अ॒ग॒व्यू॒ति क्षेत्र॒माग᳚न्म देवा उ॒र्वी स॒ती भूमि᳚रंहूर॒णाभू᳚त् ।
बृह᳚स्पते॒ प्र चि᳚कित्सा॒ गवि᳚ष्टावि॒त्था स॒ते ज᳚रि॒त्र इ᳚न्द्र॒ पन्था᳚म् ॥
बृह᳚स्पते॒ प्र चि᳚कित्सा॒ गवि᳚ष्टावि॒त्था स॒ते ज᳚रि॒त्र इ᳚न्द्र॒ पन्था᳚म् ॥
पदपाठः (Word-by-word)
अ॒ग॒व्यू॒ति । क्षेत्र᳚म् । आ । अ॒ग॒न्म॒ । दे॒वाः॒ । उ॒र्वी । स॒ती । भूमिः᳚ । अं॒हू॒र॒णा । अ॒भू॒त् ।
बृह᳚स्पते । प्र । चि॒कि॒त्स॒ । गो॑इ᳚ष्टौ । इ॒त्था । स॒ते । ज॒रि॒त्रे । इ॒न्द्र॒ । पन्था᳚म् ॥
बृह᳚स्पते । प्र । चि॒कि॒त्स॒ । गो॑इ᳚ष्टौ । इ॒त्था । स॒ते । ज॒रि॒त्रे । इ॒न्द्र॒ । पन्था᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
अवोक्तं—अरण्येनिर्जनेगर्गोदेवान् भूमिंबृहस्पतिम् । इन्द्रंचास्तौत्स्वरक्षार्थमृचामार्गच्युतोनयेति ॥ १ ॥ अगव्यूतीत्यत्रदेवान्पादेभूमि- मथोत्तरे । बृहस्पतिंतृतीयेतुइन्द्रएवोत्तमेस्तुतइतिच ॥ २ ॥ हेदेवाः अगव्यूतिअगोचरंगोसंचाररहितंक्षेत्रंदेशंआगन्म आगतास्मः अतोमां- रक्षतेतिशेषः उर्वीविस्तीर्णासती भूमिश्चअंहूरणाअंहवः आहन्तारोदस्यवः तेषांरमणारमयित्रीअभूत् भवति अस्मान् अतःसापिरक्षतु हेबृहस्पते त्वंगविष्टौगवामन्वेषणेउपायेप्रचिकित्स प्रवेदय इत्थाइत्थमनेनप्रकारेणसतेभवते दुःखमनुभवतेजरित्रेस्तोत्रेमह्यं हेइन्द्र पंथांपं- थानंमार्गंप्रचिकित्स प्रज्ञापय ॥ २० ॥