श्रवणम्

6.47.31
आमूर᳚ज प्र॒त्याव᳚र्तये॒माः के᳚तु॒मद्दु᳚न्दु॒भिर्वा᳚वदीति ।
समश्व᳚पर्णा॒श्चर᳚न्ति नो॒ नरो॒॑स्माक᳚मिन्द्र र॒थिनो᳚ जयन्तु ॥
▶ पदपाठः (Word-by-word)
आ । अ॒मूः । अ॒ज॒ । प्र॒ति॒॑आव᳚र्तय । इ॒माः । के॒तु॒॑मत् । दु॒न्दु॒भिः । वा॒व॒दी॒ति॒ ।
सम् । अश्व᳚॑पर्णाः । चर᳚न्ति । नः॒ । नरः᳚ । अ॒स्माक᳚म् । इ॒न्द्र॒ । र॒थिनः᳚ । ज॒य॒न्तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्याःपूर्वार्धोदुंदुभिदेवत्यः उत्तरार्धश्चैन्द्रः यद्वा उभावप्यर्धर्चावैन्द्रौ हेइन्द्र अमूःशत्रुषु स्थिताः तागाः आजअस्मान्प्रत्यागमय इमाः अस्मदीयागाः शत्रुभिर्जिघृक्षिताःप्रत्यावर्तय प्रतिनिवर्तय अयंचदुंदुभिः केतुमत् प्रज्ञानवत् यथासर्वैर्ज्ञायतेतथावावदीतिभृशंशब्दंकरोति अश्वपर्णाःअश्वपतनाः अश्ववाहाश्चनोस्मदीयाश्चनरःपुरुषाःसंचरन्ति शत्रुभिर्युध्यमानावर्तन्ते तथासति हेइन्द्र अस्माकंरथिनः रथारूढाः पुरुषाः शत्रून् जयन्तु ॥ ३१ ॥

वेदार्थस्यप्रकाशेनतमोहार्दंनिवारयन् । पुमर्थांश्चतुरोदेयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

इतिश्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेणसायणाचार्येणविरचितेमाधवीयेवेदार्थप्रकाशे- ऋक्संहिताभाष्येचतुर्थाष्टकेसप्तमोध्यायः समाप्तः ॥ ७ ॥