्तामहान्तौ बाहूत्वदीयौहस्तौ- शरणाशरणौरक्षकौरक्षकतयाउपस्थेयाम उपतिष्ठेम सेवेमहि ॥ ८ ॥

6.47.9
वरि᳚ष्ठे न इन्द्र व॒न्धुरे᳚ धा॒ वहि᳚ष्ठयोः शताव॒न्नश्व᳚यो॒रा ।
इष॒मा व᳚क्षी॒षां वर्षि᳚ष्ठां॒ मा न᳚स्तारीन्मघव॒न्रायो᳚ अ॒र्यः ॥
▶ पदपाठः (Word-by-word)
वरि᳚ष्ठे । नः॒ । इ॒न्द्र॒ । व॒न्धुरे᳚ । धाः॒ । वहि᳚ष्ठयोः । श॒त॒॑व॒न् । अश्व᳚योः । आ ।
इष᳚म् । आ । व॒क्षि॒ । इ॒षाम् । वर्षि᳚ष्ठाम् । मा । नः॒ । ता॒री॒त् । म॒घ॒॑व॒न् । रायः᳚ । अ॒र्यः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र वरिष्ठेउरुतमेविस्तीर्णतमेवंधुरे आत्मीयेरथे नोस्मान् धाःधेहिधारय अपिच हेशतवन् शतसंख्यधनेन्द्र वहिष्ठयोर्वोढृतमयोः आ- कारःसमुच्चये अश्वयोरात्वदीययोः अश्वयोश्चास्मान् धारय तथाइषामन्नानांमध्येवर्षिष्ठांवृद्धतमांइषमन्नमावक्षि अस्मदर्थमावह आनय हेमधवन् धनवन्निंद्र अर्योधनस्यस्वामी अन्यः कश्चित् नोस्माकंरायोधनानिमातारीत् माहिंसीत् ॥ ९ ॥

6.47.10
इन्द्र᳚ मृ॒ळ मह्यं᳚ जी॒वातु᳚मिच्छ चो॒दय॒ धिय॒मय᳚सो॒ न धारा᳚म् ।
यत्किं चा॒हं त्वा॒युरि॒दं वदा᳚मि॒ तज्जु᳚षस्व कृ॒धि मा᳚ दे॒वव᳚न्तम् ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚ । मृ॒ळ । मह्य᳚म् । जी॒वातु᳚म् । इ॒च्छ॒ । चो॒दय᳚ । धिय᳚म् । अय᳚सः । न । धारा᳚म् ।
यत् । किम् । च॒ । अ॒हम् । त्वा॒॑युः । इ॒दम् । वदा᳚मि । तत् । जु॒ष॒स्व॒ । कृ॒धि । मा॒ । दे॒व॑व᳚न्तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र मृळ मृळय अस्मान्सुखय जीवातुंजीवनौषधंचमह्यंदातुमिच्छ तथाधियंबुद्धिचोदय स्तुतिविषयांकर्मविषयांवाप्रेरय तीक्ष्णीकुरु अयसोनधारां अयोमयस्यखड्गादेःधारामिव सा यथासूक्ष्मातद्वत् सूक्ष्मविषयांधियंचोदयेत्यर्थः किंचत्वायुःत्वामात्मनइच्छन् इदमिदा- नींयत्किंचनाहंवदामिसमीचीनमसमीचीनंवातज्जुषस्व मामांचदेववन्तंरक्षकैर्देवैरुपेतंकृधिकुरु ॥ १० ॥ आयुष्कामेष्ट्यांइन्द्रस्यत्रातुस्त्रातारमित्यनुवाक्या सूत्रितंच—त्रातारमिन्द्रमवितारमिन्द्रंमातेअस्यांसहसावन्परिष्टाविति ।

6.47.11
त्रा॒तार॒मिन्द्र᳚मवि॒तार॒मिन्द्रं॒ हवे᳚हवे सु॒हवं॒ शूर॒मिन्द्र᳚म् ।
ह्वया᳚मि श॒क्रं पु᳚रुहू॒तमिन्द्रं᳚ स्व॒स्ति नो᳚ म॒घवा᳚ धा॒त्विन्द्र᳚ः ॥
▶ पदपाठः (Word-by-word)
त्रा॒तार᳚म् । इन्द्र᳚म् । अ॒वि॒तार᳚म् । इन्द्र᳚म् । हवे᳚॑हवे । सु॒॑हव᳚म् । शूर᳚म् । इन्द्र᳚म् ।
ह्वया᳚मि । श॒क्रम् । पु॒रु॒॑हू॒तम् । इन्द्र᳚म् । स्व॒स्ति । नः॒ । म॒घ॑वा᳚ । धा॒तु॒ । इन्द्रः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

त्रातारंशत्रुभ्यःपालयितारमिन्द्रमाह्वयामि तथाअवितारं कामैस्तर्पयितारमिन्द्रमाह्वयामि हवेहवेसर्वेष्वाहवनेषु सुहवंसुखेनाह्वा- तुंशक्यंशूरंशौर्यवन्तं शक्रंसर्वकार्येषुशक्तं पुरुहूतंपुरुभिर्बहुभिः पालनार्थमाहूतं एवंविधमिन्द्रंह्वयाम्याह्वयामि एवमाहूतोमघवाधनवा- न्सइन्द्रःस्वस्ति अविनाशंनोस्मभ्यंधातुददातु यद्वास्माकंविदधातु ॥ ११ ॥

6.47.12 समानपद
इन्द्र᳚ः सु॒त्रामा॒ स्ववा{4}॒ अवो᳚भिः सुमृळी॒को भ᳚वतु वि॒श्ववे᳚दाः ।
बाध᳚तां॒ द्वेषो॒ अभ᳚यं कृणोतु सु॒वीर्य᳚स्य॒ पत᳚यः स्याम ॥
▶ पदपाठः (Word-by-word)
इन्द्रः᳚ । सु॒॑त्रामा᳚ । स्व॑वा᳚न् । अवः᳚॑भिः । सु॒॑मृ॒ळी॒कः । भ॒व॒तु॒ । वि॒श्व॑वे᳚दाः ।
बाध᳚ताम् । द्वेषः᳚ । अभ᳚यम् । कृ॒णो॒तु॒ । सु॒॑वीर्य᳚स्य । पत᳚यः । स्या॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुत्रामासुष्ठुत्राता स्ववान् धनवान् सइन्द्रः अवोभीरक्षणैःसुमृळीकः सुष्ठुसुखयिताभवतु तथाचविश्ववेदाःसर्वधनःसर्वविद्वान्वासइन्द्रः द्वेषःद्वेष्टृन् शत्रून्बाधतां हिनस्तु अभयंभयरहितंचास्माकंकृणोतु करोतु वयंचतत्प्रसादात् सुवीर्यस्यशोभनवीर्यस्यपतयःस्याम भवेम ॥ १२ ॥

6.47.13
तस्य᳚ व॒यं सु᳚म॒तौ य॒ज्ञिय॒स्यापि᳚ भ॒द्रे सौ᳚मन॒से स्या᳚म ।
स सु॒त्रामा॒ स्ववा{4}॒ इन्द्रो᳚ अ॒स्मे आ॒राच्चि॒द्द्वेषः᳚ सनु॒तर्यु᳚योतु ॥
▶ पदपाठः (Word-by-word)
तस्य᳚ । व॒यम् । सु॒॑म॒तौ । य॒ज्ञिय᳚स्य । अपि᳚ । भ॒द्रे । सौ॒म॒न॒से । स्या॒म॒ ।
सः । सु॒॑त्रामा᳚ । स्व॑वा᳚न् । इन्द्रः᳚ । अ॒स्मे इति᳚ । आ॒रात् । चि॒त् । द्वेषः᳚ । स॒नु॒तः । यु॒यो॒तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यज्ञियस्ययज्ञार्हस्यतस्येन्द्रस्यसुमतौ शोभनायामनुग्रहात्मिकायांबृद्धौवंयस्याम विषयभूताभवेम तथाभद्वेकल्याणेसौमनसेसुमनोभा- वेपितदीयेस्याम भवेम सइन्द्रोस्मासुअनुग्रहात्मिकां बुद्धिंसौमनस्यंचकरोत्वित्यर्थः सुत्रामासुष्ठुत्रातास्ववान् धनवान् सइन्द्रश्च अस्मेअ- स्मत्तः आराच्चित् दूरदेशेएवद्वेषःद्वेष्टृन् सनुतः अन्तर्हितनामैतत् अंतर्हितान् युयोतुपृथक्करोतु ॥ १३ ॥

6.47.14
अव॒ त्वे इ᳚न्द्र प्र॒वतो॒ नोर्मिर्गिरो॒ ब्रह्मा᳚णि नि॒युतो᳚ धवन्ते ।
उ॒रू न राध॒ः सव᳚ना पु॒रूण्य॒पो गा व᳚ज्रिन्युवसे॒ समिन्दू᳚न् ॥
▶ पदपाठः (Word-by-word)
अव᳚ । त्वे इति᳚ । इ॒न्द्र॒ । प्र॒॑वतः᳚ । न । ऊ॒र्मिः । गिरः᳚ । ब्रह्मा᳚णि । नि॒॑युतः᳚ । ध॒व॒न्ते॒ ।
उ॒रु । न । राधः᳚ । सव᳚ना । पु॒रूणि᳚ । अ॒पः । गाः । व॒ज्रि॒न् । यु॒व॒से॒ । सम् । इन्दू᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र तेत्वांनियुतःस्तोतुःगिरः उक्थात्मिकावाचः ब्रह्माणिसामरूपाणिस्तोत्राणिच अवधवन्ते अवगच्छन्ति तत्रदृष्टान्तः—ऊर्मिःज- लसंघः प्रवतोन प्रवणदेशानिव यथाउच्छ्रितात्स्थलान्निम्नदेशंशीघ्रंगच्छतितद्वत् नशब्दःसमुच्चये उरुउरूणि राधोराधांसिच हविर्लक्षणा- निधनानि पुरूणीबहूनि सवनासवनानि बहवोभिषुताःसोमाश्च त्वामेवाभिगच्छन्ति हेवज्रिन् वज्रवन्निन्द्र अपोवसतीवर्याख्यागाःगोवि- कारान् श्र्उतदध्यादीन् श्रयणार्थान् इन्दून् सोमांश्च संयुवसेसम्यग्मिश्रयसि त्वांयष्टिंवसतीवरीभिरभिषुत्यतंसोममाशिरादिभिः श्रपण- द्रव्यैः संस्कुर्वन्तीत्यर्थः ॥ १४ ॥

6.47.15
क ईं᳚ स्तव॒त्कः पृ᳚णा॒त्को य᳚जाते॒ यदु॒ग्रमिन्म॒घवा᳚ वि॒श्वहावे᳚त् ।
पादा᳚विव प्र॒हर᳚न्न॒न्यम᳚न्यं कृ॒णोति॒ पूर्व॒मप᳚रं॒ शची᳚भिः ॥
▶ पदपाठः (Word-by-word)
कः । ई॒म् । स्त॒व॒त् । कः । पृ॒णा॒त् । कः । य॒जा॒ते॒ । यत् । उ॒ग्रम् । इत् । म॒घ॑वा᳚ । वि॒श्वहा᳚ । अवे᳚त् ।
पादौ᳚॑इव । प्र॒॑हर᳚न् । अ॒न्यम्॑अ᳚न्यम् । कृ॒णोति᳚ । पूर्व᳚म् । अप᳚रम् । शची᳚भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

कःस्तोता ईमेनमिन्द्रंस्तवत् स्तुयात् स्तोतुंशक्नुयात् कोवापृणात् एनंप्रीणयेत् कश्चयजाते एनंहविर्भिर्यजेत यद्यस्मात् अयंमघवाधन- वानिन्द्रःउग्रमित् उद्गूर्णमेव विश्वहासर्वदाअवेत् आत्मानंवेत्तिजानातिसर्वदाउग्रएवभवति तस्मात्कारणात् नकोप्येनंस्तोतुंप्रीणयितुं- यष्टुंवाशक्नोतीतिभावः इतोपिस्तुत्यादेरविषयइत्याह—यस्मादयमिन्द्रःशचीभिरात्मीयाभिःप्रज्ञाभिःपूर्वंप्रथमभाविनंसन्तं स्तोतारंअपरं- पश्चाद्भाविनंचअन्यमन्यंपरस्परव्यतिहारेणकृणोतिकरोति यःप्रथमभावी मुख्यस्तोतातंजघन्यंकरोति यश्चजघन्यः स्तोतातंमुख्यंकरोति तत्रदृष्टान्तः—प्रहरन् पादाविवपादौप्रहरन् मार्गेप्रक्षिपन् पुरुषःपूर्वंपादमपरंकरोति अपरंचपूर्वंतद्वत् अतोपिकारणात् इन्द्रःस्तुत्यादेरवि- षयइतिभावः एतदादिकेनपंचर्चेनइन्द्रस्यातिस्वातंत्र्यंप्रतिपाद्यते ॥ १५ ॥

6.47.16
शृ॒ण्वे वी॒र उ॒ग्रमु᳚ग्रं दमा॒यन्न॒न्यम᳚न्यमतिनेनी॒यमा᳚नः ।
ए॒ध॒मा॒न॒द्विळु॒भय᳚स्य॒ राजा᳚ चोष्कू॒यते॒ विश॒ इन्द्रो᳚ मनु॒ष्या᳚न् ॥
▶ पदपाठः (Word-by-word)
शृ॒ण्वे । वी॒रः । उ॒ग्रम्॑उ᳚ग्रम् । द॒म॒॑यन् । अ॒न्यम्॑अ᳚न्यम् । अ॒ति॒॑ने॒नी॒यमा᳚नः ।
ए॒ध॒मा॒न॒॑द्विट् । उ॒भय᳚स्य । राजा᳚ । चो॒ष्कू॒यते᳚ । विशः᳚ । इन्द्रः᳚ । म॒नु॒ष्या᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमिन्द्रोवीरोवीर्यवानितिश्रृण्वे श्रूयते किंकुर्वन् उग्रमुग्रंउद्गूर्णंउद्गूर्णंबलिनंशत्रुंप्रतिदमायन् दमःदमनं बाधनमिच्छन् अन्यमन्यं- प्रथमंनेतव्यमन्यंपश्चान्नेतव्यंचान्यं पूर्वमपरंपरस्परस्परव्यवहारेण स्तोतॄन् अतिनेनीयमानः अत्यन्तंपुनःपुनर्नयन् अपिचएधमानद्विट् एधमानानांवर्धमानानांअसुन्वतांद्वेष्टा उभयस्यदिव्यस्यपार्थिवस्यचधनस्यराजार्इश्वरोयमिन्द्रःविशः निवेशयितॄन् स्वस्यपरिचारकान्- मनुष्यान् चोष्कूयते रक्षणार्थंपुनःपुनराह्वयति ॥ १६ ॥

6.47.17
परा॒ पूर्वे᳚षां स॒ख्या वृ᳚णक्ति वि॒तर्तु᳚राणो॒ अप᳚रेभिरेति ।
अना᳚नुभूतीरवधून्वा॒नः पू॒र्वीरिन्द्र᳚ः श॒रद᳚स्तर्तरीति ॥
▶ पदपाठः (Word-by-word)
परा᳚ । पूर्वे᳚षाम् । स॒ख्या । वृ॒ण॒क्ति॒ । वि॒॑तर्तु᳚राणः । अप᳚रेभिः । ए॒ति॒ ।
अन᳚नु॑भूतीः । अ॒व॒॑धू॒न्वा॒नः । पू॒र्वीः । इन्द्रः᳚ । श॒रदः᳚ । त॒र्त॒री॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमिन्द्रः पूर्वेषांपूर्वभाविनांप्रशस्तानांकर्मणांकुर्वतांपुरुषाणांसख्यासखित्वानिपरावृणक्ति वर्जयति अपिच वितर्तुराणस्तान् हिंसन् अपरेभिरपरैः अमुख्यैरप्रशस्तैरपिकर्मानुष्ठातृभिः एति सख्यंप्राप्नोति तथाअनानुभूतीः अपरिचरणाःप्रजाः अवधून्वानः परित्यजन् पूर्वी- र्बह्वीः शरदःसंवत्सरान्अयमिन्द्रः तर्तरीति भृशमतिक्रामति स्तोतृभिःसहसख्यंकुर्वन् चिरकालंवसतीत्यर्थः ॥ १७ ॥

6.47.18
रू॒पंरू᳚पं॒ प्रति᳚रूपो बभूव॒ तद᳚स्य रू॒पं प्र᳚ति॒चक्ष᳚णाय ।
इन्द्रो᳚ मा॒याभि᳚ः पुरु॒रूप᳚ ईयते यु॒क्ता ह्य᳚स्य॒ हर᳚यः श॒ता दश᳚ ॥
▶ पदपाठः (Word-by-word)
रू॒पम्॑रू᳚पम् । प्रति᳚॑रूपः । ब॒भू॒व॒ । तत् । अ॒स्य॒ । रू॒पम् । प्र॒ति॒॑चक्ष᳚णाय ।
इन्द्रः᳚ । मा॒याभिः᳚ । पु॒रु॒॑रूपः᳚ । ई॒य॒ते॒ । यु॒क्ताः । हि । अ॒स्य॒ । हर᳚यः । श॒ता । दश᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमिन्द्रःप्रतिरूपोरूपाणांप्रतिनिधिःसन् रूपंरूपंतत्तदग्र्यादिदेवतास्वरूपंबभूवप्राप्नोति भूप्राप्तावितिधातुः इन्द्रःस्वमाहात्म्येनतत्तद्दे- वतारूपोभवतीत्यर्थः अस्यचेन्द्रस्यतत्प्राप्तमग्न्यादिदेवतास्वरूपंप्रतिचक्षणायप्रतिनियतदर्शनाय अयमग्निरयंविष्णुरयंरुद्रइत्येवमसंकीर्ण- दर्शनायभवति अपिचायमिन्द्रोमायाभिः ज्ञाननामैतत् ज्ञानैरात्मीयैः संकल्पैः पुरुरूपोबहुविधशरीरः सन् ईयतेबहून्यजमानान् गच्छति ननुद्वावेवास्याश्वौ एकश्चरथः कथमनेनयुगपद्बहून् गच्छतीत्यतआह—अस्येन्द्रस्यहरयोश्वाःयुक्तारथेयोजिताःशतादश सहस्रसंख्याकाः अपरिमिताः सन्तिहि यस्मादेवंतस्माद्बहुशरीरणिस्वीकृत्ययुगपद्धविष्मतोयजमानान् गच्छतीत्यर्थः अन्येमन्यन्ते इदिषरमैश्वर्येइत्यस्य- धातोः रथानुगमादिन्द्रः परमात्मासचाकाशवत् सर्वगतःसदानंदरूपः सएवोपाधिभिरन्तः करणैः प्रतिशरीरमवच्छिन्नःसन् जीवात्मेति- व्यपदिश्यते सएवअनादिमायाशक्तिभिः वियदादिजगदात्मनाविवर्ततेशब्दादिविषयहरणशीलाः इन्द्रियवृत्तयश्चतेनैवसंबद्धाः एतत्सर्वं- तस्यपरमात्मनोयद्वास्तवंरूपंतस्यदर्शनायेति अयमर्थोनयाप्रतिपाद्यते रूपंरूप्यतइतिरूपं शरीरादिप्रतिशरीरंचिद्रूपः सर्वगतः परमात्मा- प्रतिरूपः प्रतिबिंबरूपःसन् सर्वाणिशरीराणिबभूव प्राप्नोत् तच्चप्राप्तंप्रतिबिंबरूपंअस्यपरमात्मनः प्रतिचक्षणायप्रतिनियताकारस्यदर्शना- यभवति सचेन्द्रः परमेश्वरः मायाभिर्मायाशक्तिभिः पुरुरूपः वियदादिभिर्बहुविधरूपैरुपेतःसन्नीयते चेष्ठते एतदपि अस्यपरमात्मनःप्रति- चक्षणायभवति अस्यचदशशतासहस्रसंख्याकाहरयः इन्द्रियवृत्तयः युक्ताःविषयग्रहणायोद्युक्ताः सन्ति तदमिअस्यवास्तवरूपस्यदर्शनाय- भवताति एवंस्थूक्ष्मशरीरयोर्वियदादिमहाप्रपंचस्यचतत्वज्ञानहेतुत्वमनयाप्रत्यपादीति ॥ १८ ॥

6.47.19
यु॒जा॒नो ह॒रिता॒ रथे॒ भूरि॒ त्वष्टे॒ह रा᳚जति ।
को वि॒श्वाहा᳚ द्विष॒तः पक्ष᳚ आसत उ॒तासी᳚नेषु सू॒रिषु᳚ ॥
▶ पदपाठः (Word-by-word)
यु॒जा॒नः । ह॒रिता᳚ । रथे᳚ । भूरि᳚ । त्वष्टा᳚ । इ॒ह । रा॒ज॒ति॒ ।
कः । वि॒श्वाहा᳚ । द्वि॒ष॒तः । पक्षः᳚ । आ॒स॒ते॒ । उ॒त । आसी᳚नेषु । सू॒रिषु᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हरिताहरितावश्वौ रथेयुजानोयुंजन् त्वष्टादीप्तइन्द्रः इहत्रैलोक्येभूरिभूरिषु बहुषुप्रदेशेषु राजति दीप्यते उतापिच सूरिषुस्तोतृषुअ- स्मादृशेषु आसीनेषुसत्सु विश्वाहासर्वदाइन्द्रादन्यः कोनामद्विषतः शत्रोः पक्षःपाचकोबाधकः सन् आसते आस्ते इन्द्रएवसर्वदा शत्रून् बा- धतइत्यर्थः यद्वा पक्षइतिसकारान्तंसमीपवचनं इन्द्रादन्यः कोनामद्विषतः शत्रोः समीपेआसते आस्तेइन्द्रएवनिर्भयःसन् शत्रुसमीपेस्था- तुंशक्नोतीतिभावः ॥ १९ ॥

6.47.20
अ॒ग॒व्यू॒ति क्षेत्र॒माग᳚न्म देवा उ॒र्वी स॒ती भूमि᳚रंहूर॒णाभू᳚त् ।
बृह᳚स्पते॒ प्र चि᳚कित्सा॒ गवि᳚ष्टावि॒त्था स॒ते ज᳚रि॒त्र इ᳚न्द्र॒ पन्था᳚म् ॥
▶ पदपाठः (Word-by-word)
अ॒ग॒व्यू॒ति । क्षेत्र᳚म् । आ । अ॒ग॒न्म॒ । दे॒वाः॒ । उ॒र्वी । स॒ती । भूमिः᳚ । अं॒हू॒र॒णा । अ॒भू॒त् ।
बृह᳚स्पते । प्र । चि॒कि॒त्स॒ । गो॑इ᳚ष्टौ । इ॒त्था । स॒ते । ज॒रि॒त्रे । इ॒न्द्र॒ । पन्था᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अवोक्तं—अरण्येनिर्जनेगर्गोदेवान् भूमिंबृहस्पतिम् । इन्द्रंचास्तौत्स्वरक्षार्थमृचामार्गच्युतोनयेति ॥ १ ॥ अगव्यूतीत्यत्रदेवान्पादेभूमि- मथोत्तरे । बृहस्पतिंतृतीयेतुइन्द्रएवोत्तमेस्तुतइतिच ॥ २ ॥ हेदेवाः अगव्यूतिअगोचरंगोसंचाररहितंक्षेत्रंदेशंआगन्म आगतास्मः अतोमां- रक्षतेतिशेषः उर्वीविस्तीर्णासती भूमिश्चअंहूरणाअंहवः आहन्तारोदस्यवः तेषांरमणारमयित्रीअभूत् भवति अस्मान् अतःसापिरक्षतु हेबृहस्पते त्वंगविष्टौगवामन्वेषणेउपायेप्रचिकित्स प्रवेदय इत्थाइत्थमनेनप्रकारेणसतेभवते दुःखमनुभवतेजरित्रेस्तोत्रेमह्यं हेइन्द्र पंथांपं- थानंमार्गंप्रचिकित्स प्रज्ञापय ॥ २० ॥

6.47.21
दि॒वेदि᳚वे स॒दृशी᳚र॒न्यमर्धं᳚ कृ॒ष्णा अ᳚सेध॒दप॒ सद्म᳚नो॒ जाः ।
अह᳚न्दा॒सा वृ᳚ष॒भो व᳚स्न॒यन्तो॒दव्र᳚जे व॒र्चिनं॒ शम्ब᳚रं च ॥
▶ पदपाठः (Word-by-word)
दि॒वे॑दि᳚वे । स॒॑दृशीः᳚ । अ॒न्यम् । अर्ध᳚म् । कृ॒ष्णाः । अ॒से॒ध॒त् । अप᳚ । सद्म᳚नः । जाः ।
अह᳚न् । दा॒सा । वृ॒ष॒भः । व॒स्न॒यन्ता᳚ । उ॒द॑व्र᳚जे । व॒र्चिन᳚म् । शम्ब᳚रम् । च॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमिन्द्रः सद्मनः सदनात् स्वकीयादंतरिक्षैकदेशात् स्थानात् जाः जायमानः सूर्यात्मना प्रादुर्भवन् सदृशीस्तुल्यरूपाः कृष्णाः कृष्ण- वर्णारात्रीः दिवेदिवेप्रतिदिवेप्रतिदिवसंअपासेधत् निवर्तयति किमर्थं अन्यमर्थंअहरर्थमपरंभागंप्रकाशयितुं अहोरात्रात्मकस्यदिवसस्यहि- रात्रिरेकोभागः अपिचवृषभोवर्षयितासइन्द्रः दासादासौउपक्षपयितारौ यज्ञकर्मणांवस्नयन्तावस्नंनिवासहेतुभूतंधनं तदिच्छन्तौ वर्चिनं- शंबरंचएतत्संज्ञावसुरौउदव्रजे उदकानिव्रजंत्यस्मिन्नितिउदव्रजोदेशविशेषः तस्मिन् अहन् हतवान् ॥ २१ ॥

6.47.22
प्र॒स्तो॒क इन्नु राध᳚सस्त इन्द्र॒ दश॒ कोश᳚यी॒र्दश᳚ वा॒जिनो᳚॑दात् ।
दिवो᳚दासादतिथि॒ग्वस्य॒ राधः᳚ शाम्ब॒रं वसु॒ प्रत्य᳚ग्रभीष्म ॥
▶ पदपाठः (Word-by-word)
प्र॒स्तो॒कः । इत् । नु । राध᳚सः । ते॒ । इ॒न्द्र॒ । दश᳚ । कोश᳚यीः । दश᳚ । वा॒जिनः᳚ । अ॒दा॒त् ।
दिवः᳚॑दासात् । अ॒ति॒थि॒॑ग्वस्य᳚ । राधः᳚ । शा॒म्ब॒रम् । वसु᳚ । प्रति᳚ । अ॒ग्र॒भी॒ष्म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एतदाद्यासुचतसृषुसृंजयपुत्रस्यप्रस्तोकस्यराज्ञोदानस्तुतिः सएवदिवोदासःअश्वथःअतिथिग्वइतिचाख्यायते हेइन्द्र तेतवराधसःआ- राधयितुःस्तोतुः चतुर्थ्यर्थेषष्ठी त्वांस्तुवते मह्यंगर्गायप्रस्तोकोराजादशकोशयीः सुवर्णपूर्णान् दशसंख्याकान् कोशान् दशवाजिनोश्वांश्च नुक्षिप्रंअदात् प्रायच्छत् इदितिपूरणः वयंचतस्माद्दिवोदासात् एतत्संज्ञात् प्रस्तोकात् बसुधनंप्रत्यग्रभीष्म प्रतिगृहीतवन्तः कीदृशं अति- थिग्वस्य तस्यैवप्रस्तोकस्यस्वभूतंराधःराधकं शांबरं शंबरादसुरादागतंशंबरंहत्वा त्वयादत्तंतदीयमित्यर्थः ॥ २२ ॥

6.47.23
दशाश्वा॒न्दश॒ कोशा॒न्दश॒ वस्त्राधि᳚भोजना ।
दशो᳚ हिरण्यपि॒ण्डान्दिवो᳚दासादसानिषम् ॥
▶ पदपाठः (Word-by-word)
दश᳚ । अश्वा᳚न् । दश᳚ । कोशा᳚न् । दश᳚ । वस्त्रा᳚ । अधि᳚॑भोजना ।
दशो॒ इति᳚ । हि॒र॒ण्य॒॑पि॒ण्डान् । दिवः᳚॑दासात् । अ॒सा॒नि॒ष॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

दशदशसंख्याकानश्वान् दशसंख्याकान् हिरण्यपूर्णान् कोशान् अधिभोजना भोजनमितिधननाम अधिकंधनंयेषांमूल्यंतादृशानिदश- संख्यानिवस्त्राणिच दशोदशचदशसंख्याकांश्च हिरण्यपिंडान् सुवर्णपिंडान् एतान् सर्वान् दिवोदासात् प्रस्तोदात् अहमसानिषंसमभजं लब्धवानस्मि ॥ २३ ॥

6.47.24
दश॒ रथा॒न्प्रष्टि᳚मतः श॒तं गा अथ᳚र्वभ्यः ।
अ॒श्व॒थः पा॒यवे᳚॑दात् ॥
▶ पदपाठः (Word-by-word)
दश᳚ । रथा᳚न् । प्रष्टि᳚॑मतः । श॒तम् । गाः । अथ᳚र्व॑भ्यः ।
अ॒श्व॒थः । पा॒यवे᳚ । अ॒दा॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

दशदशसंख्याकान् प्रष्टिमतः प्रष्टिस्त्रिपदआधारः तद्वद्वहन्तीतिप्रष्टयीश्वाः तद्युक्तान् रथान् शतंशतसंख्याकागाश्चअथर्वभ्यः अथर्वगोत्रे- भ्यऋषिभ्यः पायवेभरद्वाजपुत्रायएतत्संज्ञायास्मद्भात्रेच अश्वथः अश्ववानेतत्संज्ञःप्रस्तोकः अदात् दत्तवान् ॥ २४ ॥

6.47.25
महि॒ राधो᳚ वि॒श्वज᳚न्यं॒ दधा᳚नान्भ॒रद्वा᳚जान्त्सार्ञ्ज॒यो अ॒भ्य᳚यष्ट ॥
▶ पदपाठः (Word-by-word)
महि᳚ । राधः᳚ । वि॒श्व॑ज᳚न्यम् । दधा᳚नान् । भ॒रत्॑वा᳚जान् । स॒र्ञ्ज॒यः । अ॒भि । अ॒य॒ष्ट॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्वजन्यंसर्वजनहितंमहिमहत् राधोधनंदधानान् धारयतोभरद्वाजान् भरद्वाजपुत्रानस्मान् सार्ञ्चयःसृंजयपुत्रः प्रस्तोकः अभ्ययष्ट अपूजयत् ॥ २५ ॥ वनस्पतइत्येषारथारोहणेविनियुक्ता सूत्रितंच—वनस्पतेवीड्ढंगोहिभूयाइत्येतयान्यान्यपिवानस्पत्यानीति ।

6.47.26
वन᳚स्पते वी॒ड्व᳚ङ्गो॒ हि भू॒या अ॒स्मत्स᳚खा प्र॒तर᳚णः सु॒वीरः᳚ ।
गोभि॒ः संन᳚द्धो असि वी॒ळय᳚स्वास्था॒ता ते᳚ जयतु॒ जेत्वा᳚नि ॥
▶ पदपाठः (Word-by-word)
वन᳚स्पते । वी॒ळु॑अ᳚ङ्गः । हि । भू॒याः । अ॒स्मत्॑स᳚खा । प्र॒॑तर᳚णः । सु॒॑वीरः᳚ ।
गोभिः᳚ । सम्॑न᳚द्धः । अ॒सि॒ । वी॒ळय᳚स्व । आ॒॑स्था॒ता । ते॒ । ज॒य॒तु॒ । जेत्वा᳚नि ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेवनस्पते वनस्पतिविकाररथ त्वं वीड्ढंगःदृढावयवोभूयाः भव अस्मत्सखावयंसखायोयस्यसतादृशश्चभव प्रतरणः प्रवर्धयितासुवीरः शोभनैःवीरैः शूरभटैः पुत्रादिभिर्वायुक्तश्चभव अपिच त्वंगोभिः गोविकारैश्चर्मभिः सन्नद्धोसि सम्यग्बद्धोभवसि तादृशस्त्वंवीळयस्व अ- स्मान् दृढीकुरु तेतवआस्थातात्वय्यवस्थितोरथीच जेत्वानिजेतव्यानिशत्रुसैन्यानिजयतु ॥ २६ ॥

6.47.27
दि॒वस्पृ᳚थि॒व्याः पर्योज॒ उद्भृ᳚तं॒ वन॒स्पति᳚भ्य॒ः पर्याभृ᳚तं॒ सहः᳚ ।
अ॒पामो॒ज्मानं॒ परि॒ गोभि॒रावृ᳚त॒मिन्द्र᳚स्य॒ वज्रं᳚ ह॒विषा॒ रथं᳚ यज ॥
▶ पदपाठः (Word-by-word)
दि॒वः । पृ॒थि॒व्याः । परि᳚ । ओजः᳚ । उत्॑भृ᳚तम् । वन॒स्पति᳚॑भ्यः । परि᳚ । आ॑भृ᳚तम् । सहः᳚ ।
अ॒पाम् । ओ॒ज्मान᳚म् । परि᳚ । गोभिः᳚ । आ॑वृ᳚तम् । इन्द्र᳚स्य । वज्र᳚म् । ह॒विषा᳚ । रथ᳚म् । य॒ज॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

दिवोद्युलोकात् पृथिव्याभूमेश्चउद्भ्रुतं उद्धतंसारत्वेनोपात्तं यदोजोबलमस्ति तद्रूपंवनस्पतिविकारत्वात् रथस्यवनस्पतयोहिपृथि- व्याः सारभूताः तेचद्युसंबन्धिभिरुदकैःप्रवृद्धाः अतोरथस्यलोकद्वयसारत्वमुपपन्नं परिःपंचम्यर्थानुवादी अपिच वनस्पतिभ्योवृक्षेभ्यः परिपूर्ववत् आभृतमाहृतंसहोबलरूपं अपामुदकानांओज्मानंप्रेरकं यद्वा ओज्मावेगः अपांवेगइववेगवन्तंगोभिः गोविकारैः चर्मभिः परि- तआवृतं आवेष्टितं इन्द्रस्यवज्रंवज्रैकदेशं श्रूयतेहि—इन्द्रोवृत्रायवज्रमुदयच्छ्त् सत्रेधाव्यभजत् वज्रस्तृतीयंरथस्तृतीयंयूपस्तृतीयमिति । एवंगुणविशिष्टंरथंहविषापुरोडाशादिनाहेअध्वर्यो यजनूनमेषाउत्तराचरथदेवत्यस्यहविषोयाज्यानुवाक्येलिंगादवगंतव्ये ॥ २७ ॥

6.47.28
इन्द्र᳚स्य॒ वज्रो᳚ म॒रुता॒मनी᳚कं मि॒त्रस्य॒ गर्भो॒ वरु᳚णस्य॒ नाभि᳚ः ।
सेमां नो᳚ ह॒व्यदा᳚तिं जुषा॒णो देव᳚ रथ॒ प्रति᳚ ह॒व्या गृ᳚भाय ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚स्य । वज्रः᳚ । म॒रुता᳚म् । अनी᳚कम् । मि॒त्रस्य᳚ । गर्भः᳚ । वरु᳚णस्य । नाभिः᳚ ।
सः । इ॒माम् । नः॒ । ह॒व्यद्॑आ᳚तिम् । जु॒षा॒णः । देव᳚ । र॒थ॒ । प्रति᳚ । ह॒व्या । गृ॒भा॒य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

योरथः इन्द्रस्यवज्रः उक्तप्रकारेणवज्रैकदेशः मरुतांएतत्संज्ञानांदेवगणानांअनीकंअग्रभूतं तद्वत् शीघ्रगामीमित्रस्यअहरभिमानिनोदेव- स्यगर्भोगर्भवदंतर्वर्तमानः अहनिहिरथः संचरति वरुणस्यरात्र्यभिमानिदेवस्यनाभिः नाभिस्थानीयः नाभिर्यथादेहमध्येनैश्चल्येनावतिष्ठ- तेतद्वत् रात्रौक्वचिदेवस्थितः हेदेव द्योतमानरथयउक्तगुणःक् सतादृशस्त्वं इमांनोस्मदीयांहव्यदातिंहविर्दानव तींयागक्रियां जुषाणःसेव- मानः सन् हव्या हव्यान्यस्मदीयानिहवींषि प्रतिगृभाय प्रतिगृहाण ॥ २८ ॥ परेणतृचेनसंग्रामेदुंदुभिरभिमर्शनीयः सूत्रितंच—उपश्वासयपृथिवीमुतद्यामितितृचेनदुंदुभिमभिमृशेदिति ।

6.47.29 समानपद
उप᳚ श्वासय पृथि॒वीमु॒त द्यां पु᳚रु॒त्रा ते᳚ मनुतां॒ विष्ठि᳚तं॒ जग᳚त् ।
स दु᳚न्दुभे स॒जूरिन्द्रे᳚ण दे॒वैर्दू॒राद्दवी᳚यो॒ अप᳚ सेध॒ शत्रू᳚न् ॥
▶ पदपाठः (Word-by-word)
उप᳚ । श्वा॒स॒य॒ । पृ॒थि॒वीम् । उ॒त । द्याम् । पु॒रु॒॑त्रा । ते॒ । म॒नु॒ता॒म् । वि॑स्थि᳚तम् । जग᳚त् ।
सः । दु॒न्दु॒भे॒ । स॒॑जूः । इन्द्रे᳚ण । दे॒वैः । दू॒रात् । दवी᳚यः । अप᳚ । से॒ध॒ । शत्रू᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेदुंदुभे पृथिवींउतापिच द्यंदिवंउपश्वासय आत्मीयेनजयघोषेणाश्वासय यथा लोकद्वयंत्वदीयेनशब्देनापूरितंभवति तादृशंशब्दंकुर्वि- त्यर्थः अपिचविस्थितंविशेषेणस्थितं स्थावरंजंगमंच उभयविधंप्राणिजातंतेत्वदीयंशब्दंपुरुत्राबहुधामनुतांमन्यतांजानात् हेदुंदुभे सत्वं- इन्द्रेण अन्यैर्देश्चसजूःसहदूराद्दवीयः दूरादपिदूरतरंशत्रूनस्मदीयान् अपसेध अपगमय अत्रनिरुक्तं—दुंदुभिरितिशब्दानुकरणंद्रुमोभिन्न- मितिवादंदभ्यतेर्वास्याद्वधकर्मणइत्यादि ॥ २९ ॥

6.47.30
आ क्र᳚न्दय॒ बल॒मोजो᳚ न॒ आ धा॒ निः ष्ट᳚निहि दुरि॒ता बाध᳚मानः ।
अप᳚ प्रोथ दुन्दुभे दु॒च्छुना᳚ इ॒त इन्द्र᳚स्य मु॒ष्टिर᳚सि वी॒ळय᳚स्व ॥
▶ पदपाठः (Word-by-word)
आ । क्र॒न्द॒य॒ । बल᳚म् । ओजः᳚ । नः॒ । आ । धाः॒ । निः । स्त॒नि॒हि॒ । दुः॒॑इ॒ता । बाध᳚मानः ।
अप᳚ । प्रो॒थ॒ । दु॒न्दु॒भे॒ । दु॒च्छुनाः᳚ । इ॒तः । इन्द्र᳚स्य । मु॒ष्टिः । अ॒सि॒ । वी॒ळय᳚स्व ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेदुंदुभे आक्रन्दयअस्मच्छत्रून् रोदय बलंसेनारूपंओजःशरीरबलंच नोस्मभ्यंआधाः आधेहि प्रयच्छ तथादुरितादुरितानि दुर्गमनानि- बाधमानोहिंसंस्त्वंनिस्तनिहि नितरांशब्दंकुरुस्तनशब्दइतिधातुः हेदुंदुभे दुच्छुनाःअस्मद्दुःखहेतुभूतंशुनंसुखंयासांतादृशीःशत्रुसेनाःइतो- स्मात्स्थानात् अपप्रोथबाधस्वत्वंचेन्द्रस्यमुष्टिरसि मुष्टिरिवशत्रूणांहन्ताभवसि अतोस्मान्वीळयस्व दृढीकरु ॥ ३० ॥

6.47.31
आमूर᳚ज प्र॒त्याव᳚र्तये॒माः के᳚तु॒मद्दु᳚न्दु॒भिर्वा᳚वदीति ।
समश्व᳚पर्णा॒श्चर᳚न्ति नो॒ नरो॒॑स्माक᳚मिन्द्र र॒थिनो᳚ जयन्तु ॥
▶ पदपाठः (Word-by-word)
आ । अ॒मूः । अ॒ज॒ । प्र॒ति॒॑आव᳚र्तय । इ॒माः । के॒तु॒॑मत् । दु॒न्दु॒भिः । वा॒व॒दी॒ति॒ ।
सम् । अश्व᳚॑पर्णाः । चर᳚न्ति । नः॒ । नरः᳚ । अ॒स्माक᳚म् । इ॒न्द्र॒ । र॒थिनः᳚ । ज॒य॒न्तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्याःपूर्वार्धोदुंदुभिदेवत्यः उत्तरार्धश्चैन्द्रः यद्वा उभावप्यर्धर्चावैन्द्रौ हेइन्द्र अमूःशत्रुषु स्थिताः तागाः आजअस्मान्प्रत्यागमय इमाः अस्मदीयागाः शत्रुभिर्जिघृक्षिताःप्रत्यावर्तय प्रतिनिवर्तय अयंचदुंदुभिः केतुमत् प्रज्ञानवत् यथासर्वैर्ज्ञायतेतथावावदीतिभृशंशब्दंकरोति अश्वपर्णाःअश्वपतनाः अश्ववाहाश्चनोस्मदीयाश्चनरःपुरुषाःसंचरन्ति शत्रुभिर्युध्यमानावर्तन्ते तथासति हेइन्द्र अस्माकंरथिनः रथारूढाः पुरुषाः शत्रून् जयन्तु ॥ ३१ ॥

वेदार्थस्यप्रकाशेनतमोहार्दंनिवारयन् । पुमर्थांश्चतुरोदेयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

इतिश्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेणसायणाचार्येणविरचितेमाधवीयेवेदार्थप्रकाशे- ऋक्संहिताभाष्येचतुर्थाष्टकेसप्तमोध्यायः समाप्तः ॥ ७ ॥